नेपालीसाहित्येतिहासः
सहितस्य भावः साहित्य । नेपाली भाषायाः साहित्य नेपलीसाहित्य । नेपालीसाहित्यस्य इतिहासः नेपालीसाहित्येतिहासः, किंवा नेपाली भाषायाम् लिखितानि यावत् साहित्यिककृतयः सन्ति तेषां विकासक्रमसंबद्धलेखनशैलीविधिप्रवृत्त्यादिनाम् उल्लेखः नेपाली साहित्येतिहासः ।
साहित्यपरिचयः
[सम्पादयतु]वर्तमानसमये साहित्यः यदर्थं वहति प्राचीनसमये पाश्चात्य एवं पूर्वीयजगति कविता/काव्यम् साहित्यस्य पर्यायरूपेण प्रयुक्तः । पूर्वीय साहित्यशास्त्रे साहित्यस्य पृथक् परिभाषां नैव प्राप्यते । काव्यस्य परिभाषामेव साहित्यस्य परिभाषा सन्निहिताेऽस्ति ।
पूर्वाचार्यैः काव्यस्य किंवा साहित्यस्यार्थः अधाेलिखितानुसारेण कृतः -
सब्दार्थाै सहिताै काव्यम् । [१]
शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली । [२]
संक्षेपाद्वाक्यमिष्टार्थव्यवच्छिन्ना पदावली, काव्यं स्फुटदलंकारं गुणवद्दोषवर्जितम् । [३]
तददाेषाै शब्दार्थाै सगुणावनलङ्कृती क्वापि [४]
वाक्यं रसात्मकं काव्यम् [५]
साहित्येतिहासपरिचयः
[सम्पादयतु]- साहित्येतिहासाेऽपि मूलतः इतिहासैव अस्ति, तस्मात् अस्य परिभाषामपि इतिहासपरिभायाः सादृशी वर्तते । विभिन्न साहित्येतिहासपण्डिताः वदन्ति यद् समाजिकसाँस्कृतिकमूल्यानाम् कालजन्यतथ्यानाम् शृङ्खलाबद्धानुसन्धानपरिणामः साहित्येतिहासः । अर्थात् सामान्येतिहासः अतीततस्य कथारूपेण दृश्यते चेत् सांस्कृतिकचिन्तनात् प्रभाविताे भूत्वा रचितस्य साहित्यकारस्य कृतेः शृङ्खलाबद्ध कथा इति साहित्येतिहासः । एषः पनि तथ्यप्रति तथ्यपरकः वर्तते, यत्तथ्यं साहित्यिकमान्यताद्वारा सत्यापिता सन्ति विभिन्न सन्दर्भे स्वीकृताः सन्ति च ।।[६]
साहित्येतिहासस्य कालविभाजनविषये मतैक्यं अावश्यकं वर्तते । परन्तु नेपालीसाहित्येतिहास्य कालविभाजनविषये विविध मतमतान्तराणि दृश्यन्ते । प्रमुख मतमतान्तराणि अधाेलिखितानि सन्ति ः
क्र.सं. | लेखकस्य नामः | पुस्तकस्य नामः | कालविभाजनम् (कोटि १) | कालविभाजनम् (कोटि २) | कालविभाजनम्(कोटि ३) | कालविभाजनम् (कोटि ४) | कालविभाजनम् (कोटि ५) |
१ | यज्ञराज सत्यालः | नेपाली साहित्यस्य भूमिका (२०१७) | प्राथमिककालः (१९औँ शताब्दीतः) | माध्यमिककालः (१९६० वैक्रमाब्दतः) | आधुनिककाल (१९७४ वैक्रमाब्दतः) | ||
२ | डिल्लीराम तिम्सिना तथा माधव भण्डारी | अस्माकं साहित्यः साहित्यकाराश्च (२०१८) | प्राथमिककालः ( सुवानन्ददासतः रघुनाथ भट्टपर्न्तम्) | उत्थानकालः (भानुभक्ताचार्यतः) | विकासकालः (मोतीरामदेखि) | आधुनिककाल (शारदा पत्रिका तथा लेखनाथतः) | |
