नीलगिरिपर्वतः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
Nilgiri Hills
Nilgiri Hills Tamil Nadu.jpg
View of Nilgiri Hills
Elevation २,६३७ m (८,६५२ ft)
Translation Blue Mountains (Sanskrit)
Location
Location Tamil Nadu, South India
Range Western Ghats
Geology
Type Fault
Age of rock Cenozoic, 100 to 80 mya
Climbing
Easiest route NH 67 (Satellite view)
or Nilgiri Mountain Railway


भूस्वर्गः - नीलगिरिः

दक्षिणभारतस्य पश्चिमघट्टप्रदेशे नीलगिरिपर्वतः विराजते । एतं पर्वतं परितः स्थिते हरिद्वर्णमये प्रदेशे त्रिंशद्विधानि वन्यपुष्पाणि प्रभूततया विकसन्ति । ’नीलगिरिटापर्’ नामकस्य अजस्य निवासस्थानम् अस्ति नीलगिरिपर्वतः । एत्तज्जातीयाः वन्याः सहस्त्रसङ्ख्यामात्राणि एव सन्ति ।

द्वादशसु वर्षेषु सकृत् पुष्प्यति ’कुरिञ्जि’-सस्यम् । तत् च सस्यम् अत्रैव अस्ति । यदा तानि सस्यानि पुष्प्यन्ति तदा एषः पर्वतः समग्रः नीलमयः भवति । अत्र सारङ्गाः, व्याघ्राः|व्याघ्राः, तरक्षवः च निवसन्ति । एतस्मिन् पर्वतप्रदेशे ’बाल्सम्जातीयाः’ विविधवृक्षाः प्राधान्येन वर्धन्ते । एतेषां शाखाः शैवलेन आवृताः भवन्ति । एतेषु वृक्षेषु चित्रविचित्रवर्णीयानि पुष्पाणि विकसन्ति । नीलगिरिपर्वतस्य प्राकृतिकं सौन्दर्यं तावत् द्रष्टॄन् आनन्दसागरे निमज्जयति । अतः एव केचन नीलगिरिपर्वतं ’भूस्वर्गः’ इति निर्दिशन्ति ।