हिङ्गु

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
हिङ्गु /Asafoetida
Ferula scorodosma syn. assa-foetida
Ferula scorodosma syn. assa-foetida
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Asterids
गणः Apiales
कुलम् Apiaceae
वंशः Ferula
जातिः F. assa-foetida
द्विपदनाम
Ferula assa-foetida
L.

अयम् अपि आहारपदार्थः भारते अधिकप्रमाणेन उपयुज्यते । एतत् हिङ्गु आङ्ग्लभाषायां Devils Dung इति उच्यते । अस्य वैज्ञानिकं नाम अस्ति Ferula marthe इति । भारतस्य पाकशालायां प्रमुखं स्थानं वहति हिङ्गु । सर्वस्य कटुयुक्तस्य अपि पाकस्य सज्जीकरणस्य अनन्तरं हिङ्गु स्थापयित्वा व्यागरणं क्रियते चेत् एव पाकः समाप्तः, सेवनार्थं सिद्धः इति अर्थः । तथा प्रसिद्धम् अस्ति भारते हिङ्गु । हिङ्गुसस्यं बहूनि वर्षाणि जीवति । इदं ५-७ पादपरिमितं उन्नतं भवति । अस्य लघूनि पीतपुष्पाणि भवन्ति । अस्य काण्डस्य, मूनस्य च व्रणं कुर्वन्ति चेत् यः रसः द्रवति सः एव हिङ्गु इति कथ्यते । सामान्यतः वसन्तऋतौ सस्यस्य मूलस्य उपरि विद्यमानं त्वचं विदारयन्ति, तत्र सञ्चितं निर्यासं पृथक् कृत्वा पुनः तथैव व्रणं कुर्वन्ति ।

प्राप्तिस्थानम्[सम्पादयतु]

पार्सि, बल्स्, बलचिस्थानं इत्यादिषु देशेषु उपर्युक्तरीत्या हिङ्गुसंग्रहं कुर्वन्ति । काबूल, आफधानिस्थानं, काश्मीरम् इत्यादिषु प्रदेशेषु सस्यमेव लघुखण्डाशः कर्तयित्वा ततः निर्यासं संगृह्णन्ति । अस्मिन् हिङ्गनि अपमिश्रणमपि भवितुम् अर्हति । अतः तत् शुद्धीकर्तुं जले सांस्थाप्य द्रावणीयम् । तदा शुद्धं हिङ्गु अधः तिष्ठति । परन्तु एतादृश हिङ्गुनः गन्धः, रुचिः च उत्कृष्टः न भवति ।

हिंगुनि विद्यमानाः अंशाः[सम्पादयतु]

शलः ४०-६४% निर्यासः २५% उडनशिलतैलम् -१०-१७% राख .१-१०% च भवति । अस्मिन् प्रधानतया एसारेसिनो टैनोल् स्वतन्त्रतया, फेरुलिक् आसिडेन सह मिश्रितं सत् अपि उपलभ्यते । हिङ्गुनः विशिष्टगन्धस्य तस्मिन् विद्यमान् दैसल्फेट् कारणम् आयुर्वेदानुसारं हिङ्गुनि लुघु-स्निग्ध-तीक्ष्णगुणाः सन्ति । इदं कटु, उष्णवीर्योपेतं च वर्तते । इदं हिङ्गुसस्यं ५’ – ८’ यावत् वर्धते । अस्य हिङ्गुसस्यस्य पर्णानि १” – २” यावत् दीर्घाणि भवन्ति । अस्य सस्यस्य मूलं यदा उत्कीर्यते तदा किञ्चन निर्याससदृशं द्रवं स्रवति । तदेव अस्माकम् आहारे उपयुज्यमानं हिङ्गु । वसन्तऋतौ सङ्गृहीतं हिङ्गु अत्यन्तम् उत्तमगुणयुक्तं हिङ्गु । अस्मिन् गन्धकयुक्तं वोलोटैल् आयिल्, फेरोलिक् आसिड् म्यालिक्, असिटक्, फार्मिक् तथा लारिनिक् आसिड् अंशाः भवन्ति । इदं हिङ्गु यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते ।