३ | ईश्वर बरालः | नेपालीसाहित्यस्य कालविभाजनः (रूपरेखा-५३,२०२२) | प्रथमिककालः (१८३३-१९४०) | माध्यमिककाल (१९४१-१९८५) | आधुनिककालः (१९८६-२००७) | प्रजातन्त्रकालः (२००७-२०१८) | पञ्चायतकालः (२०१८ वैक्रमाब्दतः) |
४ | बालकृष्ण पोखरेलः | राष्ट्र भाषा (२०२२) | आरम्भिककालः (सं.१३७८-१८००) | उत्थानकालः (१८००-१९४०) | विकासकालः (१९४० वैक्रमाब्दतः) | ||
५ | तारानाथ शर्मा | नेपाली साहित्यस्य इतिहास (२०२७) | भानुभक्तपूर्वयुगम् (प्रारम्भ-१८७१) | भानुभक्तयुगम् (१८७२-१९३९) | मोतीरामयुगम् (१९४०-१९७६) | क्रन्तिपूर्वयुगम् (१९७७-२००७) | क्रान्तिउत्तरयुगम् (२००७ वैक्रमाब्दतः) |
६ | रत्नध्वज जोशी | नेपालीसाहित्ये कालविभाजनम् (प्रज्ञा ५,२०१८) | अज्ञातकालः/आदिकालः (भानुभक्तपूर्वम्) | मध्यकाल (भानुभक्ततः लेखनाथपर्यन्त) | आधुनिककालः (बालकृष्ण समतः) | ||
७ | नेपाल राजकीय प्रज्ञाप्रतिष्ठानम् | इतिहासलेखनपरियोजना (२०२९) | प्राचीनकालः (प्रागैतिहासिक(एकीकरणपूर्वम्) | प्राथमिककालः (वीरधारा भक्तिधाराश्च) | माध्यमिककालः (शृङ्गारिकधारा) | आधुनिककाल (लेखनाथतः) | |
८ | बालचन्द्र शर्मा | नेपालीसाहित्येतिहासः (२०३९) | उत्पत्तिकालः (अस्माकंसाहित्यस्य भावात्मकपरम्पराम्) | प्रयोगकालः (अस्माकं साहित्यस्य प्रारम्भिकप्रवृत्तयः) | पूर्वमध्यकालः (भानुभक्ताचार्यः) | मध्यकालः (मुद्रणप्रचारविस्तारयुगम्) | आधुनिककालः (चक्रपाणिलेखनाथलक्ष्मीप्रसादयुगम्) |
९ | घनश्याम नेपाल | नेपाली साहित्यको परिचयात्मक इतिहास (र्इ१९९१) | प्रस्तावना/स्तवनकालः (सन्९८१-१७५०/सन्१७५०-१८८२) | शृङ्गार/नीतिकालः (सन्१८८३-१९१७/१९१७-१९३३) | रोमान्टिककालः (सन्१९३४-१९६०) | प्रयोगकालः (सन्१९६०-१९७४) | आलोचनाकालः (१९७४ खृष्टाब्दात् अद्यपयर्न्तम्) |
१० | दयाराम श्रेष्ठ तथा मोहनराज शर्मा | नेपालीसाहित्यस्य संक्षिप्तइतिहासः (२०४०) | आदिकालः : वीरगाथा कालः- (१७९९-१८७२) | पूर्वमध्यकालः : भक्तिकालः-(१८७३-१९३९) | उत्तरमध्यकालः : शृङ्गारकालः-(१९४०-१९७४) | प्रागाधुनिककालः : नव्यकालः-(१९७५-२००७) | आधुनिककालप् (२००८ विक्रमाब्दात् अद्यपर्यन्तम्) |
११ | केशवप्रसाद उपाध्याय | नेपालीसाहित्ये कालविभाजनम (२०४० : १४-१५) | पूर्वप्राथमिक/उत्तरप्राथमिककालः (प्रारम्भतः अष्टादश शताब्देः अन्त्यपर्यन्तम्) | पूर्वमाध्यमिक/उत्तरमाध्यमिककालः (१८८४-१९४०/१९४०-१९६०) | लेखनाथयुगम् (१९६०-१९८५) | आधुनिककालः (१९८६ वैब्रमाब्दतः) |
नेपालीसाहित्यस्य कालविभाजनम्
