कथाकेळिः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
कथाकेळिः - कृष्णवेषः
कथाकेळीनटः - 'पच्च-' (हरित-)वेषे

कथाकेळिः (मलयाळम्: കഥകളി, कथकळि) देशे विदेशे च प्रसिद्धिमाप्ता एकं केरळीयनृत्तकलारूपमस्ति।

विवरणम्[सम्पादयतु]

चेण्टा, मद्दळम्, इलत्ताळम्, इटय्का, चेङ्किला, इत्यादयः वाद्यविशेषाः कथाकेल्याः अवतरणसमये उपयुज्यन्ते। तत्र कथासन्दर्भाः श्लोकरूपेण सम्भाषणानि पदरूपेण कथांशसङ्ग्रहः दण्डकरूपेण च निबद्धाः दृश्यन्ते। मुख्यगायकः पोन्नानि इति अनुगायकः शिङ्किटी इति च व्यवह्रियते। गानानुसारं पदानामर्थान् मुद्राभिः, रसान् मुखोपाङ्गचलनैश्च आविष्करोति नटः। कथाकेल्यां प्राधान्येन (१) केली, (२) अरङ्ङुकेली, (३) तोटयम्, (४) वन्दनश्लोकः, (५) पुरप्पाट्, (६) मेळप्पदम्, (७) कथाभिनयम्, (८) धनाशि च सन्ति ।

इतिहासः[सम्पादयतु]

क्रिस्तोः परं सप्तदशे शतके कोट्टारक्करत्तम्पुरान् महाशयेन प्रारब्धं रामनाट्टमेव अस्य कलारूपस्य प्राग्रूपमिति पण्डिताः वदन्ति।

अस्य कलारूपस्य परिष्कर्ता आसीत् वेट्टत्तु तम्पुरान्। कोट्टयत्तु तम्पुरान् महाभागोऽपि अस्याः कलायाः परिष्करणे बद्धश्रद्धः आसीत्।

वेषभूषाः[सम्पादयतु]

कथापात्राणां स्वभावानुसारमेव आहार्यता निर्णीता। तत्र पच्चा, कत्ति, ताटि, करि, मिनुक्क्, इत्येवमादयः, आहार्यविशेषाः स्वीकृताः सन्ति। तेषामपि पात्रानुसारं वैविध्यमस्ति। कथाकेल्यां धीरोदात्तनायकानामेव 'पच्च' इति वेषविशेषः कल्पितः (यथा नलः, अर्जुनः....)। रजोगुणयुक्तानां नायकानां 'कत्ति' (यथा रावणः, दुर्योधनः....),। तमोगुणप्रधानानामसुराणां मनुष्याणां च 'ताटि' (यथा बकः, दुश्शासनः....) किरातानां 'करि' च । मुनीनां स्त्रीणाञ्च 'मिनुक्क्' च कल्पितः। इमे वेषप्रकाराः पूर्णतया परिपाल्यन्ते । 'कत्ति' इत्यस्य कथापात्राणां 'कुरुंकत्ति', 'नेटुंकत्ति' इति प्रकारभेदौ वर्तते। 'ताटि' इत्यस्य 'वेळुत्तताटि' (हनूमान्), 'कऱुत्तताटि' (कलिः), 'चुवन्नताटि' (दुश्शासनः) इति विभागत्रयं वर्तते । एवं 'करि' इत्यस्यापि भेदद्वयमस्ति । पुरुषाणां कृते स्त्रियः कृते च (यथा किरातः, शूर्पणखा च)। नारदवसिष्ठादीनां मुनीनां महर्षिकेशः, चिबुकं च उपयुज्यते । स्त्रीकथापात्राणां 'मिनुक्क्' । 'मण्णान्', भीरुः, विद्युज्जिह्वः, इत्यादि विलक्षणकथापात्राणि कथाकेल्याः आहार्यवैचित्र्यतां प्रस्फुटयन्ति।

आट्टक्कथा[सम्पादयतु]

कथाकेल्याः साहित्यं कैरळ्याम् आट्टक्कथा इति व्यवह्रियते। उण्णायिवार्यर्, कोट्टयत्तुतम्पुरान्, कोट्टारक्करत्तम्पुरान्, इरयिम्मन् तम्पि इत्येवमादयः महात्मानः आट्टक्कथारचनायां प्रसिद्धाः।

हस्तमुद्राः[सम्पादयतु]

मुद्राणां हस्तलक्षणदीपिकायां निर्दिष्टाः आधारमुद्राः एव अवलम्ब्यन्ते।

नाट्यप्रकाराः[सम्पादयतु]

कथाकेल्याः “वटक्कन् चिट्टा”, “तेक्कन् चिट्टा” इति प्रकारद्वयं वर्तते । तत्र वटक्कन् चिट्टा इत्यस्य कल्लटिक्कोटन् सम्प्रदायः इति तेक्कन् चिट्टा इत्यस्य कप्लिङ्ङाटन् सम्प्रदायः इति च नामान्तरम् ।

कथाभिनयस्य चोल्लियाट्ट्म्, इळकियाट्टम् इति प्रकारद्वयमस्ति। गायकस्य गानक्रमानुसारं नटः प्रतिपदं मुद्राभिः अभिनयं करोति । अयं अभिनयप्रकारः चोल्लियाट्टम् इति कथ्यते । ततः पूर्वं, परं वा नटः स्वमनोधर्मानुसारम् अभिनयति। अस्यैव इळकियाट्टम् इति नाम।

अभिनयप्रकाराः[सम्पादयतु]

चतुर्विधाः अभिनयप्रकाराः सन्ति । आङ्गिकम्, वाचिकम्, आहार्यम्, सात्विकम् इति।

अभिनयदर्पणे एवमुक्तं भवति -

यतो हस्तस्ततो दृष्टिः यतो दृष्टिस्ततो मनः ।
यतो मनस्ततो भावो यतो भावस्ततो रसः ।।

श्रृङ्गारः, करुणः, वीरः, रौद्रः, हासः, भयानकः, बीभत्सः, अद्भुतः, शान्तः, चेति नवरसाः भवन्ति। एषां रसानां स्थायिभावाः रतिः शोकः, उत्साहः, क्रोधः, हास्यं, भयं, जुगुप्सा, विस्मयः, निर्वेदः च भवन्ति । नवरसेषु श्रृङ्गारः रसराजः इति कीर्त्यते।

प्रख्यात कलाकाराः[सम्पादयतु]

नळचरितम् द्वितीय दिनॆ नळवेषॆ कलामण्डलम् गोपि


"http://sa.wikipedia.org/w/index.php?title=कथाकेळिः&oldid=276545" इत्यस्माद् पुनः प्राप्तिः