हर्षचरितम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

महाकविर्बाणभट्टः संस्कृतगद्यसाहित्ये दण्डिसुबन्ध्वोः अनन्तरं सुविख्यातः कविः वर्तते, सः वात्स्यायनगोत्रीय ब्राह्मणवंशे जन्म गृहीतवान् । तस्य महाकवेः पूर्वजाः बिहार प्रान्तस्थितस्य हिरण्यवाहस्य शोणमहानदस्य तटे ‘प्रीतिकूट’ – नामके ग्रामे न्यवसन् । बाणभट्टस्य पिता चित्रभानुः माता च राज्यदेवी आसीत् । तस्य पुत्रः भूषणभट्टः पुलिन्दभट्टो वा आसीत् । शैशवकाले एव तस्य माता स्वर्गं जगामः चतुर्दशे वर्षे पितुरपि मृत्युः अभवत् । बालसुलभचपलतया सः देशदेशान्तरदर्शनेच्छया मित्रैः सह गृहन्निर्गत्य परिभ्रमन् अनेकेषु राजकुलेषु अगमत् ।

सम्राजो हर्षवर्धनस्य पितृव्यपुत्रः कृष्णः बाणभट्टस्याऽलौकिकया बुध्दिमत्तया पूर्णतया परिचित आसीत् । अत एव स तेन प्रीतिपूर्वकं व्यवहरति स्म । यदा बाणभट्टस्य दुर्ललितमस्य श्रवणपथमागतं, तदाऽयं पत्रद्वारा बाणभट्टमाहूय राज्ञः हर्षवर्धनस्य सभायां प्रवेशितवान् । हर्षवर्धनस्तु प्रथमं बाणं नेच्छति स्म; किन्तु कालान्तरे स्वानुभवादस्य विलक्षणया विद्वत्तया सन्तुष्टः अत्यादरं प्रदर्शितवान् ।

हर्षवर्धनस्याऽऽज्ञयैवायं हर्षचरितनामकस्य गद्यकाव्यस्य रचनां कृतवान् । अस्मिन् ग्रन्थेऽष्टौ उच्छवासास्तत्राधे उच्छवा सत्रये बाणेन स्वीया कथा लिखिता । चतुर्थादुछवासादारभ्य समाप्ति –पर्यन्तं हर्षस्यचरितं वर्णितम् ।

बाणस्य कादम्बरीवद् इदमपि हर्षचरितमपूर्णमेव स्थितम् । तत्रापि कारणं कवेरसामयिकं मरणमेव मन्यन्ते विचारकाः । ऎतिहासिकांशं वर्जयित्वा सन्दर्भोऽयम् सर्वथा काव्यलक्षणोपेतः ।

ओजः समासभूयत्वमेतद् गद्यस्य जीवितम्’ इति विदुषां विशेषतयालङ्कारिकाणां मते गद्यलेखकानां मूर्धन्यो बाणः गद्यकाव्यानां प्रथमं च हर्षचरितम् । पाञ्चालीरीतेर्भक्तो यथा बाणस्तथा नापरः कोऽपीति च । व्यञ्जनाप्रयोगे वक्रोक्तिरचनायां च बाणः सकलकविमूर्धन्यः । हर्षचरितम् केवलमुत्तमगद्यकाव्यभावेनैव नात्पादरणीयम् अपितु सप्तमशतकस्य स्फुटेतिहासभावेनापि प्रशस्यतमम् । हर्षचरिते यदैतिहासिकमितिवृत्तं वर्णितं तत्कस्मिंश्चिदप्यंशे तात्कालिकेतिहासान्न भिद्यते । हर्षचरिते तात्कालिकोत्तरभारतस्य स्थितिः स्पष्टरुपेण प्रकाश्यते । सप्तम उछवासे वन्यग्रामाणां तत्रत्य- गृहाणां वर्णनं नितान्तं सत्यं सरसञ्च । तस्मिन् कालेऽपि भारतं सांस्कृतिकदृष्ट्या रमणीयमासीदेतत्सत्यं तदा प्रतीयते, यदा वयम् हर्षचरिते वेशभूषयोः आचारविचारयोः सेनासंस्थानस्य च वर्णनं पठामः, राज्यश्रियो विवाहावसरे शिल्पिभिः स्वानुरुपाणि यावन्ति भूषणानि समर्पितानि, रजकैश्च यादृशानि रञ्जितानि वस्त्राणि प्रस्तुतानि, तेषां वर्णनेन तात्कालिकी भारतीय – सांस्कृतिक –स्थितिः करामलकवद् भासते ।


बाणस्य हर्षचरितं गद्यकाव्यम् अस्ति। एतत् काव्यम् अपूर्वं वर्तते। एतस्य ऐतिहासिकम् इतिवृत्तं दृष्ट्वा एव एतत् आख्यायिका इत्यत्र अन्तर्भवति इति ज्ञायते।

आधाराः[सम्पादयतु]

  • Cowell, E. B. and F. W. Thomas (1897). The Harṣa-Carita of Bāṇa (English translation), London: Royal Asiatic Society, pp.vii-xiv.
  • Ashok Kaushik. Harsh Charit by Bann Bhatt (in Hindi), Diamond Pocket Books, Delhi
  • Basham, A. L. (1981) [1954]. The Wonder That was India, Calcutta: Rupa & Co., pp.448-51.

[सम्पादयतु]

]

"http://sa.wikipedia.org/w/index.php?title=हर्षचरितम्&oldid=281241" इत्यस्माद् पुनः प्राप्तिः