मोक्षगुण्डं विश्वेश्वरय्य

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(मोक्षगुण्डं विश्वेश्वरय्यः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
मोक्षगुण्डं विश्वेश्वरय्यः
जननम् क्रि.श. १८६०तमवर्षस्य सेप्टम्बर् मासस्य पञ्चदशमदिनम् ।
मुद्देनहळ्ळि चिक्कबळ्ळापुरमण्डलम्, कर्णाटकम्, भारतम्
मरणम् क्रि.श. १९६२तमवर्षस्य एप्रिल् मासस्य चतुर्दशमदिनम् ।
बेङ्गळूरु
राष्ट्रियता भारतीयः
शैक्षिकयोग्यता पुणे सिविल् इञ्जनियरिङ्ग् महाविद्यालयः ।
वृत्तिः अभियन्ता
धर्मः हिन्दुधर्मः
मातपितरौ वेङ्कटाचलम्म(माता)
श्रीनिवासशास्त्री(पिता)

सर्. एम्.वि. इत्येव प्रसिद्धः मोक्षगुण्डं विश्वरय्यः भारतस्य गण्यमान्येषु अभियन्तृषु अन्यतमः । अपि च मैसूरुसंस्थानस्य श्रेष्ठः दिवानः आसीत् ।

बाल्यं विद्याभ्यासः वृत्तिजीवनं च[सम्पादयतु]

विश्वेश्वरय्यस्य पिता श्रीनिवास शास्त्री माता वेङ्कटाचलम्मा । पिता संस्कृतभाषायाः विद्वान् । धर्मशास्त्राणि गाढम् अधीतवान् । आयुर्वेदपण्डितः अपि आसीत् । बेङ्गळूरुतः ४० क्रोशकदूरे स्थिते मुद्देनहळ्ळि इति ग्रामे विश्वेश्वरय्यस्य जन्म अभवत् । यदा एषः पञ्चदशवर्षीयः आसीत् तदैव पिता दिवङ्गतः । विश्वेश्वरय्यस्य प्राथमिकशिक्षा चिक्कगळ्ळापुरनगरे प्रौढशिक्षा बेङ्गळूरुनगरे च सम्पन्ने । क्रि.श. १८८१तमे वर्षे मद्रसुविश्वविद्यालयतः बे.ए.पदवीम् अवाप्य पुण्यपत्तनस्य(पुणे) विज्ञानमहाविद्यलयात् सिविल् अभियन्तृपदवीं प्राप्तवान् ।

जलानयनम्[सम्पादयतु]

विश्वेश्वरय्यः अध्ययनस्य पश्चात् मुम्बैनगरे लोकोपयोगिविभागे सर्वकारीयसेवाम् समारभत । क्रि.श. १८८४तमे वर्षे भारतीयजलनयनप्राधिकारतः आमन्त्रणम् आगतम् । तत्र सेवानियोजनस्य पश्चात् दक्षिणप्रस्थभूमौ एव अत्युतमां जलानयनव्यवस्थां परिचायितवान् । कवेरीनद्यां जलबन्धनिर्माणात् पूर्वं एषः तिरुचिरापळळिमह्द्ये चोळराजेन निर्मितं १८मशतके अर्थर् काटन् इत्यनेन पुनर्नवीकृतं बृहत् जलबन्धः दृष्ट्वा प्रभावितः अभवत् । मैसूरुमहाराजे वृत्तान्तं न्यवेदयत् । जलबन्धनिर्माणे उपयोज्यमानानां स्वचालितमहापूरद्वाराणां विन्यासं संशोध्य तस्य स्वाम्यं प्राप्रवान् । क्रि.श. १९०३तमे वर्षे प्रथमवारं महापूरनिर्गमनद्वाराणि पुण्यपत्तनस्य (पुणे) खडक्वास्ला जलबन्धे प्रयोजितानि । अत्र प्रथमयशस्विप्रयोगस्य पश्चात् ग्वालियर् समीपे टिग्रा जलबन्धे कर्णाटकस्य कृष्णराजसागरजलबन्धे च एतत् तन्त्रज्ञानं योजितम् । एतेषां स्वचालितद्वारणाम् उद्देशः तु महापूरे आगते जलबन्धानां सुरक्षापूर्वकं अधिकजलसङ्ग्रहः । तस्मिन् कालखण्डे कृष्णराजसागरः एव भारतस्य अतिबृहत् जलबन्धः कृष्णराजसागरजलबन्धः आसीत् । हैदराबाद् नगरं प्रवाहात् रक्षणस्य योजनां कृत्वा विश्वेश्वरय्यः समग्रदेशे परिचितः अभवत् ।

