मार्टिन् लूथर् किङ्ग् (ज्यू)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मार्टिन् लूथर् किङ्ग्

मार्टिन् लूथर् किङ्ग् (Martin Luther King, Jr.) अमेरिकादेशस्य महान् नायकः आसीत् । अमेरिकादेशे वर्णभेदसमस्या आसीत् । अस्य भेदस्य विरुद्धम् आन्दोलनं कृतवान् । आफ्रिकातः निग्रोजनाः अमेरिकां प्रति आनीताः आसन् । आफ्रिकन् अमेरिकाप्रजाः इति एतान् सम्भोदयन्ति स्म । अमेरिकादेशस्य द्वितीयवर्गस्य जनाः एते इति उद्घोषणम् अभवत् । वर्णभेदम् असहमानः विरोधी आन्दोलनं कृतवान् ।

बाल्यम्[सम्पादयतु]

मार्टिन् लूथर् किङ्ग् अमेरिकादेशस्य अट्लाण्टनगरे धार्मिककुटुम्बे १९२९ जनेवरि १५ दिनाङ्के अजायत । अस्य पिता किङ्ग् सीनियर्, माता 'आल्बर्ट विलियम्स् । पूर्वं अस्य नाम 'मैकेल् किङ्ग्' आसीत् । अस्य षष्टेवयसि मार्टिन् लूथर् किङ्ग् इति नामकरणम् अकरोत् । अस्मिन् समये याङ्ग् स्ट्रीट् एलिमेण्टरि शालायाम् अध्ययनं कुर्वन् आसीत् । अस्य द्वादशे वयसि मातामहि जेन्नि विलियम्स् मृतवति । अस्याः मरणम्, अस्य उपरि मानसिक परिणामः सञ्जातः । अत्महत्या यत्नमपि बहुवारं कृतवान् अनेनैव कारणेन । कालान्तरे मानसिकप्रबलः सञ्जातः । मार्टिन् श्वेतकृष्णवर्णीयजनयोः भेदं ज्ञातवान् ।

अध्ययनम्[सम्पादयतु]

मार्टिन् लूथर् किङ्ग् प्राथमिकाध्ययनं याङ्ग् स्ट्रीट् एलिमेण्टरि शालायाम् कृतवान् । शालासु अपि वर्णभेदेन व्यवस्था पृथक् पृथक् कृतमासीत् । अयं कृष्णवर्णियेभ्यः कल्पितशालायाम् अध्ययनं करोति स्म । समनन्तरम् अट्लाण्ट युनिवर्सिटि ल्याबरेटरि शालायां पठितवान् । तथैव बुकर् टि वाषिङ्गटन् शालायामपि पठितवान् । अत्र अधिकाङ्कान् प्राप्तवान् । अतः मार्टिन् लूथर् किङ्ग् मोर् हौस् कलाशालायां प्रवेशं प्राप्तवान् । तदा पञ्चदशवर्षीयः आसीत् । १९४८ तमे वर्षे पदवीधरः सञ्जातः । पेन्सिल्वेनिय विश्वविद्यालये यदा अध्ययननिरतः आसीत् तदा माहात्मा गन्धिवर्यस्य विषये अध्ययनं कृत्वा, अस्य अनुयातः सञ्जातः । १९५१ तमे वर्षे विद्यार्थिसङ्घस्य अध्यक्षः सञ्जातः । बिद्धिमान् विध्यार्थिः इति पेरल् प्लाफ्कनर् पुरस्कारं प्राप्तवान् । स्वाभीष्टे विश्वविद्यालये अध्ययनं कर्तुं शक्यत इति "जे लेविस् क्रोजर् फेलोषिप्” प्राप्तवान् । बास्टन् विश्वविद्यालयात् तत्वशास्त्रे डाक्टरेट् उपाधिं प्राप्तवान् । "ए कम्पारिसन् आफ् दि कन्सक्षन्स आफ् गाड इन् दि थिङ्किङ्ग् आफ् पाल् तिरिश् आण्ड हेन्रिनेल्सन् वीमन्” इत्यस्मिन् विषये प्रबन्धमेकं समर्प्य, पि.एच्.डि पदवीं प्राप्तवान् ।

वैय्यक्तिकजीवनम्[सम्पादयतु]

मार्टिन् लूथर् किङ्ग्वर्यस्य भाषणम्

मार्टिन् लूथर् किङ्ग् गृहस्य सम्प्रदये बद्धः आसीत् । गृहसम्प्रदायानुसारेण अलबामस्य डेक्सटर् अवेन्यू बाप्टिस् क्रैस्तदेवलयस्य धर्मगुरुः सञ्जातः । येसु बोधितेषु सिद्धान्तेषु बद्धदरः आसीत् । मार्टिन् लूथर् किङ्ग् जून्मासस्य १९५३ तमे वर्षे कारेट्टा नाम्नीं कन्यां परिणीतवान् । दम्पत्योः चत्वारि सन्तानानि आसन् । "स्ट्रैड् टुवर्ड फ्रीडम्” नामकपुस्तकं रचितवान् । सुप्रसिद्धं जनप्रियञ्च जातमिदम् । अगष्टमासस्य २८ तमे दिनाङ्के १९६३ तमे वर्षे वाषिङ्ग्टन् नगरे "आए ह्याव् ए ड्रीम्” इति भाषणं कृतवान् आसीत् । इदं भाषणं विश्वविख्यातं जातम् । तस्यां सभायां २ लक्ष्याधिकाः जनाः आसन् इति ।

