आण्ड्रे अगास्सि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Andre Agassi
नाम Andre Kirk Agassi
देशः  United States
निवासः Las Vegas, Nevada
जन्म (१९७०-२-२) २९, १९७० (आयुः ५३)
Las Vegas, Nevada
उच्चता 5 फ़ुट 11 इंच (180 सेमी)
कर्मकालः 1986
अवसरप्राप्तः 3 September 2006
क्रीडाशैली Right-handed (two-handed backhand)
पुरस्कृतधनराशिः

$31,152,975

टेनिस् हाल् अफ् फ्रेम् 2011 (member page)
सिङ्गेलस्
क्रीडा रेकार्ड् 870–274 (76.05% on the Grand Prix tour, ATP Tour, in Grand Slams and Davis Cup)
क्रीडापदकाः 60 (in Grand Prix and ATP Tour play and 68 in total)
उच्चतम रैङ्किङ्ग् No. 1 ( 10 April 1995)
ग्रैण्ड् स्लैम् स्पर्धापरिणमः
अस्ट्रेलीय ओपेन् W (1995, 2000, 2001, 2003)
फरासीय ओपेन् W (1999)
विम्बिल्डन् ओपेन् W (1992)
यू एस् ओपेन् W (1994, 1999)
इतरस्पर्धाः
ए टी पी वर्ल्ड् ट्यूर् फैनल्स् W (1990)
अलिम्पिक्स् Gold Medal (1996)
Doubles
Career record 40-42 (on the Grand Prix tour, ATP Tour, in Grand Slams and Davis Cup)
Career titles 1
Highest ranking No. 123 (17 August 1992)
Grand Slam Doubles results
French Open QF (1992)
US Open 1R (1987)
Team Competitions
Davis Cup W (1990, 1992, 1995)

आण्ड्र्रे अगास्सि(Andre Kirk Agassi) प्रसिद्धः टेनिस्-क्रीडा(Tennis)पटुः वर्तते ।

परिचयः[सम्पादयतु]

अस्य पूर्णं नाम आण्ड्र्रे किर्क् अगास्सि(Andre Kirk Agassi) । १९९० तम वर्षात् २००० तम वर्षस्य मध्यकाले संयुक्तानि राज्यानिदेशे टेनिस्-क्रीडायां प्रथमस्थानीयः आसीत् । एषः तस्य काले नूतनं इतिहासं सृष्टवान् । १९७० तमे वर्षे अप्रिल्-मासस्य २९ तमे दिनाङ्के संयुक्तानि राज्यानिदेशस्य नेवाडाराज्यस्य लास् वेगस्(Las Vegas) नगरे जन्मप्राप्तवान् । अस्य पिता इम्युनुएल् "मैक्" अगास्सि(Emmanuel "Mike" Agassi), अस्य माता एलिजबेत् "बेट्टि" अगास्सि(नी डूड्ले) (Elizabeth "Betty" Agassi (née Dudley)) । एषः संयुक्तानि राज्यानि-देशार्थं क्रीडति स्म । एषः ग्राण्ड्स्लाम् पदकं, ओलिम्पिक्-क्रीडोत्सवे स्वर्णपदकं, आस्ट्रेलियन् ओपन्-पदकं, ओपन् एरा-पदकं च स्वीकृतवान् । अस्य स्पाण्डिलोलिस्थेसिस्(Spondylolisthesis) इति कशेरुके(Backbone) नरसम्बधितरोगस्य कारणतः २००६ तमे वर्षे सप्टेम्बर्-मासस्य ३ दिनाङ्के यु एस् ओपेन् क्रीडायां तृतीयावृत्तौ पराजयानप्राप्य वृत्तिविषयकजीवनात् निवृत्तिं स्वीकृतवान् ।

पूर्वतनदिनानि[सम्पादयतु]

