मुक्ता

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
मुक्ताः

हस्ती, सर्पः, शुक्तिः (प्राणिविशेषः), शङ्खः (प्राणी), मेघः, वेणुः, तिमिः (मत्स्यविशेषः), सूकरः एभ्यः मुक्ताफलानि उत्पद्यन्ते । सिंहलः (Ceylone) परलोकः (Foreign Countries) सुराष्ट्रकः (Gujarat) ताम्रपर्णी (नदी) पारशवः (May be Persia) कौबेरः उत्तरदेशः एतेषु देशेषु तेषां सम्भवः ।

मुक्ताः बहुविधाकाराः । निर्मलाः, स्थूलाः, ईषत्ताम्राः, शुक्राश्च ताम्रपर्णीभवाः । कृष्णाः, श्वेताः, पीताः, सशर्कराः (धातुयुक्ताः) पारलौकिकाः । नातिस्थूलाः, नातिसूक्ष्माः, नवनीतनिभाः, सौराष्ट्रकाः । तेजोयुक्ताः, शुभ्राः, गुरवः, महागुणाः, पारशवाः । लघवः, जर्जराः, दधिनिभाः, बृहत्यः, विस्तीर्णाः, द्विसंस्थानाः हिमवत्प्रभवाः । असमाः, कृष्णश्वेताः, लघवः, महाकायाः, निम्बफलसदृशाः, त्रिपुटाः, धान्याकफलसदृशाः, अतिसूक्ष्मचूर्णाः पाण्ड्यवाटभवाः ।

अथ प्राण्यादिभवा मुक्ताः[सम्पादयतु]

गजमुक्ताः - हस्तिनां सरदकोशेषु जायन्ते । वराहमुक्ताः तिमिमुक्ताश्च, तेषां प्राणिनां दंष्ट्रामूलोद्भवाः । अत्र संशयः - एतेषां रददंष्ट्रादीन्यासाद्य कलाकुशलैरेव मुक्ताः क्रियन्त इति वेति । अयम् अभिप्रायः न स्वरसः । तथा कल्पितासु मुक्तासु तरलत्वापादनाशक्यत्वात् । किन्तु, पूर्वोक्तप्राणिनः यदा मृताः भूमौ निक्षिप्ताश्च, तेषां वा, पूर्वयुगस्थतादृशप्राणिनां वा रदादिभागाः अन्तस्थाग्निना जर्जरीकृताः मुक्तारूपम् आसाद्य पूर्वोक्तपञ्चमहाभूतकार्यात् तरलत्वमापन्नाः मुक्ता भवन्तीत्युत्प्रेक्षा स्वरसा सहेतुका च भवति ।

अभ्रजाः मुक्ताः सप्तमाद्वायुस्कन्धात् वर्षोपलवत् कुत्रचिञ्जायन्ते । नागजाः रजतमये अवनिप्रदेशे फणस्यान्ते नीलद्युतयः यदा भवन्ति तदा अकस्मात् वर्षो भवेच्चेत् नागजाः मुक्ताः प्रादुर्भवन्तीति ज्ञायते । वेणुजाः मुक्ताः कर्पूरस्फटिकनिभाः । शशिनिभाः परिवर्तुलाः रुचिराः तेजस्विनः शङ्कजाः मुक्ताः । शास्त्रान्तरेषु यथा - कुक्कुटाण्डसमं वृत्तं निबिडं गुरु घनजं भानुसङ्काशं मौक्तिकं देवयोग्यं भवति । काम्भोजकुम्भसम्भूतं धात्रीफलसमं वर्षोपलसमं दीप्त्या पाञ्चजन्यकुलोद्भवं कपोताण्डप्रमाणम् ।

अम्बुधेर्मध्ये सिंहले च आर वाटके पारसीके बर्बरे च शुक्तिजं मुक्ताफलं भवति ।

रवौ स्वात्यां स्थिते मेघैः ये जलबिन्दवः मुक्ताः ते शुक्तिभिः गीर्णा मुक्ता जायन्ते । रुक्मिण्याख्यशुक्तिजातं मौक्तिकं निर्मले कुङ्कुमच्छायं जातीफलसमं भवति । सिंहलोद्भवं सुस्निग्धं मधुरच्छायम् । आर वाटजं सुनिर्मलं पीतच्छायम् । पारसीकोद्भवं सितं स्वच्छम् । बर्बरोद्भवं रूक्षम् ईषच्छायम् ।

मुक्तानां दशदोषाः - शुक्तिलग्नः - मत्स्याक्षः - जठरम् - विद्रुमच्छायम् - अतिरक्तम् - त्रिवृत्तम् - पर्पटम् - त्र्यश्रम् - दीर्घम् - खण्डांशं - कुशपार्श्वं चेति ।
पीता-मधुरा-सिता-नीला चेति चतुर्धा भवति मौक्तिकच्छाया ।

मुक्ताहरणम्[सम्पादयतु]

राजा - मौक्तिकानां समुत्पत्तिः स्थाने स्थाने महोदधौ । तानि स्थानानि संरक्षेदाहरेच्च ततो धनम् ॥ वेलापूरेषु सर्वेषु समीपस्थेषु वारिधेः । रक्षां विधाय यत्नेन राज्ञा सम्पदमिच्छुना ॥ निजवेलातटस्थानां पोतवाहनकर्मणाम् । पोते प्रत्यागते तस्माद्दशमांशं हरेन्नृपः - इति मुक्ताधनेभ्यः राजादायोऽपि सूचितः ॥

"http://sa.wikipedia.org/w/index.php?title=मुक्ता&oldid=232439" इत्यस्माद् पुनः प्राप्तिः