जीवविकासवादः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

जीवविकासवादः(jIvavikasavaadaH or Evolution) आधुनिकविज्ञानस्य मूलांशो भवति । एतद्वादं प्रथमं तावत् १८६८ तमे वर्षे (चार्ल्स् डार्विन्) आल्फ्रेड् वालेस्वर्यश्च अमण्डयताम् । भूमौ जीवोत्पत्तेरनन्तरं जगति दृश्यमानानां तथा विनष्टप्रायाणां जीवजातीनाम् कथमुत्पत्तिः अभवदिति विवरणमस्य वादस्य सारांशो वर्तते ।

१८६८तमे वर्षे चार्ल्स् डार्विन्वर्यः

पीठिका[सम्पादयतु]

विकासवादः जीवपरम्परायां कालक्रमे जायमानं परिवर्तनं विवृणोति । एषः जनजातेः वंशवाहेषु विद्यामानं सूक्ष्मव्यत्यासंम् एवं समानमूलादुद्भूय भिन्नभिन्नपरम्परासु जायामानस्य विकासस्य महत्तरव्यत्यासञ्च विवृणोति । सम्पूर्णतया विकासवादः जीवसङ्कुलस्य इतिहासं ज्ञातुं साहाय्यं करोति । जीविनां मूलं समानमेव, कालक्रमे जातैः निरन्तरं मन्दव्यत्यासैः वैविध्यमयजीवसङ्कुलस्य आविर्भावः अभवदिति विकासवादस्य मूलतत्वं भवति । अधोभागे विव्रियमाणान् जीवविकासांशान् भूम्युत्खननेन शिलासु लब्धावशेषादिभिः विज्ञानिनः अशोधयन् निरधारयन् च ।

भूगोलजीवविकासस्य कालमानः[सम्पादयतु]

भूमेः वयः प्रायः ४.४५ बिलियन्वर्षाणि ।

अर्चायिन् महायुगः[सम्पादयतु]

  • प्रायः सूर्यस्य ४५७/४६५,००,००,००० कोटिवर्षाणि जातानि इति ऊह्यते । (सौरव्यूहस्योदयकालः)
  • भूमेः प्रायशः ४५४ कोटिवर्षाणि (१% व्यत्यासः स्यादिति भाव्यते) ।

सौरव्यूहस्य उद्गमः[सम्पादयतु]

भूमेः जननस्यानन्तरं कालं प्रधानतया त्रिधा विभज्यते । १. पातालमहायुगः २. आदिजीवमहायुगः ३.जीवविकासमहायुगः (फलपुष्पमहायुगः इति नामान्तरम्)

एतेषु पुनः विभागाः वर्तन्ते ।

१.पातालमहायुगः - १.अतिप्राचीनः २.आदि/मध्योष्णयुगः ३. अन्त्योष्णयुगः

पातालमहायुगः[सम्पादयतु]

एवं रीत्यापि विभजितम् –(युगविभागस्य जीवविकासस्य च कालगणनाविचारे अभिप्रायभेदाः सन्ति ।

  • १.पातालयुगः –(उष्णयुगस्यान्त्यकालः) ३००,००,००,००० आरम्भिकाः एकाणुजीवकोशाः दृष्टाः ।
  • २.पूर्वप्राचीनयुगः -२५०,००,००,००० वर्षाणि अग्रिमैकाणुजीवकोशाः
  • ३.मध्यप्राचीनः १६०,००,००,००० स्पष्ट –केन्द्रबीजयुक्ताः जीवकोशाः

आदि –उष्णयुगः[सम्पादयतु]

१. अतिप्राचीनः ( हेडियान् नाम नरकयुगः ) अत्युष्णयुगः –भूमिः ( ४६५ कोटिवर्षपूर्वः ) अतिप्राचीनः ( ४६०० मिलियन् वर्षपूर्वः ) बालसूर्यं समन्ततः परिवर्तमानानां रजः कणानां सान्द्रतया भूमेरुदयोऽभवत् । तदैव जीवाधारभूतानां सङ्कोणसंयुक्ताणूनं रचनां स्यात् ।

मध्योष्णयुगः[सम्पादयतु]

२. अत्युष्णः -४००,००,००,००० मध्योष्णयुगः – थिया (ऊहा) नाम्नः ग्रहस्य भूमिघट्टनपरिणामेन एकः शकलः चन्द्रो भूत्वा भूमिं समं परिभ्रमणम् आरभत । तस्मात् चन्द्रस्य गुरुत्वाकर्षणा भूमेः अक्षभ्रमणम् एकस्थिरतायाम् आनाययत् । एतदक्षभ्रमणं भूमौ जीवधारणाय आनुकूल्यं वातावरणम् उदपादयत् । (थिया सृष्टेः आदिमाता; तितानेस् – हेलोयिस्, सेलीने, इयोस् – अदिपुरुषाः –थिया एतेषां माता –ग्रीक्पुराणम् )

अन्त्योष्णयुगः[सम्पादयतु]

प्रायशः ३५० (४५०-३५०) कोटिवर्षेर्भ्यः पूर्वमेव आदिजीवाङ्कुरः स्यादित्यूहा । प्रोटो काशोद्भवार्थम् (cell ) अनुकूलभौतिकजैविक वातारणस्योत्पत्तिरभवत् ।
३६० कोटि वर्षाणां पूर्वाग्रे यावत् भूमौ उल्कापातैः वातावरणस्य व्यत्ययेन जीवकोशानां निर्माणव्यवस्था विनष्टा अभवदपि भूमेः अन्तः जलावरणे केचन मैक्रोब् –सूक्ष्मजीवधातवः स्युरिति ऊहा कृता ।
३. अत्युष्णः ३५०,००,००,००० अन्त्योष्णयुगः भूमेः उपरि आवरणं शैत्यो भूत्वा घनोभूत् । वायुमणडलं, समुद्रश्चाभवत् । समुद्रतले अयसः सल्फैड् आवरणान्यभवन् । अनेन आर्. एन्. ए इत्यस्य आवश्यकं संयुक्तम् उत्पन्नं स्यात् ।
३९०-२५० कोटिवर्षेभ्यः पूर्वं प्रोको-रि-अवट् नाम आदिजीवकोशानाम् उत्पत्तिः स्यात् । एतैः इङ्गालाम्लं प्रयुज्य अनार्ग्यानिक् वस्तूनि आम्लीकृत्य (आक्सिडैस् ) शक्तिसञ्चयः कृतः स्यात् । अनन्तरम् प्रोकोरीअवट् जीवकोशाः रासायनिकक्रियया ग्लूकोस् संयुक्ताणूनां रासायनिकबन्धरचनया तेषां सङ्गहः स्यात् । ग्लूकोस् सर्वेषां जीवकोशानां जीविनांञ्च जीवमूलाधारो भूत्वा अद्यापि वर्तेते ।

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=जीवविकासवादः&oldid=273290" इत्यस्माद् पुनः प्राप्तिः