मैसूरु

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
मैसूरु
मैसूरु
—  नगरम्  —
मैसूरुराजगृहम्
उपनाम(नि): कर्णाटकस्य सांस्कृतिकराजधानी
Coordinates: 12°18′N 76°39′E / 12.30°N 76.65°E / 12.30; 76.65
देशः भारतम्
राज्यम् कर्णाटकम्
विभागः मैसूरु
मण्डलम् मैसूरु
सर्वकारः
 • प्रकारः Mayor–Council
 • Mayor Rajeshwari M C
विस्तीर्णम्
 • Total १२८.४२ Square km (४९.५८ Square mile)
औन्नत्यम्
मैसूरु
जनसङ्ख्या (2011)
 • Total ८,८७,४४६
 • श्रेणी 52
 • Demonym
IST (UTC+05:30)
Postal index number 570 0xx
वाहनपञ्जीकरणम् KA 09, KA 55
UN/LOCODE IN MYQ
Telephone 91-(0)821-XXX-XXXX
Spoken languages कन्नड
Ethnicity Kannadiga
जालस्थानम् www.mysorecity.gov.in

मैसूरुनगरं कर्णाटकप्रान्ते स्थितं किञ्चन प्रमुखं नगरम् अस्ति । कर्णाटकस्य सांस्कृतिकराजधानी इति प्रसिद्धम् अस्ति । मैसूरुनगरम् सागतस्तरतः २५२५ पादपरिमितोन्नते स्थले अस्ति । उत्तमं वातावरणयुक्तं वासयोग्यं च अस्ति । पूर्वम् एतत् लघु नगरम् ऐतिहासिकं प्रशासनिककेन्द्रं च आसीत् । इदानीं महानगरम् इति ख्यातमस्ति । मैसूरु ओडेयरवंशजाः नगरस्य अभिवृध्दिकार्याणि उत्तमतया कृतवन्तः सन्ति । इदानीं मैसूरुनगरे विशालाः मार्गाः उन्नतानि सुन्दराणि भवनानि सुन्दराणि उद्यानानि देवस्थानानि विद्यालयाः च सन्ति । पूर्वकालतः राजगृहं, जगन्मोहनकलासङ्ग्रहालयः, प्राणिसङ्ग्रहालयः, कलासंस्कृतिस्थानानि च नगरस्य सौन्दर्यं वर्धयन्तः सन्ति ।

मैसूरुराजगृहम्[सम्पादयतु]

एतत् राजगृहम् १९१२ तमे क्रिस्ताब्दे निर्मितम् । अस्य विस्तारः ३० हेक्टेर् मितः । इण्डो- सारसनिक् शैल्यां रचितमस्ति । अर्धगोलाकारकाणि, चतुरस्राकारकाणि गोपुराणि अतीव- सौन्दर्यकारकाणि सन्ति । रचनायां प्यारिसनगरे स्थितेन वर्सेलेराजगृहेण स्पर्धते । त्रिभिः अट्टैः युक्तम् राजगृहम् । अत्र पञ्चस्तरीयाणि शिखराणि सन्ति । राजगृहे दर्शकाणां कृते सर्वत्र शिल्पानां सुन्दरवर्णचित्राणाम् अद्भुतं दर्शनं भवति । राजगृहावरणे एव देवालयाः सन्ति । मैसूरुनगरस्य मध्यभागे एव एतत् राजगृहम् अस्ति । ओडेयर् वंशजैः निर्मितम् राजगृहम् एतत् सर्वेषां जनानाम् आनन्ददायकम् अस्ति । इदानीं राजगृहस्य दर्शनाय समयः निर्दिष्टः अस्ति । अन्तः अनेकेषां चित्राणां वस्तूनां च दर्शनं शक्यते । अन्तः एव कश्चन सुन्दरवस्तूनां सङ्ग्रहालयः अस्ति । राजगृहस्य पुरतः विशालं प्राङ्गणम् अस्ति । राजगृहप्रवेशार्थं त्रीणि महाद्वाराणि सन्ति । प्रतिदिनं सहस्रशः जनाः अत्र आगच्छन्ति । राजगृहस्य सहस्रशः विद्युट्टीपैः अलङ्कारः कृतः भवति । रात्रौ दीपालङ्कारे सति दर्शनम् अतीव आनन्दाय भवति । नवरात्रिसमये दीपालङ्कारः अपि प्रेक्षकाणां एकम् आकर्षणम् अस्ति । सम्पूर्ण भवनम् कलासंस्कृति दर्शकम् अस्ति । राजगृहे २०० किलो भारभूतं सुवर्णासिंहासनं वैभवयुतम् अस्ति । महाभारतकालिकं सिंहासनं विजयनगरराजैः प्राप्तम् । अनन्तरं क्रिस्ताब्दे १६३० तमे वर्षे मैसूरु ओडेयर् वशे आगतम् अस्ति । सिंहासनस्य भागेषु वज्राणि योजितानि सन्ति । स्वर्णछत्रमपि अद्भुतम् अस्ति । दसरापर्वसमये सिंहासनस्य दर्शनं कर्तुं शक्यते ।

मैसूरनगरं राजगृहाणां नगरम् इति प्रसिद्धम् । अत्र राजमार्गाः इव मार्गाः सन्ति । वास्तुशिल्पानि अतीव सुन्दराणि । तीर्थक्षेत्राणाम् अपेक्षया मैसूरुनगरे प्रेक्षणीयानि अनेकानि स्थानानि सन्ति । राजगृहस्य आवरणे एव अनेके देवालयाः सन्ति । तेषु भुवनेश्वरी- तृणेश्वरगायत्री(१९४९)-श्वेतवराह-प्रसन्नकृष्णलक्ष्मीरमणदेवालयाः प्राचिनतमाः सन्ति । राजगृहे स्थितः आत्मविलासविनायकः अत्यन्तम् अद्भुतः क्वचिदेव दृश्यते च । आवारस्य बहिर्भागे दक्षिणपार्श्वे स्थितः बृहदाञ्जनेयमन्दिरं, सुब्बरायदासमन्दिरम् अतीव सुन्दरम् ।ओण्टिकोप्पलु प्रदेशे स्थितं लक्ष्मीवेङ्कटरमणमन्दिरं (१९३७) ,चामुण्डीपर्वते स्थितः (महबलाचलः) भोगानरसिंहदेवालयः च दर्शनीयाः सन्ति ।

दसरामहोत्सवः[सम्पादयतु]

मैसूरुनगरे विजयदशमी दिने विश्वविख्यातः जम्बूसवारीनामकः महोत्सवः भवति । ततःपूर्वं नवदिनानि यावत् नवरात्रिपर्व राजगृहे वैभवेन आचरितं भवति नवदिनेषु नगरे नृत्यसङ्गीतनाटक -चलनचित्रादिनाम् महोत्सवः भवति । राजगृहेऽपि सायङ्काले सङ्गीतकार्यक्रमाः भवन्ति । विजयदशमीदिने मैसूरुनगराधिदेवतायाः चामुण्डेश्वर्याः उत्सवमूर्तेः शोभायात्रा भवति । गजस्य उपरि स्थिते ‘अम्बारी’नामके मण्डपे देवी चामुण्डेश्वरी विराजमाना भवति । पूर्वम् ओडेयर् वंशीयाः एतं महोत्सवम् आचरन्ति स्म । इदानीम् अपि आरम्भे ते एव पूजां कुर्वन्ति । अनन्तरम् कर्णाटकराज्यस्य मुख्यमन्त्री अपि पूजां कृत्वा विजयदशमीयात्रायाः आरम्भं कारयति । बन्नीमण्डपपर्यन्तम् (बन्निमण्डपं नगरे विद्यमानं प्रसिद्धं स्थानम्) वैभवयुता यात्रा प्रचलति । सर्वभागतः स्तब्धचित्राणि जानपदनृत्यप्रकाराणि यात्रामहोत्सवस्य सौन्दर्यं वर्धयन्ति । मध्याह्ने यात्रामहोत्सवम् अनेकलक्षजनाः पश्यन्ति । रात्रौ अपि विविधाः कार्यक्रमाः आयोजिताः भवन्ति । राजगृहसमीपे फलपुष्पप्रदर्शनं वस्तुप्रदर्शनं च अतीव सुन्दरतया आयोजितं भवन्ति । मैसूरुनगरे सर्वत्र सुन्दरालङ्कारः भवति । देशविदेशेभ्यः जनाः मैसूरुनगरम् आगत्य आनन्दमनुभवन्ति ।

