भौतिकशास्त्रम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
भौतिकशास्त्रप्रपञ्चस्य स्थूलपरिचयः

भौतिकशास्त्रम् प्राकृतिकशास्त्रेएकशाखा अस्ति यः पदार्थं सम्बन्धि अध्ययनं करोति ।

भौतिकशास्त्रम् इति यत् शास्त्रम् अस्माभिः आधुनिक विज्ञाने पठ्यते तच्च शास्त्रं वेदकालादारभ्य प्रवृत्तम् दृश्यते ।

ऊर्जसंरक्षणनियमः, अणुसिध्दान्तः, द्रव्यनिर्माणम् इत्यादयः विषयाः प्रधानतया भारते प्रसृताः दृश्यन्ते | शब्दस्य प्रकाशस्य च गतिः स्वभावादयश्च न्यायवैशेषिकमीमांसादिषु चर्चाविषयाः जाताः दृश्यन्ते | शब्दः वायौ प्रचयम् अपचयं च निर्माय सञ्चरति | तरङ्गरूपस्य प्रतिफलनम् अपि चर्चितम् अस्ति | प्रकाशस्य प्रतिफलनम्, अपभ्रंशः इत्यादयः विषयाः तर्कशास्त्रे दृश्यन्ते | एते विषयाः वात्स्यायनभाष्ये रश्मिपरावर्तनशब्देन निर्दिष्टाः | प्रकाशवेगः, द्वैतस्वभाव इत्यादयः क्रिस्तीयनवमशतके जातेन आचार्यवाचस्पतिमिश्रेण विरचितायां तात्पर्यटीकायां प्रतिपादिताः | एते च विषयाः पाश्चात्यपण्डितैः सप्तदशे शतके ज्ञाताः | क्वाण्टम्-सिध्दान्तम् अधिकृत्य अपि उपनिषत्सु चर्चा कृता दृश्यते |

सायणाचार्यः प्रकाशस्य वेगम् एवं प्रतिपादयति-

योजनानां सहस्रे द्वे द्वे शते द्वे च योजने |
एकेन निमिषार्धेन क्रममाणाय नमोस्तु ते || इति ||

अस्य व्याख्याने प्रकाशवेगः ६४००० क्रोशमितः (१८५००० मैल् परिमितः) इति उक्तम् अस्ति | आधुनिकाः च प्रकाशवेगं १८६२०२.३९६० मैल् मितं वदन्ति |

Light shining2.JPG

ऊर्जं पिण्डस्य आनुपातिकम् अस्ति ("E=mc2")इति ऐन्स्टिन्महोदयस्य सिद्धान्त: इति वादः श्रूयते | "त्वाष्टृयन्त्रभ्रमिभ्रान्तमार्तण्डज्योतिरुज्ज्वलः " इति भवभूतेः प्रयोगः। विश्वकर्मणः पुत्री संज्ञा सुर्यवधूः जाता | किन्तु सूर्यस्य अधिकतेजसा पीड्यमानया संज्ञया पिता बोधितः | सः पिता सूर्यं त्वाष्टृयन्त्रम् आरोप्य ऊर्जन्यूनतां चकार इति पुराणकथा | ऊर्जपिण्डबन्धनं निरूपयति एषा कथा |

एकदा "सयन्स् टुडे" नामिकायां पत्रिकायां प्रकाशितम् ऐन्स्टिन् महाशयस्य वाक्यम् अत्र स्मरणीयम् । तत् एवं अस्ति -

आधाराः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=भौतिकशास्त्रम्&oldid=272780" इत्यस्माद् पुनः प्राप्तिः