पुनर्जन्म

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
हिन्दुकलायां पुनर्जन्म।

अन्तर्विषयाः

[सम्पादयतु] जन्ममरणचक्राद् मुक्तिः एव हिन्दूनां जीवनोद्देशः

आत्मनः अमरत्वस्य उपसिध्दान्तः भवति पुनर्जन्मसिध्दान्तः । श्रीमदभगवद्गीतायां तु ‘जातस्य हि ध्रुवो मृत्युः ध्रुवं जन्म मृतस्य च’ अथवा ‘बहूनि मे व्यतीतानि जन्मानि तव चार्जुन’ इत्यादिभिः अनेकैः वचनैः सिध्दान्तोऽयं प्रतिपादितः एव । श्रीमद्-आद्यशंकराचार्यैः ‘पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम्’ इत्यादिना जन्ममरणचक्रं सुष्ठुतया उपवर्णितम् । जीवात्मनः एकस्याः योन्याः अन्यां योनिम् इत्येवंविधः प्रवासः पूर्वकर्मानुसारम् अखण्डरुपेण प्रचलति । अस्मात् जन्ममरणचक्रात् मुक्तिः नाम मोक्षः एव हिन्दूनां पुरुषार्थचतुष्टये चतुर्थः पुरुषार्थः । भारते जन्ममरण्चक्रात् मुक्तिः एव जीवनस्य ध्येयं मन्यन्ते सर्वेऽपि जनाः । वैदिक-जैन-बौध्द-महानुभाव-लिङ्गायत-सिखादयः सर्वेऽपि संप्रदायाः पुनर्जन्मनि विश्वसन्ति । केवलं चार्वाकः एव आसीत् यः ‘भस्मीभूतस्य देहस्य पुनरागमनं कुतः’ इत्युक्त्वा पुनर्जन्म निषेधति ।

जपानादयः दक्षिणपूर्वस्थाः देशाः तु भारतीयसंस्कृत्याः संपर्कात् चिरकालं यावत् पुनर्जन्मादिसिध्दान्तेषु शिश्वसन्ति इति तु विश्रुतमेव । तथैव हेगेलः, शोपेनहारः इत्यादयः आङ्ग्लतत्त्ववेत्तारः, ग्रीन्-आदयः पाश्चात्त्याः दार्शनिकाः खिस्तसंप्रदाये जाताः अपि आत्मनः अमरत्वं तथा जन्ममरणचक्रम् इत्यादि –सिध्दान्तानां समर्थकाः सन्ति ।

[सम्पादयतु] खिश्चन-मुस्लिम्-मतानुयायिनां मतस्य चिकित्सा

सर्वे खिश्चन-मुस्लिम्-मतानुयायिनः पुनर्जन्मादिषु सिध्दान्तेषु न विश्वसन्ति इति तु विश्रुतमेव । तेषां मतेन मृत्योः पश्चात् जनाः सज्जनाः दुर्जनाः वा सममेव ‘डूम्स् डे’ अथवा ‘कयामतदिनं’ यावत् न उदियात् तावत्कालपर्यन्तं श्मशानभूमौ एव निखाताः तिष्ठन्ति । एतेषाम् ईश्वरः (गाड् अल्ला वा) कियान् न्यायप्रियः तद् द्रष्टव्यम् । वस्तुतः न्यायदाने विलम्बः नाम न्यायदाननिषेधः एव इति मन्यन्ते न्यायशास्त्रविशारदाः ।

न्यायदानस्य दिवसः (Day of Judgment) एव विनाशवासरः (Dooms Day) इति मन्यन्ते खिस्तानुयायिनः यतः अधिकांशाः जनाः पापं कुर्वाणाः नरकवासमेव अपेक्षन्ते इति प्रतीयते । अपरं च बाइबलग्रन्थे न विश्वसिति स नरके (hell) पतति इति खिस्तानुयायिनः मन्यन्ते । तथैव यः कुराणे न विश्वसति सोऽपि निरय (जहन्नुम ) गामी इति मुसलमानाः मन्यन्ते । तत्र प्रश्नोऽयं मनसि समुद्भवति यत् एतयोः द्वयोः अपि बाइबलकुराणयोः आविर्भावात् पूर्वार्तिनः पितामहप्रपितामहादिपूर्वजाः किं सर्वेऽपि नरकस्यैव अधिकारिणः आसन् ? तत्र इदमपि द्र्ष्टव्यं यत् खिश्चनानां मतेन सर्वे मुसलमानाः एवं मुसलमानानां मतेन सर्वे खिश्चनाः उभयपक्षे सज्जनाः दुर्जनाः अपि सर्वे नरके एव पतेयुः । किम् ईश्वरः एतावान् निष्ठुरः भवितुम अर्हति ? हिन्दूनां मतेन तु एकः एव ईश्वरः विभिन्नसमयेषु विभिन्नरुपैः अवतरति । एवं विभिन्नमतवादिनां प्रार्थनाः अपि यथा वर्षाजलं विभिन्नमार्गैः सागरमेव गच्छति तथा तम् एकमेव ईश्वरं यान्ति । अस्याः मान्यतायाः सत्त्वात् न कोऽपि अनवस्थाप्रसङ्गः समुद्भवति ।

