पर्वताः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हिमालये गौरीशिखरम्(वामतः) लोस् (मध्ये) अमा दबलम् (दक्षिणतः)

पर्वति - पर्व (पूरणे) अतच् (उ ३-११०)

पयोधि तर्णकपदं पर्वतं सिकतामयम् ।
पातालं च स्थलीपृष्ठं प्रैक्षतामितविक्रमः ॥ याद-२२-५१

पर्वतः सीमिते भूप्रदेशे शिखररूपेण स्थितः महा भूराशिः एव । समुद्रस्तरम् आधारीकृत्य स्थितः अत्युन्नतः पर्वतः नाम मौण्टेवरेस्ट्(८,८४८ मी (२९,०२९ पादमितम्)) एशियाखण्डे हिमालये वर्तते । सौरमण्डले अत्युन्नतः पर्वतः नाम ओलिम्पस् मान्स् (२१,१७१ मी (६९,४५९ पादमितम्)) मङ्गलग्रहे विद्यते । एशियाखण्डे ६४%, युरोपखण्डे २५%, दक्षिणामेरिकाखण्डे २२%, आस्ट्रेलियाखण्डे १७%, आफ्रिकाखण्डे ३% भागाः पर्वतप्रदेशाः । भूमौ २४% पर्वतभागाः । १०% जनाः पर्वतीयप्रदेशे निवसन्ति । जगतः बह्व्यः नद्यः पर्वतमूलाः । ५०% मानवाः पर्वतजलमेव अवलम्बन्ते जीवनाय ।

बृहत्पर्वताः[सम्पादयतु]

सप्तशतमीटर्तः अपि उन्नताः शताधिकाः पर्वताः एषियाखण्डे एव सन्ति । तेषु बहवः हिमालयपर्वतश्रेण्याम् एव सन्ति । कस्मिंश्चिदन्यखण्डे एतावन्तः उन्नतपर्वताः न सन्ति । यूरोपखण्डस्य उन्नतः शिखरः रषियादेशे स्थितः मौण्ट् एल्ब्रस् इति। एष मौण्ट् एवरेस्ट् शिखरस्य अपेक्षया ३००० मीटर् न्यूनः अस्ति । विविधेषु खण्डेषु स्थिताः अत्युन्नताः पर्वताः

क्रमसङ्ख्या खण्डः पर्वतः औन्नत्यम्
एशियाखण्डः एवरेष्ट्पर्वतः ८८४८ मीटर्मितः
दक्षिण -अमेरिकाखण्डः अकाङ्कागुवा ६९६० मीटर्मितः
उत्तर- अमेरिकाखण्डः म्याक् किन्ले ६१९४ मीटर्मितः
आफ्रिकाखण्डः किलिमञ्जारो ५८९५ मीटर्मितः
यूरोपखण्डः एल्ब्रस् ५६३३ मीटर्मितः
अण्टार्टिकाखण्डः विन्सन् म्यसिफ् ५१४० मीटर्मितः
ओषानिया जया ४८८३ मीटर्मितः
झुग्स्पिट् - जर्मन्याः उन्नतपर्वतः

विश्वस्य दश बृहत्शिखराणि । सर्वे हैमालयश्रेण्याम् एव सन्ति ।

क्रमसङ्ख्या शिखरम् औन्नत्यम्
एवरेस्ट् ८८४८ मीटर्मितम्
के२ (गोड्विन् अस्टिन्) ८६११मीटर्मितम्
काञ्चनगङ्गा ८५९८ मीटर्मितम्
ल्होत्से ८५११ मीटर्मितम्
यालुङ्ग् काङ्ग् ८५०२ मीटर्मितम्
मकालु ८४८१ मीटर्मितम्
धवलगिरिः ८१७२ मीटर्मितम्
मानास्लु ८१५६ मीटर्मितम्
चो ओयु ८१२६ मीटर्मितम्
१० नङ्गपर्वतः ८८४८ मीटर्मितम्