वर्णभेदान्दोलनम्[सम्पादयतु]

वाषिङ्ग्टन् नगरे लिङ्कन् स्मारकस्य पुरतः आन्दोलनम्

अमेरिकादेशे वर्णभेदसमस्या आसीत् । अस्य भेदस्य विरुद्धम् आन्दोलनं कृतवान् । आफ्रिकातः निग्रोजनाः अमेरिकां प्रति आनीताः आसन् । आफ्रिकन् अमेरिकाप्रजाः इति एतान् सम्भोदयन्ति स्म । अमेरिकादेशस्य द्वितीयवर्गस्य जनाः एते इति उद्घोषणम् अभवत् । वर्णभेदम् असहमानः विरोधी आन्दोलनं कृतवान् । १९५४ तमे वर्षे किङ्गवर्णजानानां राष्ट्रीय सङ्घस्य कार्यकारिसमितेः सदस्यः आसीत् । कालान्तरे माण्टेगोमरि इम्प्रूमेण्ट् असोसियेषन् नामकस्य सङ्घस्य अध्यक्षः आसीत् । अनेन आन्दोलनं कर्तुं सुव्यवस्थितः मार्गः कल्पितः । अस्य भाषणश्रवणेन प्रभाविताः भवन्ति स्म जनाः । तत्र तत्र आदेशे वर्णभेदस्य विरोधः आरब्धः । अनेन कारणेन जनवरिमासस्य २६तमे दिनाङ्के १९५६ तमे वर्षे आरक्षकैः बद्धः आसीत् । बस्सयानादिषु वर्णभेदः आसीत् । कृष्णवर्णीयाः बहुकलहादिकं कृत्वा न्यायालये अभियोगं स्थापितवन्तः । न्यायालये जयमपि प्राप्तवन्तः । तेन जनाः इतोऽपि सबलाः सञ्जाताः । किङ्गवर्यस्य जनाः वर्णभेदान्दोलने बहु सहय्यमाचरितवन्तः । १९५७ तमे संवत्सरे किङ्ग सदर्नक्रिश्चियन् लीडर् षिप् कान्षरेन्स (SCLC)सङ्घस्य अध्यक्षः जातः । वर्णभेदस्य विरोधं ३७००० जनैः सह किङ्ग् वाषिङ्ग्टन् नगरे लिङ्कन् स्मारकस्य पुरतः प्रदर्शनं कृतवान् । अनेन जनाः प्रभाविताः आसन् । १९६० तमे वर्षे अमेरिका देशे चर्चास्पदः विषयः आसीत् । कालान्तरे वर्णभेदस्य विरुद्धं कृतान्दोलने विजयमपि प्राप्तवान् ।

पुरस्काराः[सम्पादयतु]

  • १९५७ तमे संवत्सरे NAACP पक्षतः स्पिङ्गम् पदकं प्राप्तवान् ।
  • १९६४ तमे वर्षे नोबेल् पुरस्कारं प्राप्तवान्।
  • १९६५ तमे संवत्सरे "अमेरिकन् लिबारिटि पदकं प्राप्तवान् ।
  • १९६६ तमे संवत्सरे मार्गरेट् स्याङ्गर् पुरस्कारं प्राप्तवान् ।
  • १९६८ तमे संवत्सरे मरणोतरं नेहरु अन्ताराष्ट्रीय पुरस्कारं प्राप्तवान् ।
  • १९७१ तमे संवत्सरे ग्राम्मि पुरस्कारं प्राप्तवान् ।
  • १९७७ तमे संवत्सरे जम्मिकार्टर् स्वातन्त्र्यस्य राष्ट्रपतिपदकं प्राप्तवान् ।
  • २००० "शतमानस्य पुरुषः” इति पुरस्कारं प्राप्तवान् ।
  • २००४ तमे संवत्सरे काङ्ग्रेषनल् सुवर्णपदकं धर्मपत्नी सहितः प्राप्तवान् ।

मरणम्[सम्पादयतु]

१९६४ तमे वर्षे अतीवास्वस्थः जातः। कालान्तरे जेम्स् आर्लरे नामकः भूशुण्डी सहायेन मारितवान् । अमेरिकादेशे सपक्षीयाः जनाः बहु विरोधं कृतवन्तः । आराष्ट्रे कोलाहलः आसीत् । ४० अधिकाः जनाः मृतवन्तः अस्मिन् कोलाहले । २०००० अधिकान् जनान् बन्धितवन्तः आरक्षकाः । एप्रिल्मासस्य ९ मे दिनाङ्के एबेनिजर्प्रदेशे मार्टिन् लूथर् किङ्ग् –वर्यस्य शवयात्रा कृता । लक्षाधिकाः जनाः अस्मिन् शवयात्रायां भागं गृहीतवन्तः आसन् । प्रतिवर्षं जनेवरि मासस्य तृतीयसोमवासरे "किङ्ग् डे” इति आचरणं कुर्वन्ति, विरामश्च भवति।

बाह्यानुबन्धः[सम्पादयतु]

Speeches and interviews

[