दिवानः विश्वेश्वरय्यः[सम्पादयतु]

क्रि.श. १९०८तमे वर्षे स्वयं निवृत्तः विश्वेश्वरय्यः पश्चात् मैसूरुसंस्थानस्य दिवानः भूत्वा सेवाम् अकरोत् । कृष्णराजओडेयर् इति राज्ञा सह मिलित्वा तदानीन्तनस्य मैसूरुराज्यस्य समग्राभिवृद्धये कार्यानी अकरोत् । क्रि.श. १९१७तमे वर्षे बेङ्गळूरुनगरे स्थिते सर्वकारीयाभियन्तृमहाविद्यालयं अस्थापयत् । कालन्तरेण अस्य महाविद्यालयस्य अस्य नाम एव स्थापितम् । मैसूरुविश्वविद्यालयस्य अभिवृद्धये अपि परिश्रमम् अकरोत् ।

पुरस्काराः[सम्पादयतु]

विश्वेश्वरय्यः यदा मैसूरुसंस्थानस्य दिवानः आसीत् तदा ब्रिटिश् सर्वकारः तस्मै सर् इति उपाधिम् अयच्छत् ।

The Knight Commander of The Indian Empire medal

क्रि.श. १९५५तमे वर्षे भारतसर्वकारस्य अत्युच्चं गौरवं भारतरत्नम् अवाप्नोत् । कन्नडभाषाजनेषु भारतरत्नभूषितः प्रथमः विश्वेश्वरय्यः ।

भारतरत्नपदकम्

अधुना कर्णाटके बहुत्र ऐ.टि.ऐ., पालिटेक्निक्, इञ्जिनियरिङ्ग् महाविद्यालयाः अस्य नाम्नि एव शोभन्ते । भारतदेशे प्रथमवारं EDUSAT कक्ष्यारम्भस्य कीर्तिः बेळगाविनगरे स्थितस्य विश्वेश्वरय्यतान्त्रिकमहाविद्यालयस्य एव । अभियन्तृक्षेत्रे अनेन कृताम् अनुपमा अपारां च सेवां परिगणयन् अस्य जन्मदिनं सेप्टम्बर् मासस्य पञ्चदशमदिनम् अभियन्तृदिनोत्सवेन आचरन्ति ।

अस्य नाम्नि विविधसंस्थाः[सम्पादयतु]

  • बेळगाविनगरे विश्वेश्वरय्यतान्त्रिकविश्वविद्यालयः
  • युनिवर्सिटि विश्वेश्वरय्य तान्त्रिकमहाविद्यालयः के.आर्. वृत्तम्, बेङ्गळूरु ।
  • सर्. एम्. विश्वेश्वरय्य तान्त्रिकमहाविद्यालयः कृष्णदेवरायनगरम्, बेङ्गळूरु ।
  • भद्रावतिनगरे विश्वेश्वरय्य अयोलोहोत्पादनयन्त्रागारः ।
  • बेङ्गळूरुमहानगरस्य विश्वेश्वरय्य औद्योगिकतान्त्रिकमस्तुसङ्गहालयः अस्य जन्मशतमानोत्सवस्मरणार्थं स्थापितः ।
  • महाराष्ट्रराज्यस्य नागपुरे विश्वेश्वरय्य प्रादेशिकाभियन्तृमहाविद्यालयः (इदानीम् इन्स्टिट्यूट् आफ् सैन्स् एण्ड् टेक्नालजी इति)
  • सर् एम्.विश्वेश्वरय्य इन्स्टिट्यूट् आफ् सैन्स् एण्ड् टेक्नालजि मदनपल्लि, चित्तूरुमण्डलम् आन्ध्रप्रदेशराज्यम्
  • विश्वेश्वरय्य इन्स्टिट्यूट् आफ् टेक्नालजि एण्ड् सैन्स् चौडरपल्लि, देवकरद्र मण्डल् मेहबूबनगरमण्डलम् आन्ध्रप्रदेशराज्यम्

ग्रन्थाः[सम्पादयतु]

  • Memoirs of my working life (मम वृत्तिजीवनस्य स्मरणम्)
  • Reconstructing India (भारतस्य पुनर्निमाणम्)

बाह्यानुबन्धाः[सम्पादयतु]

""