युरोपस्य उन्नतानि शिखराणि[सम्पादयतु]

यूरोपस्य अत्युन्नतानि शिखराणि । शिखरत्रयं रषिया देशस्य काकसस् पर्वतश्रेण्यां सन्ति । अन्यानि अल्फ्स्पर्वतश्रेण्यां सन्ति ।

क्रमसंख्या शिखरम् औन्नत्यम्
एल्ब्रस् ५६३३ मीटरमितम्
डैक् तावु ५२०२ मीटरमितम्
शखर ५०५८ मीटरमितम्
मौण्ट् ब्रस् ४८१० मीटरमितम्
माण्टे रोसा ४६३३ मीटरमितम्
वैष्टार्न् ४५१२ मीटरमितम्
किनबलुपर्वतः, मलेशिया

अत्युन्नतः पर्वतः[सम्पादयतु]

प्रपञ्चे अत्युन्नतः पर्वतः मौण्ट् एवरेस्ट् नेपाल-टिबेट्सीमयोः अस्ति । एतस्य प्राचीनं नाम चामो लुङ्मा इति (टिबेट् भाषा) अस्य अर्थः विश्वमातृदेवता । समुद्रतलतः यदि मापयामः तर्हि प्रपञ्चे मौण्ट्-एवरेस्ट् एव उन्नतः शिखरः ।
परन्तु पर्वतस्य मूलतः अग्रं यावत् मापयाम तर्हि हवाये मध्ये स्थितः मौना की प्रपञ्चस्य अत्युन्नतः पर्वतः । अस्य मूलं समुद्रतले अस्ति । अस्य औन्नत्यं ४२०५ मीटर्मितम् अस्ति । मूलतः १०,२०३ मीटर्मितमस्ति । (एवरेस्टतः अपि १३५५ मीटर्मितं यावत् अधिकः उन्नतः)

अति दीर्घाः पर्वतश्रेण्यः[सम्पादयतु]

क्र सं पर्वतश्रेणी स्थानम् दैर्घ्यम्
हिन्दूसागरशान्तसागरयोः मध्ये निगूहिता पर्वतश्रेणी ३०,७२० किलोमीटर्युता
आण्डीस् दक्षिण-अमेरिका ७.२४० किलोमीटर्युता
राकिपर्वतश्रेणी उत्तर-अमेरिका ६,०३० किलोमीटर्युता
हिमालयकाराकोरं-हिन्दूकुशश्रेणी एशिया ३,८६० किलोमीटर्युता
ग्रेट् डिवैड्ग् रेञ्ज् आस्ट्रेलिया ३.६२० किलोमीटर्युता

पर्वतारोहणविक्रमः[सम्पादयतु]

पर्वतारोहणसाहसक्रीडायाः आरम्भः १८ शततमे वर्षे अभवत् ; दक्षिणयूरोपस्य आल्प्स्पर्वतश्रेण्याम् आल्पैनस्य मौण्ट् ब्ल्लङ्क् शिखरम् (औन्नत्यं ४८१० मीटर्मितम्) क्रि.श १७८६ तमे वर्षे अरूढम् । क्रि.श १८७० तमवर्षे प्रायः आल्पैन्पर्वतश्रेणीषु स्थितानि सर्वाणि शिखाराणि आरूढानि । ततः जगति अन्यबृहतशिखराणाम् आरोहणम् आरब्धम् । विविधखण्डेषु प्रथमतया शिखरारोहणं कस्मिन् वर्षे अभवत् इति अत्र प्रदत्तम्

पर्वतः वर्षम्
एवरेष्ट्पर्वतः १९५३
अकाङ्कागुवा १८९७
म्याक् किन्ले १९१३
किलिमञ्जारो १८८९
एल्ब्रस् १८७४
विन्सन् म्यसिफ् १९६६
जया १९६२

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पर्वताः&oldid=436833" इत्यस्माद् प्रतिप्राप्तम्