वायुमालिन्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
वायुमालिन्यम् (द्वितीयमहायुद्धकाले एव)

मनुष्याः विविधक्रियामाध्यमेन इमां संरचनां विखण्डितवन्तः । फलतः वायुप्रदूषणं जातम् । यथा –वनकर्तनं, जीवाश्म ईन्धनस्याधिकाधिकः उपयोगः, औद्योगिकरणेन, क्लोरोफ्लोरोकार्बन्समात्रायाः वायुमणडले वृध्दिः इत्यादयः । फलतः वातावरणे ग्रीनहाउसप्रभावः, क्षारीयवर्षा, ओजोन् इति आवरणस्य क्षयः, स्मोगघटना च जाता । येन वायुमण्डलं प्रदूषितं जातम् । इयं हि प्रदूषणं द्विविधं भवति ।

वायोः संरचना[सम्पादयतु]

आक्सीजनम् -२०.९५ प्रतिशतं, नायट्रोजनम्- ७८.०० प्रतिशतं, आर्गनम् -०.९३ प्रतिशतं, कार्बनडाय-आक्साईड- ०.०४ प्रतिशतम्, अन्ये -०.०८ प्रतिशतमिति । यथा –

प्राकृतिकम् प्रदूषणम् (Natural Pollution)[सम्पादयतु]

इदं हि प्रदूषणं साक्षात् प्रकृत्या एव भवति, यस्य प्रभावः जीवधारिषु भवति । यथा- ज्वालामुखीविस्फोटः, पर्वतविशृङ्खलनं, चक्रवातः, वनाग्निः, तडितपतनं, समुद्रीयलवणस्य तटे भण्डारणमित्यादयः । जलप्लावनमपि प्रदूषणस्य प्राकृतिकं कारणं भवति । परमेतानि कारणानि पौनःपुन्येन न भवन्ति । यदि भवति, तर्हि स्वयं प्रकृत्या एव कालान्तरे अनुकूलं वातावरणं भवति । अनेन कोऽपि भयानकः दुष्परिणामः न भवति ।

मानवकृत –प्रदूषणम् (Man Created Pollution)[सम्पादयतु]

प्रदूषणमिदं नगरैः औद्योगिक-प्रतिष्ठानैश्च भवति । ग्रामेष्वपि यत्र पाचनक्रिया परम्परामनुसृत्य प्राकृतिक-ईन्धनेन (काष्ठेन, कोयला इत्यनेन,गोमयेन) भवति, तत्र तेषां धूम्रः अपि वायु- प्रदूषणं करोति । यतः धूम्रः विषाक्तः भवति । प्रायः पाचिका अनेन प्रदूषणेन पीडिता भवति । फलतः तां नासिकारोगः, चक्षुरोगः, अस्थमारोगः, हृदयरोगश्च भवितुमर्हति । समयानुसारेण महानसगैशमाध्यमेन इयं समस्या निवारिता भविष्यति, भवति च । एवमेव विविध-प्रकारकस्य ईन्धनस्य प्रयोगः सम्प्रति क्रियते, अतः समस्येयं नाति कठिना । एतदतिरिक्तमपि कारण द्वयं महत्वपूर्णं -


औद्योगिकप्रदूषणम् (Industrial Pollution)[सम्पादयतु]

सामान्यतः औद्योगिकप्रतिष्ठानस्य धूम्रनलिकातः (चिमनी) निस्सरितः धूम्रः अस्य वायुप्रदूषणस्य मुख्यं कारणं भवति ।

यतो हि अस्मिन् धूमे हानिकरानि बहूनि तत्त्वानि विराजितानि भवन्ति । तापविद्युत् – गृहे, रसायनशोधनकार्यशालायां, धातुशोधन- उद्योगेषु, सिमेण्ट –कर्गज- नायलोन –उर्णिकावस्त्र- कर्पासवस्त्रोद्योगेषु एतादृशानि कार्याणि भवन्ति, यस्मात् कार्यात् निस्सरितः धूमः सर्वाधिकं वायुप्रदूषणं करोति । वायौ कानि तत्त्वानि मिश्रितानि भवन्ति इति तु उद्योगस्य कार्यस्योपरि उपयुक्तानामिन्धनानामुपरि, प्रविधिनामुपरि च निर्भरः भवति । यत्र कोयला- नामकस्य ईन्धनस्य प्रयोगः भवति तत्र विषाक्तः कार्बनमोनोक्साइड् नामकः गैशः बहिरागच्छति । एल्युमीनियम् इति उद्योगेभ्यः फ्लोराइड नामकः यौगिकः बहिरागच्छति । नायलोन उद्योगेभ्यः कार्बनडाय-आक्साइड् हाइड्रोजनसल्फाइड च बहिरागच्छति । विद्युत्- तापगृहेभ्यः मात्राधिवयेन सल्फर इत्यस्य यौगिकं बहिरागच्छति । एवं प्रकारेण विविध- उद्योगेभ्यः वोवोधप्रकारकं तत्वं बहिरागत्य वायु-प्रदूषणं करोति ।

स्वचालितवाहनेभ्यः वायुप्रदूषणम् (Vehicular Pollution)[सम्पादयतु]

पेट्रौल-डीजलमाध्यमेन वा स्वचालितवाहनेभ्यः वायुमण्डलमधिकाधिकं प्रदूषितं भवति । इत्यपि वक्तुं शक्यते यत् नगरे सर्वाधिकं वायुप्रदूषणं वाहनमाध्यमेन एव भवति । अत्राऽपि पेट्रौलचालितेभ्यः वाहनेभ्यः अपेक्षया प्रदूषणमधिकं भवति । एवं प्रकारेण चतुः ष्ट्राँकयुक्तवाहनानामपेक्षया द्विष्ट्राकयुक्तानि बाहनानि वायुमण्डलमधिकं प्रदूषयति । प्रदूषणमिदं वाहनानां साइलेन्सरात् निस्सरितेभ्यः धूमेभ्यः भवति । प्रायः वाहनेभ्यः निम्नलिखितानि तत्त्वानि बहिरागत्य वायुमण्डलं प्रदूषयन्ति ।

  1. नाइट्रोजन, आक्सीजन, हाइड्रोजन, कार्बनडआक्साइड इति एते अति हानिकराः न भवन्ति ।
  2. कार्बनमोनोक्साइड् (CO) इति । अयं अतीव् – हानिकरः भवति । अस्य मात्राऽपि अधिका (१२ प्रतिशतं) भवति ।
  3. नाइट्रोजनमनोक्साइड, नाइट्रोजनडाय- आक्साइड चेति । इमौ अतीव विषाक्तौ भवतः ।
  4. इथायलीन- ऎसीटीलीन-मीथेन-प्रोपेन-टोल्यून- बेन्जपायरीन इत्यादयः । एषु बेन्जपायरीन् केन्सररोगस्य मुख्यं कारणं भवति ।
  5. एल्डिहाइड्सश्रेन्याः फार्मोलिन नामकः गैशः अत्यन्तविषाक्तः भवति ।
  6. डीजलचालितवाहनेभ्यः निस्सरितः कार्बन यौगिकः, येन केन्सररोगः भवति ।

वायुप्रदूषणनियन्त्रणाय कानूनव्यवस्था[सम्पादयतु]

वायुप्रदूषणं नियन्त्रयितुं भारतसर्वकारेण कानूनव्यवस्था कृता वर्तते । व्यवस्थायामस्यां वायु-प्रदूषणनियन्त्रणम् अधिनिमः १९८१ उल्लेखनीयः अस्ति । एतदतिरिक्तमपि पर्यावरण- संरक्षण- अधिनियमः- १९८६ इत्यनुसारेण ये नियमानां पालनं न कुर्वन्ति, तेषां कृते कठिना दण्डव्यवस्था परि-कल्पिताऽस्ति । प्रदूषकाः उद्योगाः यदि सचनां सम्प्राप्य अपि प्रदूषणं न नियन्त्रयन्ति तर्हि तेषां विद्युत् सौविध्यं, जलसौविध्यञ्च न दीयते । अपि च लक्ष्यमेकं यावत् आर्थिकः दण्डः, पञ्चवर्षं यावत् कारावासश्च कल्पितास्ति । इतः परमपि यदि प्रदूषणं न नियन्त्रयन्ति तर्हि पञ्चसहस्त्र- रुप्यकाणि प्रतिदिनं दण्डस्वरुपं सप्तवर्षं यावत् कारावासञ्च भवति । एतत्कृते उद्योगाधिपतिः, प्रबन्धकः, नियन्त्रकश्च दोषयुक्ताः भविष्यन्ति ।

वायुप्रदूषणनियन्त्रणोपायाः[सम्पादयतु]

  1. औद्योगिक- धूम्रनलिकाः (चिमनी) अपेक्षया लम्बतमाः, उच्चतमाश्च भवेयुः । येन तेभ्यः निस्सरिताः धूमाः, धूमेन सह बहिरायाताः विषाक्ताः पदार्थाः तस्मिन्नेव उद्योगेषु कार्यकर्तृणां कृते, पार्श्वे निवश्यमानानां कृते च हानिकराः न भवेयुः । यतः धूमः उच्चतमे वायुमण्डले यदि गच्छति, तर्हि निच्चस्थानां कृते तस्य प्रभावः न्यूनः भवति ।
  2. नूतनेषु उद्योगेषु संयन्त्रस्य स्थापनेन सहैव प्रदूषणनियन्त्रणसंयन्त्रस्यापि संस्थापनं करणीयम् । अपि च पूर्वस्थापितेषु उद्योगेषु नातिविलम्वेन संस्थापनीयम् ।
  3. अति प्रदूषणकराणामुद्योगानां संस्थापनमावासीयस्थलेभ्यः दूरे एव करणीयम् ।
  4. प्रदूषणनियन्त्रणमण्डलेन समये- समये नियमितरुपेण उद्योगाः परिक्षणीयाः, यतोहि उद्योगपतयः प्रदूषणनियन्त्रणसंयन्त्रं न संचालयन्ति ।
  5. वाहनप्रदूषणनियन्त्रणाय नियमानामनुपालनं कठोरतया करणीयम् ।
  6. औद्योगिकक्षेत्रेषु सघनवृक्षारोपणं करणीयम् । हरितपट्टिकायाः निर्माणं करणीयम् । अनेन प्रदूषणस्य प्रभावः न्यूनः भवति ।
  7. प्रदूषणकारकेषु उद्योगेषु ये कर्मकराः कार्यं कुर्वन्ति, तेषां कृते प्रशिक्षणव्यवस्था करणीया । अर्थात् ते प्रदूषणनियनत्रणे प्रशिक्षिताः भवेयुः । एवं प्रकारेण वायुप्रदूषणं नियन्त्रितव्यम् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

Air quality modelling
Effects on human health
"http://sa.wikipedia.org/w/index.php?title=वायुमालिन्यम्&oldid=248819" इत्यस्माद् पुनः प्राप्तिः