१९७९ तमे वर्षे अगास्सिवर्यस्य पिता मैक्-वर्यः अगास्सिं प्रति धनार्थं क्रीडितुं उक्तवान् । तदानीम् अगास्सि ९ वर्षीयः आसीत् । मैक्-वर्यः जिम् ब्रौन्‌फुट्बाल्-क्रीडालोः सह क्रीडितुं कथं चोदितवानिति ओपन्(Open) इति पुस्तके अगास्सिवर्यः लिखितवानस्ति । लास् वेगस्नगरे टेनिस्-क्रीडा कूटे(club) जिम् ब्रौन्-वर्यः पणार्थं (money match/bet) क्रिडां क्रीडति स्म । एकदिनं तस्य क्रीडा लोपनम्(cancel) अभवत् । तदानीं जिम् ब्रौन्-वर्यः टेनिस्-क्रीडा कूटस्य अधिपतेः सविधे आक्षेपः कृतवान् । तदानीं मैक्-वर्यः ब्रौन्-वर्येण सह पणस्य क्रीडार्थं अगास्सिं प्रेशयामि, भवान् क्रीडति वा इति पृष्टवान् । पणस्य क्रीडार्थं मैक्-वर्यः तस्य गृहं पणितवान्(wager) । ब्रौन्-वर्यः $१०,०००परिमितं धनं पणितवान् । एतत् दृष्ट्वा टेनिस्-क्रीडा कूटस्य अधिपतिः तादृशरीत्या न क्रीडनीयम् इतित् प्रत्यादिष्टवान्(warned) । अतः ब्रौन्-वर्यः अगास्सि-वर्येण सह कुलकद्वयं क्रीडयित्वा अनन्तरं पणतस्य मूल्यं दृढीकर्तुं निर्धारितवान् । ब्रौन्-वर्यः कलुकद्वयं ३-६, ३-६ रूपेण पराजयं प्राप्तवान् । तदनन्तरं १०के परिमितात्मकं मूल्यं धनं पणितवान् । तथा तृतीयकलुकार्थं $५००प्रिमितात्मकं मूल्यं धनम् उपस्थापितवान् । ब्रौन्-वर्यः २-६ कुलकेण पराजयं प्राप्तवान् । मैक्-वर्यः अगास्सि-वर्यं तस्य १३ वयसि फ्‍लोरिडानगरे विद्यमान निक् बोलेट्टैरिवर्यस्य टेन्निस् अकाडेमीसंस्थां प्रति प्रेशितम् । मैक्-वर्यः केवलं मासत्रयस्य शुल्कं दातुं समर्थः आसीत् । निक् बोलेट्टैरिवर्यः अगास्सि-वर्यस्य ३० निमिषं यावत् क्रीडां दृष्टवान् । निक् बोलेट्टैरिवर्यः मैक्-वर्यं प्रति अगास्सि-वर्यस्य शुल्कं प्रत्यर्पयित्वा अगास्सि निश्शुल्कं क्रीडति इति उक्तवान् । निक् बोलेट्टैरि-वर्यस्य दृष्ट्या अगास्सि-वर्यस्य स्वाभाविकी चतुरता टेनिस्-क्रीडायां वर्तते, तादृशं एतावता तेन न दृष्टमासीत् । अगास्सि ९ कक्षातः विद्यालयगमनं त्यक्तवान् ।

अन्ताराष्ट्रियचरितम्[सम्पादयतु]

१९८६-१९९३[सम्पादयतु]

