पारसीकयवानी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पारसीकयवानीसस्यं, पुष्पं, बीजं चापि
Hyoscyamus niger

इयं पारसीकयवानी अपि भारते वर्धमानः कश्चन धान्यविशेषः । इयम् अपि सस्यजन्यः आहारपदार्थः । इयं पारसीकयवानी आङ्लभाषायां Henbane इति उच्यते । ल्याटिन्-भाषायाम् इयं Hyoscyamusniger liny इति उच्यते । इयं पारसीकयवानी तृणकुले Solanacear कुले अन्तर्भवति । एषा पारसीकयवानी वर्णस्य अनुगुणं त्रिविधा भवति । रक्तवर्णीया पारसीकयवानी, श्वेतवर्णीया पारसीकयवानी, कृष्णवर्णीया पारसीकयवानी च इति ।

आयुर्वेदस्य अनुसारम् अस्य पारसीकयवान्याः स्वभावः[सम्पादयतु]

पारसीकयवानीपुष्पम्

इयं पारसीकयवानी पचनार्थं जडा । एषा रुच्या, ग्राहिणी, मादिनी च ।

“पारसीकयवानी तु यवानीसदृशीगुणः ।
विशेषात्पाचनी रुच्या ग्रहिणी मादिनी गुरुः ॥“ (भावप्रकाशः)
१. एषा पारसीकयवानी पश्चिमहिमालयस्य उष्णभूमौ वर्धते ।
२. एतस्याः पारसीकयवान्याः बीजानि धूम्रवर्णीयानि, गन्धहीनानि, अल्पतिक्तानि च ।
३. रक्तवर्णस्य, श्वेतवर्णस्य च पारसीकयवानी उपयोगार्हा । कृष्णवर्णस्य उपयोगार्थम् अनर्हा ।
४. एषा पारसीकयवानी बहु रुच्या, ग्राहिणी, मादिनी च ।
५. एषा पारसीकयवानी निद्रां जनयति, वेदनां शमयति च ।
६. एषा पारसीकयवानी न मलस्तम्भिका ।
७. एषा पारसीकयवानी मानसिक-अस्वस्थतायाम् अपि उत्तमम् औषधम्
८. एषा पारसीकयवानी अल्पप्रमाणेन हृद्रोगस्य निवारिका ।
९. एतां पारसीकयवानीं पेषयित्वा लेप्यते चेत् स्तनशोथः, वृषणशोथः, सन्धिशोथः इत्यादयः निवारिताः भवन्ति ।
१०. मूत्राशयस्य शोथे जाते पारसीकयवानीं, यवक्षारम्, अमृतलतां, शुण्ठीं च योजयित्वा दत्तं चेत् बहुशीघ्रं शोथः अपगच्छति ।
११. पारसीकयवानी अधिकप्रमाणेन उपयुज्यते चेत् प्रलापः, मूर्छा, मृत्युः वा जायेत ।
"https://sa.wikipedia.org/w/index.php?title=पारसीकयवानी&oldid=366877" इत्यस्माद् प्रतिप्राप्तम्