वेलावदर राष्ट्रियोद्यानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(वेलावदर् राष्ट्रियोद्यानम् इत्यस्मात् पुनर्निर्दिष्टम्)


वेलावदर राष्ट्रियोद्याने 'ब्ल्याक्बक्'/'इण्डियन् एण्टिलोप्'-समूहः

वेलावदर राष्ट्रियोद्यानम् (गुजराती: વેળાવદર કાળિયાર રાષ્ટ્રીય ઉદ્યાન, आङ्ग्ल: Velavadar Blackbuck National Park) गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे स्थिते भावनगरमण्डले अस्ति । इदं राष्ट्रियोद्यानं भावनगरात् ७२ किलोमीटर्दूरे, अहमदाबाद् इत्यस्मात् महानगरात् १४० किलोमीटर्दूरे अस्ति । इदं राष्ट्रियोद्यानं ३४.५२ चतुरस्रकिलोमीटर् परिमितं विस्तृतम् अस्ति । वेलावदर राष्ट्रियोद्यानस्य 'सवन्ना'-सदृशहरितभूमौ 'ब्ल्याक्बक्'/'इण्डियन् एण्टिलोप्' अधिकसङ्ख्यायां दृश्यन्ते । अस्मिन् उद्याने अस्य प्राणिविशेषस्य महत्समूहाः एव दृश्यन्ते । इदम् उद्यानं भारतीयवृकस्य सन्तानोत्पत्तिकेन्द्रमस्ति । अस्मिन् उद्याने नीलगाय:, वन्यबिडालकः ('जङ्गल् क्याट्'), शृगालः इत्यादयः प्राणिनः अपि दृश्यन्ते । वेलावदर राष्ट्रियोद्यानं पक्षिभ्यः अपि प्रसिद्धम् अस्ति । 'स्टोलिक्स्कास् बुश्चेट्', सारसबकः इत्यादयः विरलपक्षिणः अत्र दृश्यन्ते । शैत्यकाले इदम् उद्यानम् महत्सङ्ख्याकानां 'ह्यारियर् रूस्ट्' नामकविदेशीयपक्षिणाम् आवासस्थानं भवति ।

वेलावदर राष्ट्रियोद्याने 'ब्ल्याक्बक्'/'इण्डियन् एण्टिलोप्'