पौराणयवनसंस्कृतिः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
पौराणयवनसंस्कृतिः
पुष्पधानी

पौराणयवनसंस्कृतिः क्रि पू नवमे शतके आरभत। एषाः संस्कृतिः रोमकविजयात् अनन्तरम् नष्टा। पौराणयवनानाम् नगरराज्यशतानि आसन्। तेषु प्रमुखाः एथेन्स्-पुरी स्पार्टापुरी कोरिन्तपुरी च। परं सर्वनगरेषु जनाः एकया एव भाषया व्यवहरन्ति स्म। कानिचन नगराणि गणसङ्घाः आसन्। अन्ये राज्यकाः आसन्। राजकं वृद्धानां सभया निर्देशितः आसीत्। एथेन्स्-पुरी गणसङ्घः आसीत्। स्पार्टापुरी धनिकानाम् गणसङ्घः आसीत्। मकेडोनिया, एपैतरस् तेसली च राज्याणि आसन्। केचन यवनाः कैप्रस्-द्वीपम् इटलीं वा तर्कीं वा गत्वा तत्र नगराणि अस्थापयन्। तेषु सिरक्यूस् बैजान्टियं (इस्तान्बुल्) नेपल्स् च प्रमुखाः। स्पार्टापुर्याः द्वौ राजकौ आस्ताम्। एतन्स्-पुर्याम् अष्टसेनापतयः आसन्। यवननगरेषु दासजनाः सर्वाणि कार्याणि कुर्वन्ति स्म।

[सम्पादयतु] दैनिककर्माणि

एतन्स्-पुर्याः निष्का

कृषकाः क्षेत्रान् कर्षन्ति स्म। सैनिकाः युद्धं कुर्वन्ति स्म। अन्ये जनाः पण्यवीथिकासु राजनीतिं कुर्वन्ति स्म। जनाः नाटकान् अपि अवालोकयन्ति स्म। नाटकाः देवचरिताः आसन्। ललनाः गृहेसु भोजनं पचन्त्य: वयनम् च कुर्वन्ति स्म।

[सम्पादयतु] क्रीडाः

बालकाः अनेकाः क्रीडाः क्रीडन्ति स्म।

[सम्पादयतु] धर्मः

यवनाः अनेकान् देवान् देवी: च पूजयन्ति स्म। तेषाम् राजा नभदेवः ज्यूस् आसीत्। अस्य पत्नी हेरा विवाहस्य देवी आसीत्। यवनाः 'देवाः ओलिम्पस् पर्वते वसन्ति' इति अमन्यन्त। ते देवेभ्यः अनेकानि मन्दिराणि निर्मितवन्तः।

पार्तेनोन् बुद्धिदेव्याः एतेनायाः मन्दिरम्
वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु