आडुबान् जान् जेम्स्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
John James Audubon
Audubon by John Syme, 1826
जन्म Jean‐Jacques Rabin Edit this on Wikidata
April 26, 1785
Les Cayes, Saint-Domingue (later Haiti)
मृत्युः २७, १८५१(१८५१-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-२७) (आयुः ६५)
Manhattan, New York, U.S.
शान्तिस्थानम् Trinity Church Cemetery and Mausoleum Edit this on Wikidata
देशीयता संयुक्तराज्यानि Edit this on Wikidata
वृत्तिः Naturalist, painter, ornithologist
भार्या(ः) Lucy (Bakewell) Audubon
अपत्यानि John Woodhouse Audubon, Victor Gifford Audubon, Lucy Audubon, Rose Audubon Edit this on Wikidata
हस्ताक्षरम्
वृद्धाप्ये आडुबान् जान् जेम्स्

(कालः – २६. ०४. १७८५ तः २७. ०१. १८५१)

अयम् आडुबान् जान् जेम्स् (Audubon John James) पक्षिणां चित्रणं कृतवान् प्रकृतिप्रियः । प्रकृतिप्रियाणां सर्वेषाम् अपि चिरपरिचितं नाम एतत् अयम् आडुबान् जान् जेम्स् इति । सः ज्ञानार्जने कलायां च समानतया आसक्तः आसीत् । अयम् आडुबान् जान् जेम्स् १७८५ तमे वर्षे एप्रिल् मासस्य २६ तमे दिनाङ्के जन्म प्राप्नोत् । अस्य पिता फ्रेञ्च्–नौकाधिकारी आसीत् । सः यार्कटौन् इति नगरे अमेरिकादेशस्य अध्यक्षेन जार्ज वाषिङ्ग्टन्नेन सह युद्धम् अपि कृतवान् आसीत् । युद्धस्य अनन्तरं पुत्रम् आडुबान् जान् जेम्सं फ्रान्स्-देशं प्रति अनयत् । तत्र तेषां गृहस्य पार्श्वे एव कस्यचित् प्रकृतिप्रियस्य गृहम् आसीत् । तत्रैव अयम् आडुबान् जान् जेम्स् प्रकृतिप्रेम्णः विषये, वर्णचित्रस्य रचनायाः विषये च प्रशिक्षणं प्राप्नोत् । तदा तत्र एतम् आडुबान् जान् जेम्सं प्रशिक्षितवान् आसीत् फ्रान्स्-देशस्य प्रसिद्धः कलाकारः जक् लूयि डेविड् । अयम् आडुबान् जान् जेम्स् १८ वयसि अमेरिकादेशस्य फिलिडेल्फिया इति नगरे विद्यमानायाः पित्रा अर्जितायाः सम्पत्तेः निर्वहणार्थं तत्र गतवान् । जीवनस्य बहुभागं तत्रैव अयापयत् अपि । आर्थिके व्यवहारे अनासक्तः अयम् आडुबान् जान् जेम्स् पक्षिणां वीक्षणे एव कालं यापयति स्म । परितः दृष्टानां सर्वेषां पक्षिणां परिचयार्थं तेषाम् अभिज्ञानार्थं च तेषां कण्ठे पट्टिकाम् अबध्नात् । ते पक्षिणः यावत् दूरं गच्छन्ति चेदपि पुनः प्रस्थितं स्थानम् एव प्रत्यागच्छन्ति इति अंशं संशोधितवान् प्रथमवारम् अयम् आडुबान् जान् जेम्स् एव । अनेन संशोधनेन पक्षिणां गमनागमनस्य वैज्ञानिकः आधारः प्राप्तः ।

अयम् आडुबान् जान् जेम्स् संसारविषये अनासक्तः सन् ऋणम् अपि न प्रत्यर्पितवान् । तदर्थं १८१९ वर्षे कारागृहम् अपि अगच्छत् । तस्य पत्नी एव कुटुम्बस्य निर्वहणम् अकरोत् । १८२० तमे वर्षे सः आडुबान् जान् जेम्स् कारागृहतः विमुक्तः सन् प्रत्यागच्छत् । तदनन्तरं सः अत्यधिकं कालं ग्रामस्य पश्चिमदिशि विद्यमाने वने एव अयापयत् । तत्रैव वनेषु वसन् पक्षिणां सहजानि, वर्णचित्राणि च अलिखत् । तदनन्तरम् अयम् आडुबान् जान् जेम्स् सर्वाणि चित्राणि एकत्रीकृत्य प्रकाशकम् अन्विषन् १८२६ तमे वर्षे इङ्ग्लेण्ड्-देशम् अगच्छत् । तत्र तेन यत् स्थानं प्राप्तव्यम् आसीत् तत् प्राप्तम् । १८३८ तमवर्षाभ्यन्तरे तेन लिखितानि ४३५ चित्राणि अपि प्रकृतिप्रियान् आश्चर्यचकितान् अकुर्वन् । ततः अस्य "आडुबान्” नाम्नः सोसैटी बहुषु देशेषु आरब्धम् । "परिसरसंरक्षणस्य महत्त्वं ज्ञापितवान् प्रथमः अमेरिकीयः" इति अयम् आडुबान् जान् जेम्स् प्रसिद्धिम् अपि प्राप्नोत् । १९०० तमे वर्षे अमेरिकादेशे आरब्धे "हाल् आफ् फेल्” इत्यत्र अपि अस्य आडुबान् जान् जेम्सस्य स्मरणम् उल्लिखितम् अस्ति । अयम् आडुबान् जान् जेम्स् १८५१ तमे वर्षे जनवरिमासस्य २७ तमे दिनाङ्के मरणम् अवाप्नोत् ।

आडुबान् जान् जेम्सस्य कानिचित् चित्राणि[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=आडुबान्_जान्_जेम्स्&oldid=479949" इत्यस्माद् प्रतिप्राप्तम्