मुकुन्दशतकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

रामपाणिवादविरचितस्य मुकुन्दशतकस्य (Mukundashatakam) द्वौ पाठौ वर्तेते । द्वावपि पाठौ केरलसर्वकलाशालातः १९४६ तमे संवत्सरे प्रसिद्धीकृतौ । स्वस्य विष्णुविलासस्य मुकुन्दशतकस्य च मिथः सादृश्यं बह्वत्र दृश्यते। एकः दृष्टान्तः अधः दीयते -

       विष्णुविलासः                                                          

निघ्नत्याजुष्टतीर्थे हलुनि मुनिगिरा वल्कलं दानवं द्रागायातं वित्तपादप्युरुधनमकरोत्साधुशीलं कुचेलम् । देवक्यै दर्शयामासिथ षडपि सुतानादितः कंसभग्नान् धन्यावन्वग्रहीत्तौ हरिरथ बहुलाश्वं च कञ्चित् द्विजं च ।।

        मुकुन्दशतकम्

निघ्नत्याजुष्टतीर्थे हलुनि मुनिमुदे वल्कलं त्वत्कलायामायातं वित्तपादप्युरुधनमकृथास्साधुशीलं कुचेलम् । देवक्यै दर्शयामासिथ षडपि सुतानादितः कंसभग्नान् धन्यावन्वग्रहीस्त्वं द्विजवरनृवरौ भक्तितो मुक्तिमादाः ।।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मुकुन्दशतकम्&oldid=409578" इत्यस्माद् प्रतिप्राप्तम्