निहत्य धार्तराष्ट्रान्नः का...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
- पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः ॥ ३६ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य षड्त्रिंशत्तमः(३६) श्लोकः ।
पदच्छेदः
[सम्पादयतु]निहत्य, धार्तराष्ट्रान्, नः, का, प्रीतिः, स्यात्, जनार्दन । पापम्, एव, आश्रयेत्, अस्मान्, हत्वा, एतान्, आततायिनः ॥
अन्वयः
[सम्पादयतु]जनार्दन ! धार्तराष्ट्रान् निहत्य (स्थितानाम्) नः का प्रीतिः स्यात् ? (प्रत्युत) आततायिनः एतान् हत्वा स्थितान् अस्मान् पापम् एव आश्रयेत् ।
शब्दार्थः
[सम्पादयतु]- जनार्दन = हे कृष्ण !
- धार्तराष्ट्रान् = धृतराष्ट्रस्य पुत्रान्
- निहत्य = हत्वा,
- का = कीदृशी
- प्रीतिः = आनन्दः,
- नः = अस्माकम्
- स्यात् = भवेत्
- आततायिनः = हन्तुम् उद्यतान्
- एतान् = इमान्
- हत्वा = नाशयित्वा
- पापम् = किल्बिषम्
- एव = एव
- अस्मान् = अस्मान्
- आश्रयेत् = प्राप्नुयात् ।
अर्थः
[सम्पादयतु]हे जनार्दन! एतेषां कौरवाणां मारणेन अस्माभिः का वा तृप्तिः जायते ? प्रत्युत कृतपातकानाम् एतेषां मारणेन पापमेव अस्मान् स्पृशेत् ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]http://www.gitasupersite.iitk.ac.in/