संस्कृतम्

विकिपीडिया इत्यस्मात्

(संस्‍कृतम् इत्यस्मात् अनुप्रेषितम्)
कूर्दयतु अत्र : सुचलनम्, अन्वेषणम्
संस्कृतम्
कुत्र वदितम् भारतम्, नेपालम्
वक्तारः 49,736 धाराप्रवाह-वक्तारः ; भारतस्य १९९१ जनगणनानुसारम्
भाषासु क्रमांकः
भाषा-परिवारः
वर्गः
भारोपीयम्

 आर्य-भाषा
  संस्कृतम्

राजकीया स्थितिः
राजकीया भाषा भारतस्य एका राजकीया भाषा
केन नियंत्रितम् -
भाषा-कूटम्
ISO 639-1 sa
ISO 639-2 san
SIL SKT

"संस्‍कृतं" पृथिव्‍यां प्राचीना समृद्घा शास्त्रीया च भाषा मन्‍यते। विश्‍ववाङ्‌मयेषु संस्‍कृतं श्रेष्‍ठरत्‍नम्‌ इति न केवलं भारते अपि तु समग्रविश्‍वे एतद्‌विषये निर्णयाधिकारिभि: जनै: स्‍वीकृतम्‌। महर्षिणा पाणिनीना विरचितम् "अष्‍टाध्‍यायी" इति संस्‍कृतव्‍याकरणम्‌ अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्‍थानं वर्तते। संस्‍कृतशब्‍दाः एव उत्तरभारते दक्षिणभारते च संयोजयन्‍ति। संस्कृतात् प्राय: सर्वा अपि भारतीयभाषाः उद्भूताः।

संस्‍कृतभाषायाः भारतीयजीवने विश्‍वजीवने च महत्‍वपूर्णं स्‍थानं विद्यते । संस्‍कृतभाषायाः सुरभारती, देववाणी, देवीवाक्‌, गीर्वाणवाणी, देवभाषा, अमरभारती इत्‍यादीनि बहूनि नामानि प्रसिद्घानि सन्‍ति ।

संस्कृते एकस्य धातोः रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्ति । प्रत्येक-लकारे प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः इति त्रयः पुरुषाः सन्ति। अस्‍याः भाषायाः वैशिष्‍ट्‍यं नाम दंडचिन्हम्‌। न वर्तते अत्र अन्‍यानि विरामचिन्हानि केवलं दंडचिन्हमेव। एतदेव चिन्हम् विधानं प्रश्‍नम्‌ उद्‍गारं च सूचयति। अत: एकस्‍यैव वाक्‍यस्‍य भिन्‍नान्‌ अर्थान्‌ प्राप्‍नुमः वयम्‌। उदाहरणार्थं वाक्‍यांशः एकः दीयते। अभ्‍युत्‍थानं च धर्मस्‍य नैव दृष्‍टं कदाचन इति एतस्‍य वाक्‍यस्‍य द्वौ अर्थौ स्‍त:॥

संस्‍कृतस्‍य प्राचीनतमग्रन्‍थाः वेदाः सन्‍ति।

अन्तर्विषयाः

[संपादयतु] इतिहास:

एयं भाषा न केवलं भारतस्‍य अपितु विश्‍वस्‍यप्राचीनतमा भाषा मन्‍यते। इयं भाषा एतावती समृद्घा अस्‍ति यत्‌ प्राय: सर्वासु भारतीयभाषासु न्‍यूनाधिकरूपेण अस्‍या: शब्‍दा: प्रयुज्‍यन्‍ते. अत: भाषाविदां मते इयं सर्वासां भाषाणां जननी मन्‍यते। पुरा संस्कृतं लोकभाषा आसीत्‌। जना: संस्कृतं वदन्ति स्म॥

विश्‍वस्‍य आदिम: ग्रन्‍थ: ऋग्‍वेद: संस्‍कृतभाषायामेवास्‍ति। अन्‍ये च वेदा: यथा यजुर्वेद:, सामवेद:, अथर्ववेदश्‍च संस्‍कृतभाषायामेव सन्‍ति। आयुर्वेद धनुर्वेद गन्‍धर्ववेदार्थवेदाख्‍या: चत्‍वार: उपवेदा: अपि संस्‍कृते एव विरचिता:॥


सर्वा: उपनिषद: संस्‍कृते उपनिबद्घाः। अन्‍ये ग्रन्‍था: - शिक्षा, कल्‍प, निरुक्त, ज्‍योतिष, छन्‍द, व्‍याकरण, वेदाङ्ग, दर्शन, इतिहास, पुराण, काव्‍य, शास्‍त्र: चेत्यादयः ॥

महर्षि-पाणिनिना विरचिता अष्‍टाध्‍यायी इति संस्‍कृतव्‍याकरणम्‌ अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्‍थानं वर्तते ॥