चामुण्डीपर्वतः[सम्पादयतु]

चामुण्डीपर्वतस्थः नन्दी

चामुण्डीपर्वतः (३४८९ पादपरिमितोन्नतः) अस्मिन् प्रदेशे स्थितस्य चामुण्डेश्वरीदेवालयस्य भव्यगोपुरं ६४० मीटर् उन्नतं , २००० वर्षप्राचीनं च । सागरस्तरतः १०५० मीटर् उन्नतप्रदेशे मैसूरुनगरस्य किरीटस्रहशः प्रवतप्रदेशः एषः अस्ति । मैसूरु ओडेयर् वंशीयानां कुलदेवतायाः वनदेवतायाः श्री चामुण्डेश्वर्याः निवासस्थानम् श्री चामुण्डेश्वरीदेवालयः अत्र अस्ति । उन्नतं गोपुरम् अतीव आकर्षकं च अस्ति । पर्वतस्य उपरि शिवदेवालयः अपि अस्ति । चामुण्डीपर्वतात् मैसूरुनगरस्य विहङ्गमदृश्यम् अतीव मनमोहकम् अस्ति । चामुण्डीपर्वतप्रदेशं गन्तु १३ कि.मी यावत् वाहनमार्गेण गन्तव्यम् अस्ति । पर्वतमध्ये एकशिला निर्मितः कश्चन बृहन्नन्दीविग्रहः अतीव आकर्षकः (१८ पादपरिमितोन्नतः) अस्ति । अस्मात् प्रदेशात् सम्पूर्णं मैसूरुनगरम् दृष्टुं शक्यते । चामुण्डीपर्वतप्रदशे महिषासुरस्य महती प्रतिमा सुन्दरतया स्थापिता अस्ति । अत्र प्रतिदिनम् सहस्रशः जनाः आगच्छन्ति । विविधाः आपणाः सन्ति । नवरात्रिसमये चामुण्डीपर्वतप्रदेशे देवालये विशेषपूजाः उत्सवाः च भवन्ति । गमनागमनसमये अपूर्वं प्रकृतिसौन्दर्यं दृष्टुं शक्यते । मैसूरुनगरतः वाहनव्यवस्था उत्तमा अस्ति । चामुण्डीपर्वतप्रदेशः आकर्षकः अस्ति । एतत् स्थानं पवित्रम् इति प्रसिद्धम् अस्ति । अत्र चामुण्डेश्वरी शक्तिदेवता रुपेण अस्ति । अत्र आगन्तुं १००० सोपानानां पादमार्गः (४.कि.मी मितः) अस्ति। २३ कि.मी. मितः सुसज्जितः वाहनमार्गः च अस्ति ।

चमुण्डेश्वरिमन्दिरम्
महिषासुरः

श्रीचामराजेन्द्रमृगालयः[सम्पादयतु]