  • अगास्सि तस्य १६ वयसि वृत्तिविषयकजीवने प्रविष्टवान्, प्रथमवारं ला क्विन्टा(La Quinta) समूहखेलायां कालिफ़ोर्निया नगरे च समापितवान् ।
  • अगास्सि-वर्यः ला क्विन्टा-समूहखेलायां प्रथमक्रीडां जान् अस्टिन्वर्यस्य(John Austin) विरुद्धं क्रीडित्वा जयं प्राप्तवान् ।
  • ला क्विन्टा-समूहखेलायां द्वितीयक्रीडां माट्स् विलाण्डर्-वर्यस्य विरुद्धं पराजयं प्राप्तवान् ।
  • १९८६ तमे वर्षान्ते सः विश्वश्रेण्यां ९१ स्थानं प्राप्तवान् ।
  • १९८७ तमे वर्षे फस्ट् टाप्-लेवेल् सिङ्गल्स् उपाधिं सुल् अमेरिकमन् ओपन्, ए टि पि इटापारिका(Sul American Open,ATP Itaparica)क्रीडायां प्राप्तवान् ।
  • १९८७ तमे वर्षान्ते सः विश्वश्रेण्यां २५ स्थानं प्राप्तवान् ।
  • १९८८ तमे वर्षे मेम्फिस्(Memphis),यु एस् पुरुषाणां मृत्तलक्रीडाङ्गणस्पर्धाविजेता(U.S. Men's Clay Court Championships),फोरेस्ट् हिल्ल्स् डब्ल्यू सि टि(Forest Hills WCT),स्टुट्ट्गर्ट् औट्डोर्(Stuttgart Outdoor),वोल्वो ईन्टर्नाशनल्(Volvo International),लिविङ्ग्स्टन् ओपन्(Livingston Open) इत्यादि समूहखेलान् च जितवान् ।
  • अगास्सि-वर्यः ओपन्-एरा' समूहखेलायाम् अत्युत्तमः पुरुषविभागीयः तरुणक्रीडलुः इति १७ वर्षाणि जयपत्रं(Record) वर्तते ।
  • २००५ वर्षे अगास्सि-वर्यस्य ओपन्-एरा समूहखेलायाम् अत्युत्तमः पुरुषविभागीयः तरुणः क्रीडकः इति जयपत्रं राफेल् नडाल्-वर्यः भेदितवान्
  • २००५ वर्षान्ते सः विश्वश्रेण्यां ३ स्थानं प्राप्तवान् ।
  • १९८८ तमे वर्षे फ्रेञ्च् ओपन्,यू एस् ओपन्उपान्त्यक्रीडा पर्यन्तं जितवान् ।
  • १९९० तमे वर्षे फ्रेञ्च् ओपन्अन्तिमक्रीडापर्यन्तं क्रीडितवान् ।
  • अगास्सि-वर्यः यू एस् ओपन्अन्तिमक्रीडायां सम्प्रस् विरुद्धं कुलकत्रये अपि पराजयं प्राप्तवान् ।
  • १९९० तमे वर्षे अगास्सि-वर्यः डेविस् कप् जितवान् ।
  • विम्बल्डन्-स्पर्धाविजेता स्टिफन् एड्बर्ग् विरुद्धम् अगास्सि ए टि पि टेन्निस् मास्टर्स् कप् अन्तिमक्रीडायां जितवान् ।
  • १९९१ तमे वर्षे जिम् कोरियर्वर्यस्य(Jim Courier) विरुद्धं फ्रेञ्च् ओपन्क्रीडायां पराजयं प्राप्तवान् ।
  • १९९१ तमे वर्षे अगास्सि-वर्यः प्रप्रथमवारं विम्बल्डन्-क्रीडायां क्रीडितवान् । सः डेविड् व्हीटन्वर्यस्य(David Wheaton) विरुद्धं प्रागुपान्त्यक्रीडायां पराजयं प्राप्तवन् ।
  • १९९२ तमे वर्षे ग्योरान् इवान्सेविच्वर्यस्य(Goran Ivanišević) विरुद्धं विम्बल्डन्-अन्तिमक्रीडायां पञ्चकुलकेषु जयं प्राप्तवान् ।
  • १९९२ तमे वर्षे बिबिसि ओवर्सिस् स्पोर्ट्स् पर्सनालिटि आफ् द इयर् इत्यत्र अगस्सि-वर्यस्य नाम चितम् ।
  • १९९२ तमे वर्षे डेविस् कप् जितवान् ।
  • १९९३ तमे वर्षे तस्य युगलक्रीडायाः चरिते सिंसिनाटि(Cincinnati Masters,Western & Southern Open)क्रीडायां पेत्र् कोर्डा(Petr Korda) इत्यनेन सह जितवान् ।
  • १९९४ तमवर्षात् १९९७ तमे वर्षपर्यन्तं मणिबन्धस्य शस्त्रचिकित्सा जाता ।

