भरतनाट्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

एषा भारतस्य शास्त्रीया नृत्यपद्धतिः अस्ति। भरतनाट्यस्य आकर्षकं मनमोहकं पदविन्यासं दृष्ट्वा को वा रसिकः प्रमुदितः न स्यात्? भरतनाट्यम् एतत् स्वयं ब्रह्मणा एव सृष्टम्।

पृष्ठभूमिका[सम्पादयतु]

कदाचित् देवाः गन्धर्वाः च ब्रह्मणः समीपं गत्वा निवेदितवन्तः -"सर्वाणि अपि इन्द्रियाणि सन्तुष्टानि यथा स्युः तथा कश्चन सुन्दरः पञ्चमः वेदः स्रष्टव्यः" इति। तदा ब्रह्मा चतुर्भ्यः अपि वेदेभ्यः एकैकम् अंशम् उद्धृत्य नाट्यवेदं सृष्टवान्। ऋग्वेदात् पाठ्यं, यजुर्वेदतः अभिनयं, सामवेदतः सङ्गीतम्, अथर्ववेदतः रसं च स्वीकृत्य नाट्यवेदं रचितवान् । ततः एतं भरतमुनये दत्त्वा सः उक्तवान् -"एतत् मानवान् बोधयतु" इति। रूपकं नाट्यं सङ्गीतं इत्यादीनि तन्त्राणि च योजयित्वा भरतमुनिः नाट्यशास्त्रं रचितवान्। अतः एतत् नाट्यं भरतनाट्यत्वेन प्रसिद्धम् अभवत् ।

प्रकाराः[सम्पादयतु]

भरतनाट्यम्

भरतनाट्यम् अतीप्राचीनः भारतीयः नृत्यप्रकारः। एतस्य नाट्यस्य विविधाः भङ्ग्यः तमिळ्नाडुकर्णाटकराज्यीयमन्दिरेषु उत्कीर्णानि दृश्यन्ते। 'शिलप्प्दिकारं' 'मणिमेखलै' इत्येतयोः प्राचीनतमिळुकृत्योः एतस्य नाट्यस्य उल्लेखः दृश्यते। एते कृती सङ्गंकालीने। भगवान् शिवः नाट्यशास्त्रस्य अधिदेवः इति तु भारतीयः विश्वासः। शिवः पार्वती च एतस्य नाट्यस्य विविधभङ्गीः रूपितवन्तौ। शीघ्रगत्या शिवेन क्रियमाणं नृत्यं ताण्डवनृत्यम् इति उच्यते। तदेव आनन्देन क्रियमाणम् उच्यते -आनन्दताण्डवम् इति। तदेव रौद्ररसोपेतं सत् निर्दिश्यते -रुद्रतण्डवम् इति। पार्वत्या क्रियमाणं तदेव नाट्यं कोमलं सत् लास्यम् इति उच्यते।

इतिहासः[सम्पादयतु]

भरतनाट्यवसरे यानि गीतानि गीयन्ते तेषां विषयः पुराणकथादिभ्यः चीयते। यः गीतानि गायति सः उच्यते 'नट्टुवाङ्गः' इति। मृदङ्गः वीणाविशेषः च गानावसरे अन्याभ्यां वाद्यते। प्रायः पूर्वं देवदास्यः भरतनाट्यस्य प्रदर्शनं कुर्वन्ति स्म। राजास्थानेषु राजनृत्याङ्गनाः एतत् नृत्यं दर्शयन्ति स्म। बहवः तमिळुनाडुराजाः एतस्य नृत्यस्य प्रोत्साहनं कृतवन्तः। दौर्भाग्यवशात् क्रिस्तीयविंशतिशतकस्य आरम्भकाले एतस्य नृत्यप्रकारस्य विशेषह्रासः दृष्टः। शासननियमैः देवदासीपद्धत्याः निवारणार्थं प्रयासाः प्रवृत्ताः । किन्तु भरतनाट्यप्रियाणां बहूनां परिश्रमस्य फलरूपेण कालक्रमेण अस्य प्रसारः अधिकः सञ्जातः । भारतस्य स्वातन्त्र्यप्राप्तेः अनन्तरं ई कृष्णाय्यर् बालसरस्वती, रुक्मिणी अरुण्डेल्, कलानिधिः, शान्ताराव् इत्यादयः एतस्य प्रचारार्थं प्रसारार्थं च विशेषं परिश्रमं कृतवन्तः।

शब्दनिष्पत्तिः[सम्पादयतु]

भरतनाट्ये यानि अक्षराणि तेषु भावशब्दात् भकारः, रागशब्दात् रकारः, तालशब्दात् तकारः च स्वीकृतः। एवं भरतनाट्ये भावरागतालनृत्यानां सङ्गमः भवति।

विशिष्टाः प्रक्रियाः[सम्पादयतु]

  • रङ्गप्रवेशः - ऐदम्प्राथम्येन सार्वजनिकतया नृत्यं यत् प्रदर्शयति तस्य विशेषमहत्वं भवति। रङ्गप्रवेशः इति तस्य नाम। तमिळुभाषया एषः आरङ्ग्रेटम् इति उच्यते।
  • रङ्गप्रवेशसमये आदौ नूपुरपूजा (सालङ्गैपूजा इति तमिळुपदम्) क्रियते। प्राचीनकाले यावत् रङ्गप्रवेशः न भवति तावत् नूपुरधारणम् अनुमन्यते स्म ।

पश्य[सम्पादयतु]

भारतीयकलाः भारतीयनृत्यप्रकाराः भरतमुनिः

"http://sa.wikipedia.org/w/index.php?title=भरतनाट्यम्&oldid=276549" इत्यस्माद् पुनः प्राप्तिः