काफीपेयम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
सिद्धं क्षीररहितं काफीपेयम्
सिद्धं क्षीरसहितं काफीपेयम्
काफीसस्यम्
पक्वानि काफीफलानि
भर्जितानि काफीबीजानि
काफीफलस्य चयनम्
काफीबीजानां पृथक्करणम्
काफीबीजानां शुष्कीकरणम्
काफीबीजानां भर्जनम्
कूपीषु विद्यमानं शीतलं काफीपेयम्

एतत् काफीपेयम् अपि भारते वर्धमानस्य कस्यचित् सस्यविशेषस्य वैशिष्ट्यम् अस्ति । एतत् काफीपेयम् अपि सस्यजन्यः आहारपदार्थः । एतत् काफीपेयम् आङ्ग्लभाषायां Coffee इति उच्यते । काफीसस्यस्य फलनाम् अन्तः विद्यमानैः बीजैः एव काफीचूर्णं निर्मीयते । ततः तेन काफीचूर्णेन इदं काफीपेयं निर्मीयते । तत् पेयं सर्वदा उष्णं कदाचित् शीतलं चापि पीयते । अनेन काफीचूर्णेन निर्मीयमाणं काफीपेयं जगति एव अत्यन्तं जनप्रियं पेयम् अस्ति । अनेन काफीचूर्णेन २००३ तमे वर्षे निर्यातवस्तुषू विश्वे एव षष्ठं स्थानं प्राप्तम् अस्ति । आरम्भस्य पञ्चस्थानानि क्रमशः गोधूमेन, रागीधान्येन, सोयाधान्येन (निष्पावप्रभेदः), तालतैलेन, शर्करया च प्राप्तम् अस्ति ।


अस्य काफीपेयस्य इतिहासः ९ शतकतः आरब्धः अस्ति । एतत् काफीपेयं प्रथमवारम् इतियोपियादेशे आरब्धम् । अनन्तरम् ईजिप्त् तथा यूरोप् देशानां द्वारा विश्वस्य विभिन्नान् देशान् प्राविशत् । "काफी" इति शब्दः इतियोपियाभाषायाः "काफ" इति शब्दतः उद्भूतम् । तत्र इतियोपियादेशे "काफ" नामकः प्रदेशः अस्ति । एतत् काफीपेयं १५ शतके पर्षिया, ईजिप्त्, उत्तर-आफ्रिका, तार्कि देशान् प्राविशत् । १४७५ तमे वर्षॆ ईस्तान्बुल् नामके नगरे "काफी-मन्दिरम्" आरब्धम् । १७ शतके यूरोप् देशेषु काफीपेयम् अत्यन्तं जनप्रियं जातम् । ततः ड्च्-वणिजः महता प्रमाणेन तस्य आयातम् आरब्धवन्तः । तदनन्तरम् इङ्ग्लेण्ड्-देशस्य "काफीगृहाणि" अपि प्रसिद्धानि अभवन् । तानि काफीगृहाणि वाणिज्यकेन्द्राणि अभवन् अपि ।


काफीसस्यं द्विविधं भवति । अराबिकं तथा रोबस्टं चेति । अराबिकवंशस्य काफीसस्यस्य वर्धनं प्रथमम् इतियोपिया मध्ये कृतम् । तथैव रोबस्टवंशस्य वर्धनम् अद्यतन-उगाण्डदेशे कृतम् । रोबस्टवंशस्य काफीबीजानि अत्यधिकप्रमाणेन "केफीन्"-अंशयुक्तानि भवन्ति । एतेषां रोबस्टवंशस्य काफीबीजानां भर्जनावसरे कश्चन विभिन्नः गन्धः अपि उत्पद्यते । अराबिकवंशस्य काफीबीजानि एव प्रसिद्धानि जनप्रियाणि च ।


काफीसस्यस्य बीजानि संस्कृत्य एव काफीचूर्णं निर्मातव्यं भवति । प्रथमं काफीफलानि उत्पाटनीयानि, अनन्तरं तेभ्यः फलेभ्यः बीजानि पृथक् करणीयानि । ततः तानि बीजानि शुष्कीकरणीयानि । तदनन्तरं तानि बीजानि भर्जयित्वा चूर्णं सज्जीक्रियते । काफीबीजानां भर्जनस्य आधारेण काफीपेयस्य रुचिः निर्धारिता भवति । भर्जनेन बीजे तैलस्य उत्पत्तिः भवति । तथैव कतिपयः आम्लाः अपि उत्पद्यन्ते । तस्मात् एव कारणात् काफीपेयं विशिष्टां रुचिं गन्धं च प्राप्नोति । फिल्टर्-काफीपेयनिमित्तं अतिसूक्ष्मचूर्णं न क्रियते । "क्षणसिद्ध"-काफीनिमित्तं अतिसूक्ष्मचूर्णं सज्जीक्रियते ।


बह्वीषु संस्कृतिषु अनेन काफीपेयेन प्रमुखं स्थानं प्राप्तम् अस्ति । दक्षिणभारते तु गृहम् आगतेभ्यः अतिथिभ्यः काफीदानम् अतिथिसंस्कारस्य अङ्गभूतम् । कुत्रचित् काफीपेयं निषिद्धम् अपि आसीत् । १६ शतके मेक्का सदृशेषु देशेषु एतत् काफीपेयम् उत्तेजनकारकम् इति निषिद्धम् आसीत् । १७ शतके इङ्ग्लेण्ड्देशे काफीपेयं राजकीयविद्रोहिभिः केवलम् उपयुज्यते इति निषिद्धम् आसीत् ।‎

"http://sa.wikipedia.org/w/index.php?title=काफीपेयम्&oldid=252623" इत्यस्माद् पुनः प्राप्तिः