कान्हेरीगुहाः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

कानेरीगुहाः- बौद्धशिक्षणकेन्द्रम् क्रिस्ताब्दस्य द्वितीयशतकस्य मध्यभागे बौद्धभिक्षवः सन्यासिनः एताः गुहाः निर्मितवन्तः । तत्रैव ते तपः आचरितवन्तः, अध्ययनं योगं च कृतवन्तः । अत्र आहत्य १०९ गुहाः सन्ति । तृतीया गुहा ८६x४० पादचतुरस्रमिता विशिष्टा च अस्ति । विशिष्टं बौद्धशिक्षणकेन्द्रमेतत् आसीत् । एकादशशतकं यावत् अत्र गुहासु अध्ययनं प्रवर्तते स्म । अत्र स्थितानि शिल्पानि, प्राचीनभारतस्य शिल्पकलायाः उदाहरणानि सन्ति ।

मार्गः[सम्पादयतु]

मुम्बयीराष्ट्रियोद्यानतः ४ कि.मी । मुम्बयीतः ४५ कि.मी

चित्रशाला[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=कान्हेरीगुहाः&oldid=268573" इत्यस्माद् पुनः प्राप्तिः