हिप्पाक्रटीस्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
हिप्पाक्रटीस् ओफ् कोस

Engraving by Peter Paul Rubens, 1638, courtesy of the National Library of Medicine.[१]
जननम् ca. 460 BC
Kos, Greece
मरणम् ca. 377 BC
Larissa, Greece
इतरनामानि Greek: ἹπποκράτηςAncient Greek
वृत्तिः Physician

(कालः – क्रि.पू. ४६० तः ३७०) अयं हिप्पाक्रटीस् (HIPPOCRATES) "पाश्चात्यवैद्यपद्धतेः पितामहः” इत्येव प्रसिद्धः ग्रीस्-देशस्य वैद्यः । अयं "मम सामर्थ्यस्य अनुगुणं रोगिणाम् उपचारं करोमि । रोगिणां शुभम् एव चिन्तयामि । अप्रकटनीयाः विषयाः चेत् वैद्यकीयजीवने मया श्रुतं वा द्रुष्टं वा कदापि कुत्रापि न प्रकटयामि ।“ इति प्रतिज्ञाम् एव निरूपितवान् आसीत् ।

भारते सुविख्यातानां सुश्रुत चरकादीनां काले एव ग्रीस्-देशे हिप्पाक्रटीस् आसीत् । क्रि.पू.४६०तमे वर्षे ग्रीस्-देशस्य "कोस्”द्वीपे हिप्पाक्रटीस् जन्म प्राप्नोत् । तस्य पिता अपि वैद्यः आसीत् । हिप्पाक्रटीस् अत्यन्तं बुद्धिमान् आसीत् । तादृशं बुद्धिमन्तं पुत्रं पिता स्वयम् एव वैद्यविज्ञानम् अबोधयत्, समीचीनं वैद्यशिक्षणम् अपि अदापयत् च । हिप्पाक्रटीसस्य पिता हेराक्लैड्स् मन्त्राधारितां तन्त्राधारितां च वैद्यवृत्तिं करोति स्म । तादृशेषु तन्त्रेषु, अवैज्ञानिकेषु क्रमेषु वा सारः कोऽपि नास्ति इति बहुशीघ्रं ज्ञातवान् हिप्पाक्रटीस् । अतः सः रोगाणां विषये अधिकाधिकं ज्ञातुं थ्रेस्, थेसलि, पलास्बे, अथेन्स् इत्यादिषु देशेषु वैद्यरूपेण, शिक्षकरूपेण च कार्यम् अकरोत् । सः शरीरे विद्यमानानां रक्तस्य, कफस्य, कृष्णपित्तरसस्य, पीतपित्तरसस्य च असमतोलनेन रोगाः जायन्ते इति प्रादर्शयत् । असमीचीनः आहारः, शीतलं वातावरणम्, अनारोग्यकरं वासस्थानं च रोगाणां मूलकारणम् इति अदर्शयत् हिप्पाक्रटीस् । तेषां रोगाणां विवरणम् अपि समीचीनतया लिखित्वा अस्थापयत् च । यत्र यत्र गच्छति स्म तत्र सर्वत्र विद्यमानानां रोगाणां विवरणम् अपि ज्ञात्वा लिखित्वा च अस्थापयत् । तेन लिखितानां विवरणानाम् अभ्यासम् इदानीम् अपि वैद्याः कुर्वन्ति ।

