चिक्कोडी
| चिक्कोडी चिक्कोडी ಚಿಕ್ಕೋಡಿ |
|||
|---|---|---|---|
| — नगरम् — | |||
|
Location in Karnataka, India |
|||
| Coordinates: 16°26′N 74°36′E / 16.43°N 74.6°ECoordinates: 16°26′N 74°36′E / 16.43°N 74.6°E | |||
| देशः | |||
| राज्यम् | कर्णाटकम् | ||
| मण्डलम् | बेळगावी | ||
| सर्वकारः | |||
| • MP (Member of Parliament) | Ramesh Katti | ||
| औन्नत्यम् |
|
||
| जनसङ्ख्या (2001) | |||
| • Total | ४२ | ||
| भाषाः | |||
| • अधिकृताः | कन्नड | ||
| IST (UTC+5:30) | |||
| पिन् | 591201 | ||
| Telephone code | 08338 | ||
| वाहनपञ्जीकरणम् | KA-23 | ||
कर्णाटकराज्ये किञ्चन प्रमुखं मण्डलम् अस्ति बेळगावीमण्डलम् अस्य मण्डलस्य केन्द्रम् अस्ति बेळगावी नगरम् । अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति चिक्कोडी-उपमण्डलम् । एतत् उपमण्डलं परितः पर्वताः सन्ति । कर्णाटक-महाराष्ट्रयोः सीमाभागे अस्ति । मण्डलस्तरीयाः सर्वविधकार्यालयाः अत्र सन्ति । तथापि मण्डलत्वेन एतस्य उपमण्डलस्य घोषणा जाता अस्ति ।
अन्तर्विषयाः |
इतिहासः[सम्पादयतु]
चिक्कोडी-इतिहासः सामान्यतः २००-३०० वर्षप्राचीनः । प्रारदेशिकभाषया चिक्क=लघु, कोडी=ग्रामः तन्नाम लघुग्रामः इति अर्थः । एतस्य समीपे एव हिरेकोडी( महाग्रामः) इति कश्चन ग्रामः अस्ति । कालान्तरेण मुख्यमार्गे आसीत् इति कारणतः तथा अत्रत्यानां प्रसिद्धानां नागवल्लीपत्राणां कारणतः प्रमुखवाणिज्यकेन्द्रम् अभवत् । एवम् एतस्य वर्धनम् अभवत्।
भौगोलिकता[सम्पादयतु]
चिक्कोडीनिर्देशाङ्कौ १६.४३°उ, ७४.६°पू.[1] । सामन्यतः औन्नत्यं ६८३मीटरमितम् (२२४०फीट्)। नगरस्य विस्तीर्णता १८.२९चतुरस्रकिलोमीटरमिता। गरिष्ठः उष्णांशः ३५⁰ C , कनिष्ठः उष्णांशः १८⁰ C, अत्यधिकी वार्षिकीवर्षा ८२६.६४ mm.
इतरविवरणानि[सम्पादयतु]
इतरविवरणानि[सम्पादयतु]
२००१ तमवर्षस्य जनगणनानुसारम् अस्य उपमण्डलस्य जनसंख्या ३२,८२० मिता ।२०११तमवर्षस्य जनगणनानुसारम् एतस्य जनसङ्ख्या ४२,६२९। एतेषु पुरुषाः ५१%, महिलाः ४९% । साक्षरताप्रमाणं ७३%, तन्नाम भारतस्य साक्षरताप्रमाणस्य (५९.५%) अपेक्षया अधिकम् । पुरुषाणां साक्षरता प्रमाणं ७९%, महिलानां ६६% । १२% साक्षराः ऊनषड्वर्षियाः ।
आर्थिकता[सम्पादयतु]
प्रधाने शर्करावलये एषः भागः अन्तर्भवति । अस्मिन् भागे जनानां प्रधानः व्यवसायः कृषिः । अस्मिन् उपमण्डले त्रयः शर्करानिर्माणागाराः सन्ति। कृष्णा, वेदगङ्गा, दूधगङ्गा नद्यः भूमेः फलवत्ततां वर्धितवत्यः सन्ति ।एषु दिनेषु जनाः कौशेयतन्तुवर्धने आसक्ताः दृश्यन्ते । चिक्कोडीनगरं परितः पर्वताः सन्ति॥ एतेषां शिखरस्य उपरि वायुप्रसरणे साहाय्यकाः वृक्षाः सन्ति इत्यतः वायुना विद्युच्छक्तेः उत्पादनम् अत्र प्रचलति ।
प्रेक्षणीयानि स्थानानि[सम्पादयतु]
- याननिस्थानकस्य निकटे विद्यमानः चन्द्रकोरीगणेशदेवालयः प्रसिद्धः अस्ति । याननिस्थानकतः २.५.कि.मी.दूरे अपरः कश्चन परतिनागलिङ्गेश्वरनामकः देवालयः अस्ति ।
- शान्तगिरिजैनमन्दिरम्-चिक्कोडीनगरात् १०कि.मी.दूरे जैनानाम् इतिहासस्य प्रकाशने समर्थं किञ्चन मन्दिरम् अस्ति । अत्र एव श्रीशान्तिगिरितीर्थः वसति स्म ।
- चिक्कोडीतः २०कि.मी.दूरे कृष्णानद्याः तीरे विद्यमाने पवित्रे श्रीक्षेत्रे यडूरुग्रामे वीरभद्रमन्दिरम् अस्ति ।
- आयुर्वेदचिकित्सार्थं औषधार्थं च प्रसिद्धः नागमुन्नोळीग्रामः अस्मिन् एव मण्डले अस्ति।