इतरभाषाभिः अस्य हिङ्गुनः नामानि[सम्पादयतु]

इदं हिङ्गु आङ्ग्लभाषया Devils Dung इति उच्यते । हिन्दीभाषया“हिङ्ग्” इति, तेलुगुभाषया “इङ्गुवा” इति, तमिळ्भाषया “पेरुङ्गायम्” इति, मलयाळभाषया अपि “पेरुङ्गायम्” इति, कन्नडभाषया “इङ्गु” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य हिङ्गुनः प्रयोजनानि[सम्पादयतु]

  • जीर्णकारि : हिङ्गु, बुभुक्षाम् उत्पादयति अपि च भुक्तम् आहारं सम्यक्त्या जीर्णयति । अतः एव हिङ्गुना व्याधरणं करणीयम् इति वैद्यकीयग्रन्थाः कथयन्ति ।
  • बाह्यलेपनम् – हिङ्गुनः बाह्यलेपननम् वेदनां स्थगयति , शुलं प्रशमयति , वातदोषं हरति । आध्मानादिषु उदरविकारेषु हिङ्गुलेपनं शीघ्रशमनकारि ।

कासादिषु श्वासरोगेषु अपि हिङ्गुलेपनं कर्तुं शक्यते ।

इदं हिङ्गु अत्यन्तं तीक्ष्णं, लघु, स्निग्धं च । इदम् उष्णवीर्ययुक्तं, कटुः च । “हिङ्ग्वाष्टकचूर्णं”, “हिङ्ग्वादिघृतं”, “हिङ्गुकर्पूरवटी”, “रजप्रवर्तिनी वटी” इत्यादीनि अनेन हिङ्गुना निर्मीयमाणानि प्रमुखानि आयुर्वेदीयानि औषधानि । तेषाम् औषधानां सेवनस्य प्रमाणम् एवं भवति – चूर्णं चेत् १५ – ५० मिलिग्रां यावत् । १. इदं हिङ्गु जीर्णशक्तिं वर्धयति । तस्मात् अजीर्णरोगेषु अस्य उपयोगः हितकरः । २. उदरवेदनां, क्रिमिबाधां, ज्वरम्, आयवातं (कीलवेदना) च निवारयति इदं हिङ्गु । ३. इदं हिङ्गु शोथम् अपि निवारयति । ४. महिलानां मासिकदोषेषु, दन्तवेदनायां चापि उपयोक्तुं शक्यते । ५. दन्ताः कीटविद्धाः चेदपि हिङ्गुनः उपयोगः हितकरः । ६. पित्तप्रकृतियुक्ताः, पित्तजन्यरोगैः पीड्यमानाः च अस्य उपयोगं मितेन प्रमाणेन कुर्युः ।

आयुर्वेदस्य अनुसारम् अस्य हिङ्गुनः स्वभावः[सम्पादयतु]

एतत् हिङ्गु पचनार्थं लघु, गुणेषु उष्णं, तीक्ष्णं, स्निग्धं च । हिङ्गु कटुरसयुक्तम् । हिङ्गु अपि सुगन्धयुक्तं वस्तु अस्ति ।

“हिङ्गूष्णं पाचनं रुच्यं तीक्ष्णं वातबलास्रहृत् ।
शुलगुल्मोदरानाह क्रिमिघ्नं पित्तवर्धनम् ॥
स्त्रीपुष्पजननं बल्यं मूर्छापस्मारहृत् परम् ॥“ (भावप्रकाशः)

सेवनक्रमः[सम्पादयतु]