१९९४-१९९७[सम्पादयतु]

  • ब्राड् गिल्बर्ट्वर्यः(Brad Gilbert) अगास्सि-वर्यस्य नूतनः युञ्जानः(coach man) अभवत् ।
  • १९९४ तमे वर्षस्य आरम्भकाले अगास्सि-वर्यः फ्रेञ्च् ओपन्,विम्बल्डन्क्रीडायां पराजयं प्राप्तवान् ।
  • अनन्तरकाले सः केनडियन् ओपन्क्रीडायां जितवान् ।
  • १९९४ तमे वर्षे यू एस् ओपन्अन्तिमक्रीडायां मैकल् स्टिच्(Michael Stich) विरुद्धं पदकं स्वीकृतवान् ।
  • पीट् सम्प्रस्वर्यस्य(Pete Sampras) विरुद्धं १९९५ तमे वर्षे आस्ट्रेलियन् ओपन्क्रीडायां जितवान् ।
  • १९९५ तमे वर्षे पीट् सम्प्रस्वर्यस्य(Pete Sampras) विरुद्धं अगास्सि-वर्यः पञ्चवारं समूहखेलायां क्रीडितवान् । तेषु क्रीडासु अन्तिमक्रीडायां त्रिवारं जितवान् ।
  • १९९५ तमे वर्षे त्रयं मास्टर् सिरीस् यद्वृत्तं जितवान् । ते,
  1. सिंसिनाटि(Cincinnati)
  2. मियामि मास्टर्स्(Miami Masters,Key Biscayne)
  3. केनडियन् ओपन्(Canadian Open)
  • १९९५ तमे वर्षे एप्रिम् मासे प्रथमवारम् अगास्सि-वर्यः विश्वश्रेण्यां १ स्थानं प्राप्तवान् ।
  • १९९६ तमे वर्षे फ्रेञ्च् ओपन्क्रीडायां क्रिस् उड्रफ्फ्वर्येण(Chris Woodruff) सह विम्बल्डन्-क्रीडायां डग् फ्लह्(Doug Flach)वर्येण सह च पराजयं प्राप्तवान् ।
  • यू एस् ओपन्,आस्ट्रेलियन् ओपन् प्रागुपान्त्यक्रीडायां चाङ्ग्वर्येण सह पराजयं प्राप्तवान् ।
  • १९९६ तमे वर्षे ओलिम्पिक्-क्रीडोत्सवे अट्लाण्टानगरे(Atlanta) पुरुषाणां सम्प्रयुक्तक्रीडायां स्पेन्देशस्य, सेर्जि ब्रुवेरावर्यं(Sergi Bruguera) क्रीदालुं पराजित्वा स्वर्णपदकं प्राप्तवान् ।
  • १९९७ तमे वर्षे आरोग्यं क्षीणम् अभवत् । तेनकारणेन सः तावत् न क्रीडितवान् । तस्य विश्वश्रेण्यां १४१स्थानपर्यन्तम् अधपतनम् अभवत् ।

१९९८-२००३[सम्पादयतु]