एषः मृगालयः भारतदेशे एव प्रख्यातः अस्ति । प्रतिदिनम् अनेकसहस्रजनाः अत्र आगच्छन्ति । अत्र २००० अधिकाः मृगाः सन्ति । मृगालयस्य शतमानावधिकः इतिहासः अस्ति । चित्रोष्ट्रः(जिराफ्) गजाः व्याघ्राः सिहाः, भल्लूकाः मकराः सर्पाः मीनाः विविधजातीयाः पक्षिणः, कपयः, कपिमानवः , काङ्गरु, मयूराः, जलाश्वाः , झीब्राः , उष्ट्राः खड्गमृगाः आकर्षकाः सन्ति । विस्तृते उद्याने विहरताम् एतेषां प्राणिनां दर्शनम् अतीव सन्तोषाय भवति । विविधपक्षिणः स्वतन्त्रतया विहरन्तः भवन्ति । (अत्र एकः मत्स्यागारः अस्ति । जले अनेके मकराः सन्ति ।) विविधजातीयाः वृक्षाः मृगालयोद्याने सन्ति । शुकाः हंसाः बकाः देशीयाः विदेशीयाः अतीव मनोहराः सन्ति । मैसूरुनगरे एव एषः मृगालयः अस्ति । प्रातः ९ वादनतः सायं ७ वादनपर्यन्तम् प्रवेशः अस्ति ।

पर्वते मार्गे २६ पादोन्नतः, २५ पादविस्तारवान् कृष्णाशिलायाः बृहन्नन्दीविग्रहः अस्ति। क्रिस्ताब्दे १६६४ तमे वर्षे निर्मितः एकशिलानिर्मितः दर्शनीयः नन्दिशिल्पः एषः ।

मैसूरुप्रदेशे पूर्वं गङ्ग-चोल-विजयनगर-होय्सल-ओडेयरवंशीयानां प्रशासनम् आसीत् । नाल्वडि कृष्णराज ओडेयरः अत्यन्तम् प्रसिद्धः राजा आसीत् । मैसूरुनगरे नवरात्रिमहोत्सवः वैभवेण आचरितः भवति । विजयदशम्याः दिने आचर्यमाणः दसरामहोत्सवः मैसूरुदसरा इत्येव प्रसिद्धः| देव्याः चामुण्डेश्वरयाः सुवर्णमण्डपे उत्सवः भवति। स तु विश्वविख्यातः पर्वविशेषः। लक्षाधिकजनाः देशविदेशेभ्यः अस्मिन्नवसरे मैसूरनगरम् आगच्छन्ति गजस्योपरि देव्याः चामुण्डेश्वर्याः विशेषयात्रा भविष्यति । नगरे विविधाः मनोरञ्जनकार्यक्रमाः प्रचलन्ति । राज्यसर्वकारेण उत्सवः आचर्यते । कर्णाटकराज्यस्य मुख्यमन्त्री उत्सवे भागं स्वीकरोति । मैसूरुसमीपे रङ्गनतिट्टुपक्षिधाम अस्ति । मैसूरुनगरे दर्शनीयानि अनेकस्थानानि सन्ति । तेषु जगन्मोहनप्यालेस्, चित्रशाला, मृगालयः, रेल्वेम्युसियम् ललितमहल् सेंटफिलोमीनाचर्च, मानसगङ्गोत्री, वस्तुसंग्रहालयः श्रीगन्धतैलकार्यागारः, दुकूलवस्त्रनिर्माणकार्यागारः, मैसूरुराजगृहं प्रमुखानि। मृगालये दिसद्द्स्रजातीयाः पशुपक्षिणः सन्ति ।

जगन्मोहनकलाशाला[सम्पादयतु]