तदानीन्तने काले ग्रीस्-देशे शवानां भेदनं कर्तनं वा न करणीयम् आसीत् । तथापि हिप्पाक्रटीस् तादृश्यां स्थितौ अपि शरीरविज्ञानं सम्यक् अभ्यस्य अस्थिभङ्गं, तदर्थं करणीयान् उपचारान् च इदानीं यथा अस्ति तथैव लिखितवान् आसीत् । अयं हिप्पाक्रटीस् सदा शुचित्वं रक्षति स्म । व्रणान् आदौ स्वच्छीकृत्य अनन्तरम् एव औषधोपचारः करणीयः इति वदति स्म । "शस्त्रचिकित्सायाः प्रकोष्ठः, उपकरणानि च सदा स्वच्छानि भवेयुः । रुग्णस्य रोगलक्षणं सम्यक् परिशील्य उपचारः करणीयः । रुग्णस्य नेत्रं, चर्म, शरीरस्य उष्णता, बुभुक्षा इत्यादयः सर्वे अपि अंशाः अवधातव्याः । प्रतिदिनं जायमानस्य परिवर्तनस्य अपि मानचित्रं सज्जीकरणीयम् । रोगेण सह रोगी अपि अभ्यस्तव्यः ।“ इति शिष्यान् बोधयति स्म हिप्पाक्रटीस् । एषः एव वैद्यजगति प्रथमवारं मानचित्रस्य महत्त्वं ज्ञापितावान् । एषः तीव्ररूपेण परिणामं जनयताम् औषधानां विरोधी आसीत् । अद्यतने समाजे अपि चिन्तनयोग्यानि कानिचित् वचनानि तेन उक्तानि तदा एव हिप्पाक्रटिसेन । तानि च – "समाजे वैद्यपदवीं प्राप्तवन्तः बहवः सन्ति । किन्तु वास्तविकरूपेण वैद्याः केचन एव भवन्ति । विद्यां बोधितवान् गुरुः सदा पितृवत् परिगणनीयः । चिकित्सापद्धतयः सर्वाः अपि सर्वदा रोगिणां कल्याणार्थम् एव भवेयुः । कदापि ताः रोगिणां हिंसार्थं वा अन्यायार्थं वा न भवेयुः । कदापि जीवने यस्य कस्यापि कृते विषप्राशनं न करणीयम् । गर्भपातं न कारयेयुः । पुरुषाणां स्त्रीणां वा मानहानिं न कुर्युः ।“ इति ।

हिप्पाक्रटीस् न केवलं वैद्यानां वा वैद्यवृत्तेः विषये चिन्तयति स्म अपि तु सामाजिकीनां व्यवस्थानां विषये अपि सर्वदा चिन्तयति स्म । सः एवं लिखितवान् अस्ति यत् – "मनवस्य जीवनं न शाश्वतम् । जीवने प्राप्यमाणाः अवसराः न शाश्वताः । स्वानुभवाः अपि कदाचित् दोषयुक्ताः भवन्ति । समीचीने समये समीचीनस्य निर्णयस्य स्वीकरणम् अपि न तावत् सुलभम् । अतः कला एका एव दीर्घकालं जीवति । अतः सा एव शाश्वती भवितुम् अर्हति ।“ इति ।

ग्रीस्-देशस्य शत्रुदेशेण पर्षियादेशेन बहुधा हिप्पाक्रटिसस्य आकर्षणार्थं महान्तः प्रयत्नाः कृताः । बहुविधानि आमिषाणि तत्पुरतः संस्थापितानि । किन्तु हिप्पाक्रटीस् जीवनस्य अन्तपर्यन्तम् अपि देशनिष्ठः एव आसीत् । अथेन्सनगरस्य स्वर्णकालः इति उच्यमाने अवधौ महतां प्रतिभावतां मध्ये अपि महतीं कीर्तिं सम्पादितवान् आसीत् हिप्पाक्रटीस् । अयं ९०तमे वयसि क्रि.पू.३७०तमे वर्षे "ल्यारिस्स" इत्यत्र मरणम् अवाप्नोत् । अद्यापि सः "आधुनिकस्य पाश्चात्यवैद्यपद्धतेः पितामहः” इति आदरपूर्वकं स्मर्यते समग्रेण जगता ।
उद्धरणे दोषः : <ref>शृङ्खला विद्यते, किन्तु <references/> शृङ्खला न प्राप्ता

"http://sa.wikipedia.org/w/index.php?title=हिप्पाक्रटीस्&oldid=262065" इत्यस्माद् पुनः प्राप्तिः