वाक्यकारं वररुचिं भाष्यकारं पतंजलिम् | पाणिनिं सूत्रकारं च प्रणतोस्मि मुनित्रयम् ॥

[संपादयतु] लिपि:

संस्‍कृतलेखनस्‍य प्रतिरूपं सरस्‍वती लिपिः आसीत्‌| कालान्‍तरे एतस्‍य रूपं ब्राह्मी लिपिः बभूव| तत्‌ उत्तर: एतत्‌ रूपं देवनागरी लिपिः परिवर्तेत एतत्‌|

अन्‍य रूपान्‍तराणि अधस्‍तात्‌ सन्‍ति -- बांग्‍ला लिपि, शारदा लिपि, तेलुगु लिपि, तमिल लिपि, यव-द्वीप लिपि, कम्‍बोज लिपि, कन्‍नड लिपि, मलयाळम्‌ लिपि, गुजराती लिपि, आदि ॥

[संपादयतु] प्रभावम्

[संपादयतु] आधुनिक-भारतम्

मलयाळम्‌, तमिळ्‌, तेलुगु, कन्नड इति इमा: चतस्र: दाक्षिणात्‍य-भाषा:संस्‍कृतेन भृशं प्रभाविता:।

राष्‍ट्रस्‍य एकताया अखण्‍डतायाश्‍च स्‍थापनायै संस्‍कृतमेव समर्थमस्‍ति यत: न केवलं अस्‍या: भाषाया एव शब्‍दा: मूलरूपेण सर्वासु भारतीयभाषासु लभ्‍यन्‍ते, अपितु सर्वत्र भारते भाषाणामेकताया: रक्षा अपि केवलं संस्‍कृतेनैव क्रियते||

अस्‍यां भाषायां न केवलं भारतस्‍य अपितु निखिलस्‍यापि संसारस्‍य मानवानां कृते हितसाधका: जीवनोपयोगिनस्‍य सिद्धान्‍ता: प्रतिष्‍ठापिता: सन्‍ति|इयमेव सा भाषा यत्र ध्‍वने: लिपेश्‍च सर्वत्रैकरूपता वर्तते||

[संपादयतु] अक्षरमाला

[संपादयतु] प्रणवम्

[संपादयतु] स्वरा:

अ, आ, इ, ई, उ, ऊ, ऋ, ॠ, ऌ, ॡ, ऎ, ए, ऐ, ऒ, ओ, औ, अं, अ:

[संपादयतु] व्यञ्जनानि

क ख ग घ ङ

च छ ज झ ञ

ट ठ ड ढ ण

त थ द ध न

प फ ब भ म

य र ऱ ल ळ ऴ व

श ष स ह

[संपादयतु] भ्रंशाक्षराणि

ट ऩ फ

[संपादयतु] सन्ध्यक्षराणि

क्ष त्र ज्ञ

[संपादयतु] रूपं च वाक्यशास्त्रम्

संस्‍कृते एकस्‍य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्‍ति । प्रत्‍येक-लकारे प्रथमपुरुष:, मध्‍यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्‍ति ।।

मया ततम् इदम् सर्वम् जगद् अवय्कतमूर्त्तिना । मत्स्थानि सर्वभूतानि न चाऽहम् तेष्ववस्थितः ।।

                                  -- भगवद्गीता (9.4)

[संपादयतु] अद्यत्वे समस्कृतभाषाया: स्थितिः

अद्यत्वे समस्कृतस्य स्थितिरतिदयनीया विद्यते। अनेके जनाः यैः समस्कृतभाषामधिगन्तुम न जातु प्रयतितम् , नापि तत्प्रशंसायां कदाचिदपि किञचिदभिहितम्।

[संपादयतु] समस्कृताभ्युद्धारणम्

संस्‍कृतभाषाया: साहित्‍यमतीव सरसं वर्तते| तथास्‍या: व्‍याकरणं नितान्‍ती व्‍यवस्‍थितं अस्‍ति| व्‍याकरणं छन्‍दो बन्‍धनेऽपि संस्‍कृतसाहित्‍यं वैदिककालादारभ्‍य अद्यावधि सुललितं विराजते| वर्ण्‍यविषयाणां बाहुल्‍यात्‌ अस्‍या: भाषाया: शब्‍दकोष: अतिविशाल:|

[संपादयतु] इमानि अपि पश्यन्तु


[संपादयतु] बाह्य-संबन्धनानि

[संपादयतु] बाह्य-सूत्राणि

  • Internet Sacred Text Archive - यहाँ बहुत से हिन्दू ग्रन्थ अंग्रेजी में अर्थ के साथ उपलब्ध हैं। कहीं-कहीं मूल संस्कृत पाठ भी उपलब्ध है।


वर्ग:संस्कृतम्

वैयक्तिक उपकरणानि