[सम्पादयतु] पूर्वजन्मनः विस्मरणं खलु ईश्वरस्य दयालुतायाः एव प्रमाणम्

केचन वदन्ति वयं पूर्वजन्मनः किमपि स्मरणं कर्तुं न शक्नुमः, अतः पुनर्जन्मनः संकल्पना मिथ्या एव प्रतिभाति । तत्रोच्यते –वस्तुतः वर्तमानेऽपि घटितान् प्रसङ्गान् वयं विस्मरामः । परन्तु तेन ते प्रसङ्गाः नैव घटिताः इति वयं न ब्रूमः । तथैव पूर्वजन्मघटितानि कर्माणि न वयं स्मरामः इत्यतः पुनर्जन्मनः अस्तित्वमेव कथं वयं प्रत्याख्यातुं पारयामः इति विमृशन्तु विपश्चितः । अपरं च ईश्वरस्य दयालुतायाः एव इदं प्रमाणं यद् वयं पूर्वजन्मनः कर्माणि प्रसङ्गान् वा न स्मरामः । एकस्यैव प्राप्तजन्मनः कर्माणि एव असह्यं मनस्तापं जनयन्ति । तेन शरीरे रक्तभारपरिमाणं विवर्धते, हृदयक्रिया प्रभाविता भवति । अप्रियप्रसङ्गानां स्मरणेन मनः शोकाकुलं भवति इति वयं पश्यामः । मनुजजीवने सुखं सर्षपमात्रं दुःखं तु पर्वतप्रायम् । अथ यदि गतजन्मनां सर्वेषां स्मरणं मनःपटले आविर्भवेत् तर्हि का गतिः स्यात् मानवस्य ? अतः ईश्वराय खलु धन्यवादाः समर्पयितव्याः येन गतजन्मनां दुःखानां स्मरणम् अस्मल्ललाटे न लिखितम् ।

[सम्पादयतु] पुनर्जन्मनि विश्वासे अकृते

कृतप्रणाशः एवम् अकृताभ्यागमः इति द्वौ दोषौ समुद्भवतः अस्मिन् जगति वयं पश्यामः यत् कश्चित् बालकः जन्मनः प्रभृति एव धनवान् एवं कश्चित् निर्धनः, कश्चित् स्वास्थ्यसंपन्नः कश्चित् रोगजर्जरितः, कश्चित् बुद्धिमान् कश्चिद् मन्दमातिः, कश्चित् सत्प्रवृत्तः कश्चित् दुष्प्रवृत्तः । अत्र कार्यं परिणामः वा दृष्टिपथम् आयाति, किन्तु कारणं न दृश्यते । तथैव मृत्योः अल्पसमयपूर्वं यदि कश्चित् सत्कर्म अथवा दुष्कर्म करोति तर्हि तस्य शुभम् अशुभं वा फलं स कदा प्राप्स्यति । कार्यकारणभावः तु एकः शाश्वतसिध्दान्तः । यदि कार्यं दृश्यते तर्हि कारणेन भाव्यमेव । तथा यदि कारणं विद्यते तर्हि कार्येण भाव्यमेव । अस्याः समस्यायाः सन्तोषजनकम् उत्तरं हिन्दूनां पुनर्जन्मसिध्दान्तः एव दातुं समर्थः । पूर्वजन्मनि यत् सत्कार्यं कृतं तस्यायं परिणामः यत् अस्मिन् जन्मनि स जन्मनः एव धनवान् वा स्वास्थ्यसंपन्नः वा बुध्दिमान् वा सत्प्रवृत्तः वा भवति । तथैव मृत्योः पूर्वं कृतस्य दुष्कृतस्य परिणामं पुनर्जन्मसिध्दान्तानुसारम् आगामिनि जन्मनि सः अधिगमिष्यति एव । अत एव पुनर्जन्मसिध्दान्तः अनिवार्यतया अनुमन्तव्यः एव भवति ।अन्यथा ‘कृतप्रणाशः’ एवं ‘अकृत्ताभ्यागमः’ इति द्वौ दोषौ उद्भवतः ।कृतप्रणाशः नाम कृतं कर्म व्यर्थं जातम् । ‘अकृताभ्यागमः’ नाम यन्न कृतं तस्य भोगः समुपस्थितः । पुनर्जन्मसिध्दान्तस्य ग्रहणाद् एतद् दोषद्वयं न अवशिष्यते । अपरं च पुनर्जन्मनः प्रत्याख्यानात् एकस्मिन् जन्मनि स्वविकासार्थं कृताः प्रयासाः मृत्युना साकम् अवरुध्दा भवेयुः । यदि कश्चन दुराचरणस्य कारणात् नरके पतिष्यति तर्हि तत्रैव अनन्तकालं यावत् स्थास्यति । स्वस्य दोषपरिमार्जनार्थम् उत्कर्षं साधयितुं वा स अवसरम् एव न लभेत् । नेयम् अन्यायपूर्णा योजना दयाघनस्य ईश्वरस्य भवितुम् अर्हति । तत्र पुनर्जन्मसिध्दान्तग्रहणात् मानवकल्याणदृष्ट्या अनेके लाभाः दृष्टिपथम् आयान्ति । अत्र यदि किमपि कुकर्म क्रियते तर्हि यदि न अस्मिन् जन्मनि परंतु परस्मिन् जन्मनि तु तस्य दुष्परिणामाः अपरिहार्यतया भोक्तव्या एव स्युः इति विश्वासः मनुजं सदाचरणाय प्रेरयति । नीतिमूल्यानां पालनेन समाजः शान्तिं सुखं समाधानं च विन्दति ।

[सम्पादयतु] बाह्यसम्पर्कतन्तुः

"http://sa.wikipedia.org/w/index.php?title=पुनर्जन्म&oldid=191835" इत्यस्माद् उद्धृतम्
वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु