विश्वपरिसरदिनम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
विश्वपरिसरदिनम्
दिनाङ्कः 5 June

अस्माकं भारतदेशे एव न किन्तु समग्रे भूमण्डले एव विश्वपरिसरदिनम् प्रतिवर्षं जूनमासस्य पञ्चमदिने आचरन्ति । साधारणतः अस्मान् परितः प्राणिपक्षिणः कृमिकीटाः, वृक्षाः नद्यः पर्वताः सरोवराः ये भवन्तेते सर्वे सर्वोणि परिसरशब्देन स्वीकृताः भवन्ति । अथापि भौतिकपरिसर, भौगोलिकपरिसरः, आर्थिकपरिसरः, सांस्कृतिकपरिसरः, सामाजिकपरिसरः, धार्मिकपरिसर इत्यादिनाम्नापि परिसरसम्बन्धिविषयाः चर्चिताः भवन्ति । सर्वेषां परिसराणामपि परिणामः मानवजीवनेषु द्र्ष्टुं साध्यः अस्ति ।

वयं यत्र वसामः तत्र यानि सन्ति गृहाणि, मार्गः, भूप्रदेशः, जलाशयः, वायुमण्डले स्थितः अनिलं सर्वं भौतिकपरिसरेषु मिलितं भवति । अस्माकं गृहमपि शुद्धं वायुप्रकाशदिना सुव्यवस्थितं भवति चेत् गृहपरिसरः उत्तमः भवति । अनन्तरं गृहे उत्तमकार्याणां करणेन व्यवहारेण धार्मिकसंस्कृतिक सामाजिक परिसरविषयाः ज्ञातुं शक्यन्ते । प्रकृतिमध्ये स्थिताः नद्यः, पर्वताः, वनानि, उद्यानानि, भौगोळिकपरिसर इति कथिताः भवन्ति । एतेषां सर्वेषां प्र्त्येकतः सम्बन्धः न भवति । (एकग्रामः अथवा नगरं) साक्षातैः सम्बन्धं स्थापयति । यथा मैसूरुनगरे श्रेष्ठः चामुण्डीबेट्टप्रदेशः । जीवननिर्वहणाय जनाः विविधकार्याणि कुर्वन्ति । विविधा उद्योगाः, करणीयानि कार्याणि, जीवनावश्यक सौलभ्यानि आर्थिकपरिसरस्य अंशाः भवन्ति । ग्रामे नगरे अथवा गृहे यानि आचरणानि कृतानि भवन्ति, पर्वाणि आचरितानि भवन्ति तानि धार्मिकपरिसरेणा सांस्कृतिक परिसरेण सम्बध्दानि भवन्ति । कला, सङ्गीतादिकं च अत्रैव मिलितं भवति । प्राचीनकाले जनसङ्ख्या अधिका नासीत् । तदा यथेष्टं कृषिभूमिः जलवायुव्यवस्था सुलभा आसीत् । किन्तु जनसङ्ख्यायाः वर्धनेन विशालं जगत् अल्पमिव जातम् अस्ति । विशेषतः भारत चीना इत्यादि देशेषु जनसङ्ख्या शतवर्षेषु अत्यधिका सञ्जाता अस्ति ।

भारतदेशे स्वातन्त्र्यपूर्वं ३० कोटि मिताः जनाः आसन् । १०१० तमे वर्षे भारते १२० कोटिमिताः जनाः सन्ति । विश्वे अनेकदेशेषु जनसङ्ख्यायाः वृध्दिः लक्षिता अस्ति । जनसङ्ख्यास्फोटः एव अनेक समस्यानां कारणञ्च भवति । यथा यथा जनवृद्धिः भवति तदा सर्वेषां वासाय स्थलम, आवश्यकं, गृहमावश्यकं, वसतिनिर्माणाय काष्ठानि आवश्यकानि । देशे नवनवीनोद्यमानां स्थापनं जलबन्धानां निर्माणम् इत्यादिनापि वननाशः कृतः अस्ति जनोपयोगिवस्तूनां उत्पादनम् अधिकम् अपेक्षितं भवति । तदर्थं नैसर्गिकवस्तूनां उपयोगः अधिकः अपेक्षितः अस्ति । व्यापारव्यवहारार्थं वन्यमृगं केचन नाशयन्ति यथा कथञ्चित जनाः जीवितुं पयत्नं कुर्वन्तः भवन्ति । एवम् इदानीन्तनकाले सर्वत्र जलमालिन्यं, वायुमालिन्यं, शब्दमालिन्यं परिसरम् अस्वच्छं कुर्वन्ति । जनानां शुद्धं पेय जलं न पूरितं भवति । श्युद्यमादिनामपि जलमावश्यकमस्ति । तत्रापि सुलभतया जलस्य प्राप्तिः न भवति । प्रमुखतः वननाशात् वृष्टॆः प्रमाणे न्यूनता भवति । जलस्य मूलानि शुष्काणि भवन्ति । एवं जलाभावः सर्वत्र कुपरिणामं करोति । जलस्य व्यापारः अधिक लाभदायकः विक्रेतृणां किन्तु दीनानां दरिद्रणाम् अतीव कष्टदायकः अस्ति । नदीजलम् अशुद्धजलैः दुष्टवस्तुभिर्युक्तम् अतीव दृष्टं सञ्जातम अस्ति । मलमूत्रादिकं, मृतशरीराणि सर्वाणि जले युक्तानि, विनाशक विषयुक्तानि जलमूलानि अनुपयुक्तानि जातानि सन्ति । नदीजलेषु उद्यमानां विषकारिजलानि अपि युक्तानि भवन्ति ।

