खर्जूरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
खर्जूरम्
Phoenix dactylifera (Date Palm)
Dates on date palm
Dates on date palm
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Monocots
(अश्रेणिकृतः) Commelinids
गणः Arecales
कुलम् Arecaceae
वंशः Phoenix
जातिः P. dactylifera
द्विपदनाम
Phoenix dactylifera
L.
खर्जूरराशिः
वृक्षे लम्बमानानि पक्वखर्जूरस्य गुच्छानि
खर्जूरवृक्षः
वृक्षे अपक्वानि खर्जूराणि

एतत् खर्जूरं भारते अपि वर्धमानः कश्चन फलविशेषः । अयम् अपि सस्यजन्यः आहारपदार्थः । एतत् खर्जूरम् आङ्ग्लभाषायां Date इति उच्यते । एतत् खर्जूरम् आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । अस्य खर्जूरस्य फलं रसं चापि उपयुज्यते । एतत् खर्जूरम् Dryfruits इति यानि उच्यन्ते तेषां शुष्कफलानां गणे अन्तर्भवति ।

आयुर्वेदस्य अनुसारम् अस्य खर्जूरस्य स्वभावः[सम्पादयतु]

एतत् खर्जूरं पचनार्थं लघुः । इदं खर्जूरं स्निग्धम्, मधुररसयुक्तं चापि ।

१. इदं खर्जूरं हृद्यं, बृंहणं च ।
२. एतत् खर्जूरं वातं पित्तं च हरति । अतः वातजैः रोगैः, पित्तजैः रोगैः च पीड्यमानानां, वातप्रकृतियुक्तानां, पित्तप्रकृतियुक्तानां च, पित्तकाले, देशे च अस्य खर्जूरस्य उपयोगः हितकरः ।
३. एतत् खर्जूरम् मद्यस्य आधिक्येन सेवनेन जातेषु रोगेषु अपि उपयुज्यते ।
४. एतत् खर्जूरं वमनं, दाहं च शमयति ।
५. एतत् खर्जूरं श्वासम् (अस्तमा), कासं च निवारयति ।
६. इदं खर्जूरंहृदयस्य बलं वर्धयति । मूर्छारोगं चापि निवारयति ।
७. एतत् खर्जूरं रुचिकारकम् अपि ।
८. एतस्य खर्जूरस्य खर्जूरादिमन्थ अपि उपयोक्तुं शक्यते ।
९. आवश्यकतायाः अनुसारम् अस्य खर्जूरस्य गुलिका अपि उपयुज्यते ।

अधिकानि चित्राणि[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=खर्जूरम्&oldid=484739" इत्यस्माद् प्रतिप्राप्तम्