[सम्पादयतु]नेपालीभाषायाः इतिहासः पुरातनमस्ति चेत् नेपालीसाहित्येतिहासः तद्वत् पुरातनम् नैव । नेपालीसाहित्यस्य कालविभाजनविषये विभिन्न साहित्येइतिहासकारेभ्यः स्वस्वधारणाः प्रकटिताः सन्ति । उपर्युक्त तालिकात् स्पष्टं भवति, यदधिकांश साहित्येतिहासकाराः अधाेलिखित त्रिकालिक अवधारणाामनुसरन्ति स्म ः [७]
प्राथमिक नेपाली साहित्य
[सम्पादयतु]प्राथमिक कालीन नेपालीकविता (१८२६-१९४०)
[सम्पादयतु]१. वीरगाथाकाल/वीरधाराकाल (१८२६-१८७२)
सुवानन्ददासेन लिखितम् पृथ्वीनारायणः शीर्षक कवित्तात् प्राथमिकनेपालीसाहित्यस्य शुभारम्भाेऽभवत् ।[८] सुवानन्ददासविषये निश्चितानुसन्धानम् नैव विद्यते । अस्य एकमेव कवितां पृथ्वीनारायण शाहः अस्ति । कमल दीक्षित महाेदयेन सर्वप्रथमः इदं प्रकाशितम् । नेपालीभाषायां लिखितमं एतस्मिन् कृतेः ध्वनितात्त्विकविशेषतां च दृश्यन्ते । अयं पृथ्वीनारायण शाहस्य राजपुरोहितः अासीतदिति साहित्येतिहासकाराः वदन्ति तनहु भकुन्डो शीर्षक कविताकाव्यं रचितमनेन । अयं हास्यकदम्ब (१८५५ ) नाटकस्य नेपालीभाषायाम् अनुवादमकराेत् । अन्य किञ्चित कविताकाव्यञ्च रचयति स्म इति । यस्य अात्मस्वीकृतेः भणितम् यद् संस्कृतभाषायां हास्यकदम्बम् जयरत्नाकर नाटकञ्च रचितम् । [९] शक्तिवल्लभ अर्यालस्यातिरिक्त कवीनाम् कविताकृतिषु उदयानन्द अर्यालस्य पृथ्वीन्द्रोदय काव्य, सुन्दरानन्दस्य (बाँडा) बहादुरशाहवर्णनम् राधावल्लभ अर्यालस्य साँढ्यायाः कवित्त इत्यादयः दृश्यन्ते । १७९९ विक्रमाब्दतः १८७२ पर्यन्तम् वीरगाथाकालः।
२. भक्तिकालः (१८७३-१९४०)
प्राथमिक नेपालीसाहित्यस्य प्रारम्भसमये स्मृतिकाव्येन विशिष्टस्थानं प्राप्तम्, परन्तु परवर्तीसमये भक्तिकाव्यस्य वर्चस्वं अधिकतरं दृश्यते । अस्मिन् काले द्वे घटके दृश्येते, यथा सगुणभक्तिकाव्यघटकम् निर्गुणभक्तिकाव्यघटकञ्च । सगुणभक्तिकाव्यघटकम् द्विभागे विभक्तमासीत् - कृष्णभक्तिकाव्यं रामभक्तिकाव्यञ्च । कृष्णभक्तिकाव्यघटकेऽस्मिन् इन्दिरसः, विद्यारण्यकेशरी अर्यालः, वसन्त शर्मा, यदुनाथ पाेखर्यालः, रघुनाथभट्ट पाेखर्यालः, पतञ्जली गजुर्यालनामधेयाः कवय अासन् । रामभक्तिकाव्यघटकस्य सर्वप्रमुख कवि भानुभक्ताचार्य अासीत् । अस्मिन् कविना नेपालीभाषायां रामायण महाकाव्यं (भनुभक्तीयरामायणम्) रचितम् । इदं नेपालीभाषायाः प्रथममाैलिककृतिः, तस्मात् अादिकविरितिख्याताेऽयम् । भानुभक्तः प्रतिभावान् धार्मिकश्च । तदनन्तरं निर्गुणभक्ति काव्यघटकस्य उदयाेऽभूत् । उदयलहरीनाम भक्तिकाव्यस्य रचयिता ज्ञानदिलदासः । सः निर्गुणभक्तिकाव्यघटकस्य प्रमुख कविश्च । १७७३ वैक्रमाब्दतः १९३९ पर्यन्तम् नेपालीसाहित्येतिहासे भक्तिकाल इति विश्रुतम् । [१०]