जगन्मोहनकलालयः
मैसूरुचित्रशैली

एषः चित्रकला सङ्ग्रहालयः मैसूरुप्रदेशस्य विविध चित्रकाराणां कलाकृतीनाम् प्रदर्शनालयः अस्ति । ओडेयर् वंशीयानाम् सुन्दराणि चित्राणि विविधानि वस्तूनि च सुव्यवस्थितानि सन्ति । मैसूरुराजगृहस्य समीपे एव एतदस्ति । तण्डुले दशावतारचित्राणि, वाद्यानां सङ्ग्रहः, आयुधानां सङ्ग्रहः विविधगृहोपयोगिवस्तूनां सङ्ग्रहः विशिष्टानि घटीयन्त्राणि, रविवर्मणः सुन्दरचित्राणि, मैसूरु ओडेयर् वंशीयानां प्रशासनसम्बन्धीचित्राणि, दसरावैभवस्य चित्राणि विदेशीयानि विविधानि वस्तूनि आकर्षकाणि सन्ति । नवरात्रिसमये अत्र विशेषसङ्गीतकार्यक्रमाः भवन्ति ।

वृन्दावनोद्यानम्[सम्पादयतु]

वृन्दावनोद्यानस्थम् उत्सः
सुन्दरम् उत्सः

मैसूरुतः १२ कि.मी .दूरे कावेरीनद्याः कृते कन्नम्बाडीजलबन्धः निर्मितः अस्ति । कन्नम्बाडीजलबन्धेन कृष्णराजसागरजलाशयः निर्मितः अस्ति । तत्र वुन्दावनोद्यानम् विश्वप्रसिद्धम् अस्ति । मैसूरुनगरस्य वायव्यदिशि १२ कि.मी दूरे वृन्दावनोद्यानम् अतीव सुन्दरम् अस्ति । कावेरीनद्याः कन्नम्बाडीजलबन्धः नाल्वडिकृष्णराज ओडेयर् महोदयेन निर्मितः अस्ति। प्रख्यातः अभियन्ता मोक्षगुण्डं विश्वेश्वरय्यः एतस्य निर्माणं कृतवान् । कृष्णराजसागरजलाशयः अपूर्वः नयनमनोहरः च अस्ति । जलाशयस्य अधोभागे नवीनतया निर्मितम् उद्यानं सहस्रशः जनानां प्रतिदिनम् आनन्दकारणम् अस्ति । अत्र लघुजलपाताः उत्साः पुष्पवृक्षाः नौकाविहारः सुन्दरसोपानानि च सन्ति । सायङ्काले सङ्गीतेन साकम् आधुनिकरीत्या सुन्दरोत्ससां विलासः द्रष्टुं शक्यः । दीपप्रकाशैः विविधैः वर्णैः साकं जलस्य लीला अपूर्वा अस्ति । अत्रैव जलकुम्भहस्तायाः कावेरीमातुः मूर्तिः स्थापिता अस्ति । कुम्भात् जलं निरन्तरं पतति । वृन्दावनोद्यानं गन्तुं वाहनव्यवस्थास्ति ।

मैसूरुनगरे दर्शनीयानि इतरस्थानानि[सम्पादयतु]

मैसूरुनगरे बहिर्भागे अधुनातनकाले स्थापितः गणपतिसच्चिदानन्दाश्रमः (अवधूतदत्तपीठम् इत्याख्यः) अद्भुतः अस्ति । विशालः प्रदेशः, सुन्दरराजगृहमिव वास्तुशिल्पम्, अधिदेवता दत्तात्रेयः इत्येतैः एतेन स्थानेन यात्रास्थलरुपं प्राप्तम् अस्ति । अत्रैव स्थित किष्किन्धामूलिकावनं बोनसायी उद्यानं विश्वे एव प्रसिद्धम्। मैसूरुनगरम् प्राचीननगरेषु अन्यतमम् अस्ति । अत्र धूमशकटसङ्ग्रहालयः, ललितमहल (अधुना उपहारवसतिगृहम्), सन्तफिलोमिना चर्च (प्रार्थनामन्दिरम्), प्राचीनशैल्या निर्मितानि भवनानि, श्वेतवराह-त्रिनयनेश्वर-गायत्री-भुवनेश्वरी-आञ्जनेयदेवालयाः प्रख्याताः सन्ति । श्रीचामराजेन्द्रमृगालयः अतीव आकर्षकः अस्ति ।

