प्रियङ्गुः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्


अयं प्रियङ्गुः भारते वर्धमानः कश्चन धान्यविशेषः । अयं सस्यजन्यः आहारपदार्थः । अयं प्रियङ्गुः आङ्ग्लभाषायां Foxtail millet इति उच्यते । चतुर्विधाः प्रियङ्गवः सन्ति । श्वेतप्रियङ्गुः, पीतप्रियङ्गुः, कृष्णप्रियङ्गुः, रक्तप्रियङ्गुः च इति । पूर्वं भारते प्रियङ्गुः प्रतिदिनं गृहेषु आहारत्वेन उपयुज्यते स्म । इदानीम् अपि कुत्रचित् तथैव अस्ति । प्रियङ्गुना निर्मिता रोटिका अत्यन्तं रुचिकरी भवति । अस्य बहूनि नामानि सन्ति – कङ्गुकः, चीनकः, पीततण्डुलः, अस्थिसम्बन्धनः, कङ्गनी इत्यादीनि ।

सस्याग्रे शुष्कं प्रियङ्गुधान्यम्


आयुर्वेदस्य अनुसारम् अस्य प्रियङ्गोः स्वभावः[सम्पादयतु]

प्रियङ्गुसस्यम्

एषः प्रियङ्गुः लघ्वाकारकः , मृदुः च । अयं मधुररुचियुक्तः, रुचिकरः, कषायमिश्रितमधुरः च ।


“प्रियङ्गुर्मधुरो रुच्यः कषायः स्वादु शीतलः ।
वातकृत् पित्तदाहघ्नो रूक्षो भग्नास्थिबन्धकृत् ॥“

संक्षिप्तचिकित्सासूची[सम्पादयतु]

१. अयं प्रियङ्गुः रूक्षः, पित्तं, ज्वलनं च शमयति ।
२. प्रियङ्गुः वातकरः, रुचिम् उत्पादयति अपि ।
३. प्रियङ्गुः भग्नानि अस्थीनि योजयति ।
४. महान् प्रियङ्गुः “वरकः” इति उच्यते । अयम् अपि लघु प्रियङ्गुः इव दाहघ्नः ।
५. प्रसवस्य समये प्रसववेदानां न्यूनीकर्तुं प्रियङ्गुना यवागूं सज्जीकृत्य दीयते ।
६. आमपातस्य स्थाने उष्णस्य प्रियङ्गोः लेपः क्रियते ।
७. अस्थिभङ्गः जातः चेत प्रियङ्गुना निर्मितम् अन्नम् एव भोजनार्थं दीयते ।
८. भग्नम् अस्थि योजयितम् अपि यत् ग्राम्यम् औषधं क्रियते तदवसरे प्रियङ्गुम् अपि अस्थिभङ्गस्थाने बध्नन्ति ।
९. समुद्रस्तरस्य अपेक्षया ६००० पादमिते उन्नते स्थाने प्रियङ्गुः सम्यक् वर्धते ।
१०. अयं प्रियङ्गुः १०० दिनेषु वर्धते । प्रायः भारतस्य सर्वेषु अपि प्रान्तेषु प्रियङ्गुः वर्धते ।‎
"http://sa.wikipedia.org/w/index.php?title=प्रियङ्गुः&oldid=271141" इत्यस्माद् पुनः प्राप्तिः