वृष्टेरभावात् सरोवराः शुष्काः भवन्ति । अनेकविधरोगकारकाः भवन्ति । शुद्धजलपूरणं ग्रामे तथा नगरे अतीव कष्टदायकं तथा आर्थिकव्ययदायकं सम्वृत्तम् अस्ति । जलमूलाः रोगाः इति वचनानुसारेण बहुजनाः रोगिणः जाताः सर्वत्र दर्शनगोचराः भवन्ति । वायुमण्डले विशेषतः प्राणवायुः जीविनाम् अनिवार्यः अस्ति । अङ्गराम्लवायुः तथा च अन्ये अंशाः यदि अधिकाः भवन्ति तदा वायुमण्डलं कलुषितं भवति । बृहत् यन्त्रागारैः धूमः विषमिश्रितः सततं निस्सरति । भोपालप्रदेशे विषानिलेन सहस्रशः जनाः मृता अभवन् । सुन्दरस्मारकाणि ताजमहल्, श्रवणबेळगोळे स्थितः गोमटेश्वरविग्रहः इत्यादीनि प्रभावितानि अभवन् ।

भूप्रदेशे तथा वायुमण्डले इदानीं शब्दमालिन्यम् अपि दुस्सहनीयं सञ्जातम् अस्ति । भूप्रदेशे अनेक तैलचालितवाहनानि धूमेन साकं शब्देन सर्वान् सन्तापयन्ति सर्वत्र कर्णयोः वेदनाम् अनुभवामः । विद्यालयः, मन्दिराणि, चिकित्सालयाः, उद्यानानि शान्तियुक्तानि एव अयुक्तानि स्थानानि भवन्ति । किन्तु शब्दमालिन्यं सर्वत्र स्वप्रभावं दर्शयति । जनाः सुलभतया विश्रान्तिं निद्रां वा अनुभवितुम् असमर्थाः सञ्जाताः सन्ति । शब्द मालिन्य निवारणाय सर्वकारेण नियमाः कृताः सन्ति सूचनाफलकानि स्थापितानि । शब्दमालिन्यनियन्त्रणे सर्वैरपि मिलित्वा प्रयत्नः करणीयः अस्ति । इदानीं सम्पर्क साधनैः जगत् अल्पमिव सञ्ज्पतमस्ति । अतः अन्यदेशीय आहारविहारक्र्मः, वस्रधारणं, पर्वाचरणं, मनोरञ्जनं, क्रीडाः सर्वत्र प्रसिद्धाः सन्ति । यत्र कुत्रापि उपविश्य भूमण्डले स्थितं यत्किमपि गृहे एव द्रष्टुं मानवः समर्थः अस्ति । तथा अनुकूलता काल्पिताऽस्ति ।

अनेन धार्मिकपरिसरे, सामाजिकपरिसरे तथा सांस्कृतिकपरिसरे भीकरः परिणामः सञ्जातः अस्ति । स्वकीयान् उत्तमांशान् यथापूर्वं संरक्षितुं कष्टमनुभवामः सर्वत्र परिवर्तनं पश्यामः । मानवस्य आर्थिक स्थितिः सर्वदेशेषु सर्वजनानां समाना न भवति । अतः अल्पधनानां जीवनम् अतिदुस्तरं सञ्जातमस्ति । परिसर संरक्षणं सर्वेषां आद्यं कर्तव्यमस्ति । बालानां एतत् प्रथमतः बोधनीयम् अस्ति । नदीजलवायुशब्द मलिनता विषये, परिणामविषये च बाला प्रौढाः जागरिताः भवन्ति चेत् प्रथमं कार्यं भवति । यत्र यत्र स्थलं मिलति तत्र वृक्षारोपणं वननिर्माणं कर्तव्यम् । वनमहोत्सवः सर्वत्र अद्य कर्तव्यरुपेण आचारणीयः सर्वकारेणापि नियमाः कर्तव्याः सन्ति । वननाशः न कर्तव्यः । परिसरनाशकानां योजनानां त्यागः कर्तव्यः । तादृशयोजनानां कृते जनैः विरोधः कर्तव्यः अस्ति । जनवसति प्रदेशात् दूरे उद्यमाः स्थापनीयाः । सर्वेषां पशुपक्षिसङ्कुलानां संरक्षणं, अनिवार्यमस्ति ।

समूहमाध्यमैः वनस्य, जलस्य, वायुमण्डलस्य महत्वविषये, मालिन्यनिवारणविषये च चर्चा कर्तव्या । जनानां मार्गदर्शनं कर्तव्यमस्ति । सर्वसमस्यामूलस्य जनसङ्ख्यास्फोटस्य नियन्त्रणम् अनिवार्यम् अस्ति । मानवाः प्राणिनः प्रकृते आपारं जलं वायुं च प्राप्नुवन्ति । अग्रिममानवसन्ततेः अपि तानि उपयुक्तानि भवन्तु । तथा संरक्षणकार्याणि कर्तव्यानि सन्ति । एतदर्थम् एव परिसरदिनम् विश्वे आचरितं भवति । अनेन परिसरप्रज्ञा भवति । परिसरसंरक्षणं च भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=विश्वपरिसरदिनम्&oldid=273193" इत्यस्माद् पुनः प्राप्तिः