किष्किन्धामूलिकावनम्[सम्पादयतु]

मैसूरुनगरात् बहिः श्री गणपतिसच्चिदानन्दाश्रमः अपूर्वः अस्ति । मैसूरुनञ्जनगूडुमार्गे सुन्दरम् बोन्साईवनम् अस्ति विस्तृते वने त्रिवर्षतः त्रिशतवर्षप्राचीनाः सस्यविशेषाः २५० संङ्ख्याकाः सन्ति । सर्वेकुब्जसस्यविशेषाः । एतान् सिङ्गपूर मलेशिया इण्डोनेशिया वेस्ट् इन्डिस् दैशैः आनीय स्थापितवन्तः । द्विशतवर्षप्राचीनकाले चीनाजापानदेशेषु बोन्सायीसस्यवर्धनम् प्रसिध्दमासीत् । लघुगृहेषु अपि कुम्भेषु एतेषां वर्धनं कर्तुं शक्यते । सस्यानां वयसः आधारेण मूल्यं भवति । सस्येषु बुञ्जिन् साईकाई, पेन्झिङ्ग् इत्यादयः सन्ति ।

विश्वं वस्तुसङ्ग्रहालयः[सम्पादयतु]

एषः अपि श्री गणपतिसाच्चिदानन्दाश्रमस्य कश्चन भागः । विश्वस्य भक्तैः सगौरवम् दत्तैः उपायनैः एषः सङ्ग्रहालयः पूरितः अस्ति । अत्र अनेकविभागाः अपि सन्ति । गणपतिप्रपञ्चः प्राचीनप्रपञ्चः, आश्चर्यकरप्रपञ्चः चारित्रिकप्रपञ्चः एतिहासिकप्रपञ्चः, आध्यात्मिकप्रपञ्चः सांस्कृतिकप्रपञ्चः क्रिस्टल प्रपञ्चः इत्यादयः । गणपतिप्रपञ्चे प्रदर्शितः गणपतिविग्रहः पूर्वं पाकिस्तानदेशे कराचीनगरे आसीत् । उज्बेकिस्तानतः मूर्तिकृते शिला आनीता आसीत् इति । चन्द्रस्य शिलाखण्डः अपि अत्र अस्ति । इतरगणेशविग्रहाः क्रिस्टल् शिलाभिः निर्मिताः । रुद्राक्षवृक्षस्य शारवापि अत्र अस्ति । एकमुखरुद्राक्षतः पञ्चमुखरुद्राक्षाः सन्ति । अत्र मूल्याङ्कानां सङ्ग्रहः अपूर्वः अस्ति । फ्रेञ्चजनानां ब्रह्ममूल्याङ्कः, डैनोसारस् शिशोः शिरोभागयुक्तः मूल्याङ्कः इत्यादयः मूल्याङ्केषु अपूर्वाणि चित्राणि सन्ति । क्रिस्टल शिलाभिनिर्मितः काळिङ्गमर्दनविग्रहः अतीव बृहत् सुन्दरः च अस्ति पूर्वराष्टाध्यक्षः आर् वेङ्कटरामन् एतानि दत्तवान् । अतिबृहत् वर्णचित्रं वामनावतारस्य चित्रं तञ्चावूरुशैल्या निर्मितम् । सङ्गीतवाद्यवादकानां समूहः सप्तस्वरदेवताः , बृहत् प्रवालमणिः , सूर्यकान्तमणिः इत्यादीनि अमूल्यानि वस्तूनि अत्र सन्ति । प्रदर्शन समयः प्रातः ९वादनतः ११.३०, सायं-४ तः ७.३० मार्ग मैसुरु ऊटी मार्गः


"http://sa.wikipedia.org/w/index.php?title=मैसूरु&oldid=271172" इत्यस्माद् पुनः प्राप्तिः