हिङ्गु

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
हिङ्गुसस्यं, फलं, पुष्पं चापि

अयम् अपि आहारपदार्थः भारते अधिकप्रमाणेन उपयुज्यते । एतत् हिङ्गु आङ्ग्लभाषायां Devils Dung इति उच्यते । अस्य वैज्ञानिकं नाम अस्ति Ferula marthe इति । भारतस्य पाकशालायां प्रमुखं स्थानं वहति हिङ्गु । सर्वस्य कटुयुक्तस्य अपि पाकस्य सज्जीकरणस्य अनन्तरं हिङ्गु स्थापयित्वा व्यागरणं क्रियते चेत् एव पाकः समाप्तः, सेवनार्थं सिद्धः इति अर्थः । तथा प्रसिद्धम् अस्ति भारते हिङ्गु । इदं हिङ्गुसस्यं ५’ – ८’ यावत् वर्धते । अस्य हिङ्गुसस्यस्य पर्णानि १” – २” यावत् दीर्घाणि भवन्ति । अस्य सस्यस्य मूलं यदा उत्कीर्यते तदा किञ्चन निर्याससदृशं द्रवं स्रवति । तदेव अस्माकम् आहारे उपयुज्यमानं हिङ्गु । वसन्तऋतौ सङ्गृहीतं हिङ्गु अत्यन्तम् उत्तमगुणयुक्तं हिङ्गु । अस्मिन् गन्धकयुक्तं वोलोटैल् आयिल्, फेरोलिक् आसिड् म्यालिक्, असिटक्, फार्मिक् तथा लारिनिक् आसिड् अंशाः भवन्ति । इदं हिङ्गु यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते ।

इतरभाषाभिः अस्य हिङ्गुनः नामानि[सम्पादयतु]

इदं हिङ्गु आङ्ग्लभाषया Devils Dung इति उच्यते । हिन्दीभाषया“हिङ्ग्” इति, तेलुगुभाषया “इङ्गुवा” इति, तमिळ्भाषया “पेरुङ्गायम्” इति, मलयाळभाषया अपि “पेरुङ्गायम्” इति, कन्नडभाषया “इङ्गु” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य हिङ्गुनः प्रयोजनानि[सम्पादयतु]

इदं हिङ्गु अत्यन्तं तीक्ष्णं, लघु, स्निग्धं च । इदम् उष्णवीर्ययुक्तं, कटुः च । “हिङ्ग्वाष्टकचूर्णं”, “हिङ्ग्वादिघृतं”, “हिङ्गुकर्पूरवटी”, “रजप्रवर्तिनी वटी” इत्यादीनि अनेन हिङ्गुना निर्मीयमाणानि प्रमुखानि आयुर्वेदीयानि औषधानि । तेषाम् औषधानां सेवनस्य प्रमाणम् एवं भवति – चूर्णं चेत् १५ – ५० मिलिग्रां यावत् । १. इदं हिङ्गु जीर्णशक्तिं वर्धयति । तस्मात् अजीर्णरोगेषु अस्य उपयोगः हितकरः । २. उदरवेदनां, क्रिमिबाधां, ज्वरम्, आयवातं (कीलवेदना) च निवारयति इदं हिङ्गु । ३. इदं हिङ्गु शोथम् अपि निवारयति । ४. महिलानां मासिकदोषेषु, दन्तवेदनायां चापि उपयोक्तुं शक्यते । ५. दन्ताः कीटविद्धाः चेदपि हिङ्गुनः उपयोगः हितकरः । ६. पित्तप्रकृतियुक्ताः, पित्तजन्यरोगैः पीड्यमानाः च अस्य उपयोगं मितेन प्रमाणेन कुर्युः ।


आयुर्वेदस्य अनुसारम् अस्य हिङ्गुनः स्वभावः[सम्पादयतु]

एतत् हिङ्गु पचनार्थं लघु, गुणेषु उष्णं, तीक्ष्णं, स्निग्धं च । हिङ्गु कटुरसयुक्तम् । हिङ्गु अपि सुगन्धयुक्तं वस्तु अस्ति ।

“हिङ्गूष्णं पाचनं रुच्यं तीक्ष्णं वातबलास्रहृत् ।
शुलगुल्मोदरानाह क्रिमिघ्नं पित्तवर्धनम् ॥
स्त्रीपुष्पजननं बल्यं मूर्छापस्मारहृत् परम् ॥“ (भावप्रकाशः)
१. हिङ्गु सेवनेन उदरवेदना न्यूना भवति ।
२. हिङ्गु कफं नाशयति ।
३. हिङ्गु उदरे विद्यमानान् कीटान् नाशयति ।
४. हिङ्गु जीर्णशक्तिं वर्धयति ।
५. हिङ्गु रुचिं वर्धयति, बुभुक्षाम् अपि वर्धयति ।
६. हिङ्गु वातदोषं निवारयति ।
७. हिङ्गु पित्तदोषं वर्धयति ।
८. घृतेन भर्जितं हिङ्गु पाके उपयोक्तव्यम् ।
९. हिङ्गु स्त्रीषु मासिकं स्रावम् अपि अधिकं करोति ।
१०. तक्रे हिङ्गु योजयित्वा सेवनेन अजीर्णकारणात् जाता उदरवेदना प्रशमति ।
११. उदरसम्बद्धेषु रोगेषु एरण्डतैलेन सह हिङ्गु योजयित्वा उदरस्य उपरि लेपनीयम् ।
१२. रक्तरोगिणः, पित्तरोगिणः, पित्तप्रकृतियुक्ताः च हिङ्गु उपयोगम् अधिकप्रमाणेन न कुर्युः ।
१३. बालाः, गर्भवत्यः च हिङ्गु उपयोगं न कुर्युः ।
१४. विपण्यां बहुविधहिङ्गु प्राप्यन्ते । अतः क्रयणावसरे सुगन्धयुक्तं, सुवर्णवर्णं, स्फटिकसदृशम् एव शुद्धं हिङ्गु अस्ति । तदेव क्रेतव्यम् ।वर्ग: औषधीयसस्यानि
"http://sa.wikipedia.org/w/index.php?title=हिङ्गु&oldid=238509" इत्यस्माद् उद्धृतम्