जि वि अय्यर्
संस्कृतवाङ्मयम् आप्राचीनात् विश्वो अस्मिन् मार्गदीप इव दीप्यमानमस्ति। गौर्वाण्यां नैके साधकाः अभ्यासेन वाक्प्रवचनेन परां कोटिमधिगच्छन्तः सन्ति इति विहितमेवायं विचारः। आधुनिका अपि सुवि़ज्ञाः प्राचीनपरम्परां दृश्य-श्रव्यमाध्यमेन परिचयं कारयन्नेवास्माकं संस्कृतिं सर्वत्र प्रसरन्तः सन्तीति अहो अस्माकं भाग्यम् । तादृशीष्वन्यतमः 'कन्नड भीष्म' इत्येव प्रथित: स्मरणीयाः श्री ' गणपति वेङक्टराम अय्यर' महाभागा: । महोदयोयं १९१७ तमे वर्षॆ सप्तम्बरमासे तृतीये मैसूरु राज्यस्य नञ्जनगूडु इत्यस्मिन् परमपवितत्रे प्रदेशे ज्न्म लेभे । सुसंस्कृतवंशे अजायत इत्यनेनैवास्य जीवनपद्धतिरपि समीचीना आसीदिति निश्चप्रचमेव ।
महोदयो अयं सुप्रसिद्ध अभिनेता गुब्बि वीरण्ण महोदयस्य नाटकनिवहे स्वीये अष्टमे वयसि एव भागं स्वीकृत्य नाटकेषु चलनचित्रादिषु अभिनीय महतीं ख्यातिमवाप । अयञ्च कन्नड संस्कृतभाषयोः विशेषतः पाण्डित्यमवाप्य चित्रनिर्माणम् अपि कृतवान् । तत्रापि संस्कृतभाषायामेव सर्वादौ ' श्री शङकराचार्य: ' इति चित्रं निर्मीय नवामितिहासं चित्रप्रपञचे सृष्टवान् इति तु मोदावहो विषयः । ' आदिशङ्कराचार्य-चित्रस्य राष्ट्र्प्रशस्तिः अलभत । अनेन प्रोत्साहितः अय्यर्-महोदयः ' श्रीध्वाचार्य ' इत्यपि कर्नाटकीय आचार्यवराणां चित्रं गौर्वाण्यां तथा ' श्री रामानुजाचार्याः ' इति तमिळभाषायामपि निर्मीय मतत्रयाचार्याणां परिचयं सामान्यजनानां कृते कारितवान् ।[१]
भगवद्गीतामपि दृश्यमाध्यमेन चित्रीकृत्य राष्ट्रप्रशस्तिम् अभजन्त । भुवनस्य मार्गदर्शका इव शोभमानं श्री स्वामिविवेकानन्दमहोदयम् अधिकृत्यापि साक्ष्यचित्रं निर्मीय आप्रपञ्चं ख्यातिमलभन्त । महोदयोsयं स्वीये सप्ताशीतितमे वर्षॆ २००३ तमे वर्षे डिसेम्बर् एकविंशतितमे दिनाङ्के दिवङ्गताः ।[२] अस्य पार्थिवशरीरस्य बेङ्गलूरुनगरस्य केङ्गेरी समीपस्य "दोड्ड आलदमर" समीपे भारद्वाजाश्रमे अन्त्यसंस्कारः कृतः ।
उपसंहृति:
[सम्पादयतु]एवं महोदयोsयं स्वीय कर्मण्येव जनमानसे सदा संस्मरणीयाः सन्तीति सश्रद्धया संस्मृत्य तेषां पथे एव चराम इति सङ्कल्पयामः ।
उलेखः
[सम्पादयतु]- ↑ http://dff.nic.in/2011/31st_nff_1984.pdf
- ↑ "संग्रह प्रतिलिपि". Archived from the original on 2009-10-05. आह्रियत 2014-02-01.