  • १९९८ तमे वर्षे अगास्सि-वर्यः रोगमुक्तः अभवत् । पीट् सम्प्रस्(Pete Sampras), पाट्रिक् राफ्टर्(Patrick Rafter) अनयोः विरुद्धं क्रीडितवान् ।
  • १९९८ तमे वर्षे अगास्सि ५ उपाधिं जितवान्, तेन विश्वश्रेण्यां ११० स्थानतः ६ स्थानं प्रति अभिवृद्धिं प्राप्तवान् ।
  • विम्बल्डन्क्रीडायां टाम्मि हास्वर्यस्य(Tommy Haas) विरुद्धं पराजयं प्राप्तवान् ।
  • अगास्सि-वर्यः दश-अन्तिमक्रीडासु पञ्चउपाधिं प्राप्तवान् ।
  • टेन्निस् मास्टर्स् कप्क्रीडायां सान्त्वानपदकं(runner-up) प्राप्तवान् ।
  • १९९९ तमे वर्षे फ्रेञ्च् ओपन्क्रीडायां जयं प्राप्तवान् ।
  • पीट् सम्प्रस्(Pete Sampras) विरुद्धं विम्बल्डन्क्रीडायां शीघ्रमेव पराजयं प्राप्तवान् ।
  • यू एस् ओपन्अन्तिमक्रीडायां टोड् मार्टिन्(Todd Martin) विरुद्धं जयं प्राप्तवान् ।
  • १९९९ तमे वर्षे अगास्सि-वर्यः विश्वश्रेण्यां प्रथमः अभवत् ।
  • २००० तमे वर्षे आस्ट्रेलियन् ओपन्क्रीडायां जयं प्राप्तवान् ।
  • पाट्रिक् राफ्टर्वर्यस्य(Patrick Rafter) पुरतः विम्बल्डन्क्रीडायां विफलः जातः ।
  • लिस्बन्नगरे टेन्निस् मास्टर्स् कप्अन्तिमक्रीडायाम् अगास्सि गुस्तवो कर्टन्(Gustavo Kuerten) विरुद्धम् पराजयं प्राप्तवान् ।
  • २००१ तमे वर्षे आस्ट्रेलियन् ओपन्पदकं अर्नोड् क्लेमेण्ट्वर्यस्य(Arnaud Clément) विरुद्धं विजयेन सह आरम्भं कृतवान् ।
  • यू एस् ओपन्प्रागुपान्त्यक्रीडायां पीट् साम्प्रस्विरुद्धं पराजयं प्राप्तवान् | परन्तु, एषा क्रीडा तयोः द्वयोः मध्ये ३ होरा,३३ निमिषात्मकः कालः क्रीडितः । अतः चरित्रात्मकक्रीडा इति नाम्ना प्रसिद्धा वर्तते ।
  • २००१ तमे वर्षे विश्वश्रेण्यां ३ स्थानं प्राप्तवान् ।
  • २००२ तमे वर्षे तस्य आरोग्यपीडया आस्ट्रेलियन् ओपन्क्रीडायां भागग्रहणं न कृतवान् ।
  • यू एस् ओपन्क्रीडायां अगास्सि-वर्यः तथा पीट् साम्प्रस्वर्यस्य द्वयोः मध्ये एषा क्रीडा अन्तिमा आसीत् । तथा च पीट् साम्प्रस् अनन्तरं टेनिस्-क्रीडा चरितं समापितवान् ।
  • २००२ तमे वर्षे अगास्सि-वर्यस्य विजयेण यू एस् ओपन् सपापितवान् । सः विश्वश्रेण्यां २ स्थानं आसीत् ।
  • २००३ तमे वर्षे अगास्सि रैनर श्कट्लर्(Rainer Schüttler) विरुद्धं आस्ट्रेलियन् ओपन्क्रीडायां जितवान् । एषा अगास्सि-वर्यस्य आस्ट्रेलियन् ओपन्-अन्तिमाक्रीडा अभवत् ।
  • २००३ तमे वर्षे अप्रिल् मासस्य १८ दिनाङ्के क्वीन्स् क्लब् स्पर्धाविजेताप्रागुपान्त्यक्रीडायां(Queen's Club Championships) जेवियर् मलिस्सेवर्यस्य(Xavier Malisse) विरुद्धं विजयं प्राप्तवान् ।
  • २००३ तमे वर्षान्ते टेन्निस् मास्टर्स् कप्अन्तिमक्रीडायां रोजर् फेडरर्(Roger Federer)विरुद्धं पराजयं प्राप्य विश्वश्रेण्यां ४ स्थानं प्राप्तवान् ।