प्राथमिक नेपालीकथा (१८२७-१९५७)
[सम्पादयतु]१८२७ वैक्रमाब्दतः १९५७ पर्यन्तं नेपाली कथायाः प्राथमिककालः। वर्तमानमयपर्यन्तस्यानुसन्धानः कथयति यद् शक्तिवल्लभ अर्याललिखित महाभारत विराटपर्वः (१८२७) नेपालीसाहित्यस्य प्रथमाख्यानात्मककृतिरस्ति । तत्पश्चात् प्रकाशिताः प्रमुखकृतयः निम्नलिखिताः सन्ति ः
- भानुदत्त्तस्य हितोपदेशमित्रलाभस्यानुवादः (सं.१८३२), ।
- शक्तिवल्लभ अर्यालस्य संस्कृत नाटकस्य अनुवादः हास्यकदम्बः (१८८५),
- अज्ञात व्यक्तिलिखित दशकुमारचरितम् १८७५) ।
कथातत्त्वस्य दृष्टे पीनासस्य कथा (सं.१९७२) प्रथमनेपाली कथा मन्यते । ।[११] पीनासकथापश्चात् मुन्शीका तीन आहान (सं.१८७७), बहत्तर सुगाको कथा (१८९०), सत्तलसेनको कथा इत्यादयः एतत्कालस्य उल्लेख्यकृतयः । तत्पश्चात् अनुमानतः ८० वर्षपर्यन्तं नेपाली कथाकृतिर्नैव दृष्टगाेचर अस्ति । १९५८ वैक्रमाब्दे गोरखापत्रस्य प्रकाशनपश्चादेव नेपालीकथालेखनस्य प्रारम्भ अभवदिति दृष्यते । ।[१२]
प्राथमिककालस्य कश्चनः प्रवृत्तयः ः
सन्दर्भाः
[सम्पादयतु]- ↑ भामह, काव्यालङ्कारः, शर्मा, देवेन्द्रनाथ ( २०४२, तृतीय सं. व्याख्या), पटना : विहार राष्ट्रभाषा परिषद्
- ↑ दण्डी, काव्यादर्श, मिश्र, रामचन्द्रः (सन् १९८४, तृतीय सं. व्या.), वाराणसी : चाैखम्बा विद्याभवन
- ↑ वेदव्यासः अग्निपुराणम्, सम्पा. उपाध्याय, बलदेवः (२०३३), वाराणसी : चाैखम्बा संस्कृत सिरिज अफिस
- ↑ वामनः काव्यालङ्कारसूत्रवृत्तिः, व्याख्या, सिद्धान्तशिराेमणि, विश्वेश्वर (२०११) सम्पा. नगेन्द्र, दिल्ली : अात्माराम एन्ड सन्स
- ↑ विश्वनाथः साहित्यदर्पणः व्याख्या, सिंह, सत्थवृतः (१९८२, षष्ठ संस्करणम्), वाराणसी : चाैखम्बा विद्याभवन
- ↑ श्रेष्ठ,दयाराम (२०५९-३०), साहित्यको इतिहास : सिद्धान्त र सन्दर्भ काठमाडौँ : त्रिकोण प्रकाशन
- ↑ नेपाली साहित्यकोश (२०५५-३९९), नेपाली साहित्य, काठमाडौँ : नेराप्रप्र
- ↑ योगी नरहरिनाथ, इतिहासप्रकाश अङ्क २, भाग ३ (२०१३), काठमाडौँ : इतिहासप्रकाश मण्डल
- ↑ नेपाल, घनश्याम (सन् १९९४), नेपाली साहित्यको परिचयात्मक इतिहास, गान्तोक, सिक्किम : जनपक्ष प्रकाशन
- ↑ श्रेष्ठ, दयाराम र मोहनराज शर्मा (२०३४), ‘’’नेपाली साहित्यको संक्षिप्त इतिहास’’’, काठमाडौँ : नेराप्रप्र
- ↑ रेग्मी, डा.जगदीशचन्द्र (सं.२०३२), नेपाली अध्ययन, काठमाडौँ : साझा प्रकाशन
- ↑ श्रेष्ठ,दयाराम.....ऐजन.....ऐजन.....ऐजन