राजशिम्बी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
निष्पावबीजानि

भारते वर्धमानः कश्चन धान्यविशेषः निष्पावः । निष्पावः अपि सस्यजन्यः आहारपदार्थः । अयं निष्पावः आङ्ग्लभाषायां Hyacinth bean इति उच्यते । अयं निष्पावः अत्यन्तं प्रोटीनयुक्तः आहारपदार्थः । अस्य राजशिम्बी, वल्लकं, श्वेतशिम्बिकं, मुखप्रिया इत्यादीनि नामानि सन्ति । सस्यशास्त्रज्ञाः Lablab vulgaris इति वदन्ति निष्पावम् । अनेन क्वथितम्, उपमा, पौलिः, तण्डुलपिष्टेन सह योजयित्वा रोटिकां च निर्मान्ति भारते ।

आयुर्वेदस्य अनुसारम् अस्य निष्पावस्य स्वभावः[सम्पादयतु]

निष्पावः किञ्चिन्मात्रेण मधुरः, किञ्चिन्मात्रेण कषायः च । एषः शरीरं शुष्कीकरोति । शीघ्रं पचनं न भवति । मलमूत्रयोः अवरोधं करोति । जीर्णानन्तरम् अपि आम्लस्य परिणामं जनयति । गुणे उष्णः, अत्यन्तं वातकरः च । यद्यपि निष्पावः बलवर्धकः, पुष्टिवर्धकः च तथापि ज्वलनम् उत्पादयति । शैत्यकाले एव सामान्यतया वर्धते निष्पावः ।

निष्पावसस्यम्


“निष्पावो मधुरो रूक्षो विपाकेऽम्लगुरुः सरः ।
कषायः स्तन्यपित्तास्रमूत्रवातविबन्धकृत् ॥
विदाह्युष्णोविषश्लेष्मशोथहृत्शुक्रनाशनः ॥“ (भा.प्र)
१. निष्पावः शरीरं शुष्कीकरोति इति कारणात् तस्य पक्वकरणावसरे किञ्चित् प्रमाणेन तैलं योजनीयम् । अथवा प्रथमं तैलेन भर्जयित्वा अनन्तरं पक्वकरणम् अपि शक्यते ।
२. निष्पावः यद्यपि पुष्टिदायकः तथापि शीघ्रं जीर्णं न भवति । जीर्णशक्तिः न्यूना अस्ति चेत् अजीर्णं भवति । तस्मात् वातप्रकोपाः, शरीरवेदना, जाड्यं च सञ्जायते ।
३. निष्पावः प्रसूतिकानां (शिशुवत्यः) हानिकारकः ।
निष्पावशलाटुः
४. “रक्तनिष्पावः” पुष्टिदायकः, जडः, शीतकारकः च । उदरबाधाम् उत्पादयति ।
५. “नदीनिष्पावः” (नद्याः तीरे वर्धितः) किञ्चिन्मात्रेण तिक्तः, कटुयुक्तः च । सः कफं वर्धयति ।
६. निष्पावः रक्तदोषं जनयति इत्यस्मात् चर्मरोगिणः न खादेयुः ।
७. निष्पावेन निर्मितानाम् आहाराणां हिङ्गुव्याघरणं भवेत् । तदा वातनिवारणं भवति ।
८. वृष्टिकाले निष्पावस्य उपयोगः निषिद्धः । शैत्यकाले प्रमाणं ज्ञात्वा सेवनीयः ।‎
"https://sa.wikipedia.org/w/index.php?title=राजशिम्बी&oldid=432040" इत्यस्माद् प्रतिप्राप्तम्