आध्मानादिषु उदररोगेषु एरण्डतैले हिङ्गु मिश्रीकृत्य एनिमा दानमपि परिणामकारि, क्रिमिरोगेषु १०० मि.ली. जले २ ग्रां हिङ्गुमिश्रीकृत्य एनिमा दानं प्रयोजनकरम् । हिङ्गु दीपनं अनुलोमनं च विद्यते इति कारणॆन आध्माने गुल्मरोगे, उदरशूले, मलबद्धतायां, क्रिमिरोगेषु च स्वस्य कटु-उष्णगुणैः परिणामं जनयति ।

१. हिङ्गु सेवनेन उदरवेदना न्यूना भवति ।
२. हिङ्गु कफं नाशयति ।
३. हिङ्गु उदरे विद्यमानान् कीटान् नाशयति ।
४. हिङ्गु जीर्णशक्तिं वर्धयति ।
५. हिङ्गु रुचिं वर्धयति, बुभुक्षाम् अपि वर्धयति ।
६. हिङ्गु वातदोषं निवारयति ।
७. हिङ्गु पित्तदोषं वर्धयति ।
८. घृतेन भर्जितं हिङ्गु पाके उपयोक्तव्यम् ।
९. हिङ्गु स्त्रीषु मासिकं स्रावम् अपि अधिकं करोति ।
१०. तक्रे हिङ्गु योजयित्वा सेवनेन अजीर्णकारणात् जाता उदरवेदना प्रशमति ।
११. उदरसम्बद्धेषु रोगेषु एरण्डतैलेन सह हिङ्गु योजयित्वा उदरस्य उपरि लेपनीयम् ।
१२. रक्तरोगिणः, पित्तरोगिणः, पित्तप्रकृतियुक्ताः च हिङ्गु उपयोगम् अधिकप्रमाणेन न कुर्युः ।
१३. बालाः, गर्भवत्यः च हिङ्गु उपयोगं न कुर्युः ।
१४. विपण्यां बहुविधहिङ्गु प्राप्यन्ते । अतः क्रयणावसरे सुगन्धयुक्तं, सुवर्णवर्णं, स्फटिकसदृशम् एव शुद्धं हिङ्गु अस्ति । तदेव क्रेतव्यम् ।
नपुंसकत्वानिवारकम् :- हिङ्गु वाजीकरः आर्तवजननकारी च विद्यते इति कारणेन नपुंसकत्त्वं निवारयति । इदं जननेन्द्रियाणि उत्तेजयति । ततः नपुंसकता दूरीकरोति ।
ज्वरनिवारकः – सन्निपातज्वरे शीतज्वरे विषमशीतज्वरेच हिङ्गु उपयुक्तम् । अस्य सेवनेन विषमज्वरस्य आक्रमणं निवारयितुं शक्यते ।

सेवनप्रमाणम्[सम्पादयतु]

हिङ्गु केवलं ०.१२-०.५ ग्रां परिमितं सेवितुं शश्यते

प्रसिद्धानि हिङ्गुनिर्मितानि औषधानि ।

  • हिंग्वाष्टकचूर्णम्
  • हिङ्गुकर्भूरवटिका
  • रजः प्रवर्तिनी वटी च ।

गुणाः[सम्पादयतु]

आयुर्वेदानुसारं हिङ्गुनि लघु- स्निग्ध- तीक्ष्ण गुणः विद्यन्ते । कटु इदं विपाके अपि कटु एव भवति । अस्मिन् उष्णवीयं भवति । इदं कफशामकं, पित्तवधीकश्च

जागरुकता[सम्पादयतु]

  • हिङ्गु पित्तवर्धकम् इति कारणेन अस्य सेवनाधिक्यम् यकृतः पित्तप्रकृतिजनस्य च अहितम्
  • उदररोगे धृतेन भ्रष्टं हिंगु सेवनीयम् । यतः सामान्यहिङ्गुनि अधिका तीक्ष्णता छेदनाशक्तिः च विद्यने ।
"http://sa.wikipedia.org/w/index.php?title=हिङ्गु&oldid=266138" इत्यस्माद् पुनः प्राप्तिः