२००४-२००६[सम्पादयतु]

  • अगास्सि टेन्निस् मास्टर्स् कप्-यद्वृत्तमालिकायां(series event) सिंसिनाटि(Cincinnati Masters) इत्यत्र जयं प्राप्तवान् ।
  • तस्य ३४ तमे वयसि सिंसिनाटि इत्यत्र द्वितीयः अग्रगण्यः विजेता इति इतिहासं रचितवान् ।
  • २००५ तमे वर्षे आस्ट्रेलियन् ओपन्प्रागुपान्त्यक्रीडायां रोजर् फेडरर् सह पराजयेण आरम्भं कृतवान् ।
  • फ्रेञ्च् ओपन्क्रीडायां जर्क्को नैमिन्(Jarkko Nieminen) विरुद्धं पराजयं प्राप्तवान् ।
  • रोजर्स् कप्क्रीडायां(Canadian Masters,Rogers Cup) अन्तिमक्रीडा पर्यन्तं क्रीडितवान् ।
  • २००५ तमे वर्षे विश्वश्रेण्यां ७ स्थानं प्राप्तवान् ।
  • तस्य मणीबन्धस्य,पादस्य च पीडायाः कारणेन २००६ तम वर्षः बहु दीनतया आरब्धा ।
  • तस्य आरोग्यस्य समस्यायाः कारणेन सः आस्ट्रेलियन् ओपन्, फ्रेञ्च् ओपन् इत्यादि यद्वृत्तं त्यक्तवान् । अतः तस्य विश्वश्रेण्यां १० स्थानं प्राप्तवान् ।
  • अगास्सि विम्बल्डन् क्रीडार्थं प्रत्यागतवान् । राफेल् नडाल् विरुद्धं पराजयं प्राप्तवान् । पराजयानन्तरं सः क्रीडाङ्गणे वृत्तिजीवनात् निवृत्तिम् उद्घोषितवान् ।
  • निवृत्ति समये तस्य विश्वश्रेण्यां स्थानं ११२ आसीत् ।

सम्पादनम्[सम्पादयतु]

अगास्सि ३ कोटि परिमितं यू एस् डल्लर् (US$30 million) धनम् अर्जितवान् ।

निवृत्त्यनन्तरजीवनम्[सम्पादयतु]

  • अगास्सि निवृत्त्यनन्तरं परोपकारार्थं समूहखेलेषु क्रीडति स्म । सः स्वस्य पुण्यशालायाः(charity) कर्ये रतः आसीत् ।
  • सप्टेम्बर् ५,२००७ तमे वर्षे यू एस् ओपन्क्रीडायां अतिथिरूपेण व्याख्यातृरूपेण(commentator) आगतवान् आसीत् ।

राजकीयम्[सम्पादयतु]

अगास्सि १ लक्ष डाल्लर्($१००,०००)परिमिति धनं डेमोक्रेटिक् अभ्यर्थिनां कृते दानं दानं कृतवान् ।

वैयक्तिकजीवनम्[सम्पादयतु]

  • ब्रूक् शील्ड्(Brooke Shields) इति नटीम् अगास्सि विवाहितवान् ।
  • २००० तमे वर्षे पत्नीब्रूक् शील्ड् प्रति विच्छेदं दत्तवान् ।
  • २२,ओक्टोबर्,२००१ तमे वर्षे लानक्रीडालुः स्टेफि ग्रफ्(Steffi Graf) साकं विवाहः अभवत् ।
  • अगास्सिवर्यस्य जेडन् गिल्(Jaden Gil) पुत्रः,जाज् एल्ले पुत्री च वर्ततः । अगास्सिवर्यः पुत्रस्य वा पुत्र्याः वा लानक्रीडापटुत्वस्य आग्रहः न वर्तते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=आण्ड्रे_अगास्सि&oldid=479950" इत्यस्माद् प्रतिप्राप्तम्