भारतीय-प्रीमियर् लीग्
भारतीय-प्रीमियर् लीग् | |
---|---|
इन्डियन् प्रीमियर् लीग् लाञ्छनम् | |
Countries | भारतम् |
Administrator | बि सि सि ऐ |
Format | ट्व्वेन्टि २० |
First tournament | 2008 |
Last tournament | Current |
Next tournament | 2013 |
Tournament format | Double round-robin and Knockout |
Number of teams | 9 |
Current champion | चेन्नै सूपर् किङ्ग्स् |
Most successful | चेन्नै सूपर् किङ्ग्स् (2 titles) |
Qualification | Twenty20 Champions League |
Most runs |
सुरेश रैना (1925, चेन्नै सूपर् किङ्ग्स्)[१] |
Most wickets |
Lasith Malinga (74, मुम्बै इण्डियन्स्)[२] |
Website | IPLT20.com |
२०१२ इन्डियन् प्रीमियर् लीग् | |
इन्डियन् प्रीमियर् लीग् अथवा ऐ पि ल् भारतीयक्रिकेट्समित्या २० षट्कनां क्रीडास्पर्धा । एतच्च सम्पूर्णं वृत्तिनिरतानां कृते एव वर्तते । अस्यां क्रीडास्पर्धायां ९ गणानि सन्ति ।. अत्र च विदेशीयक्रीडापटवः अपि भवन्ति । इयं च स्पर्धा २००८ तमे वर्षे आरब्धा । स्पर्धा च भारतीयक्रिकेट्समित्या आयोज्यते । प्रस्तुतं इमां स्पर्धां भारतीयक्रिकेट्समितिः आयोजयति । तत्रापि भारतीयक्रिकेट्समित्याः उपाध्यक्षः राजीवशुक्ला निर्वहन् अस्ति । एषः सद्यः ऐ पि ल् स्पर्धासमित्याः अध्यक्षः वर्तते । अत्र च ये गणानां प्रायोजकत्त्वं स्वीकुर्वन्ति ते एव तस्य गणस्य रायभारिणः भवन्ति ।
गणाः
[सम्पादयतु]चेन्नै सूपर् किङ्ग्स्
[सम्पादयतु]चेन्नै सूपर् किङ्ग्स् चेन्नैमध्ये निवास्यमानः एकः भारतीयप्रीमियर् लीग् गणः । एतस्य गणस्य नायकः महेन्द्रसिम्ह धोनी वर्तते । एतस्य गणस्य प्रशिक्षकः स्टीफ़न् फ़्लेमिङ्ग् विद्यते । एतावता भारतीयप्रीमियर् लीग् आवृत्तिचतुष्टयं समापितवत् वर्तते । तत्र च चेन्नै सूपर् किङ्ग्स् गणस्य द्विवारं जयः अभूत् ।
मुम्बै इण्डियन्स्
[सम्पादयतु]मुम्बै इण्डियन्स् गणः भारतीयप्रीमियर् लीग् मध्ये अन्यतमः वर्तते । एषः गणः मुम्बै नगरस्य प्रातिनिध्यं वहति । हर्भजनसिंहः एतस्य गणस्य नायकः । सचिनतेण्डुलकरः एतस्य गणस्य अत्युत्तमक्रीडालुः वर्तते ।
रायल् चालेञ्जर्स्
[सम्पादयतु]रायल् चालेञ्जर्स् गणः बेङ्गळूरुनगरं प्रतिनिधत्ते । एषोऽपि गणः भारतीय-प्रीमियर् लीग् मध्ये अन्यतमः । एतस्य गणस्य स्वामी विजयमल्यः वर्तते । गणस्यास्य नेता डेनियल् वेटोरि विद्यते । क्रिस् गेय्ल् अस्य गणस्य प्रमुखक्रीडालुः विद्यते ।
डेक्कन् चार्जर्स्
[सम्पादयतु]डेक्कन् चार्जर्स् इति एषः गणः भारतीयप्रीमियर् लीग् मध्ये अन्यतमः वर्तते । एषः गणः हैदराबाद् नगरं प्रातिनिधत्ते । टि वेङ्कटरेड्डी एतस्य गणस्य निर्वाहकः वर्तते । एषः डेक्कन् क्रोनिकल् समूहसंस्थायाः प्रमुखः । कुमार सङ्गकारः गणस्यास्य नेता विद्यते ।
डेल्ली डेर्डेविल्स्
[सम्पादयतु]डेल्ली डेर्डेविल्स् इत्येषः गणः भारतीयप्रीमियर् लीग् मध्ये अन्यतमः वर्तते । एषः गणः देहली नगरं प्रातिनिधत्ते । गौतमगम्भीरः एतस्य गणस्य नायकः । ग्रन्धी मल्लिकार्जुनराव् एतस्य गणस्य निर्वाहकः वर्तते । एषः जि एम् आर् संस्था प्रमुखः ।
कोल्कत्ता नैट् रैडर्स्
[सम्पादयतु]कोल्कत्ता नैट् रैडर्स् इत्येषः गणः भारतीयप्रीमियर् लीग् मध्ये अन्यतमः वर्तते । एषः गणः कोल्कत्ता नगरं प्रातिनिधत्ते । गौतमगम्भीरः एतस्य गणस्य नायकः । शाह् रूख् खान् अपि च जूही चाव्ला एतस्य गणस्य निर्वाहकौ स्तः ।
किङ्ग्स् ११ पञ्जाबः
[सम्पादयतु]किङ्ग्स् ११ पञ्जाबः इत्येषः गणः भारतीयप्रीमियर् लीग् मध्ये अन्यतमः वर्तते । एषः गणः मोहाली नगरं प्रातिनिधत्ते । आडं गिल्क्रिस्ट् एतस्य गणस्य नायकः । नेस् वाडिया, प्रीति ज़िन्टा एतस्य गणस्य निर्वाहकौ स्तः ।
प्रायोजकाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- ↑ "Indian Premier League / Records / Most runs". Cricinfo.
- ↑ "Indian Premier League / Records / Most wickets". Cricinfo.