होमियोपति
भवन्त: होमियोपत्यौषधसेवनक्रमं किं कदापि दृष्टवन्त: ? सर्वविधेभ्य: अपि रोगेभ्य: शर्करागुलिका: दीयन्ते । ता: मधुरा: एव । अत: औषधस्य तिक्तकट्वादय: रुचय: न भवन्ति तत्र । यदा रोग: उग्र: जात: भवति, त्वरितोपशमनं च अपेक्ष्यते तदा ते वदन्ति - ‘या: गुलिका: इदानीं सेव्यमाना: सन्ति ता: एव जले सम्मिश्र्य द्रवीकृत्य अधिकावृत्तिकालं (प्रतिपादघण्टं, प्रत्यर्धघण्टं, प्रतिघण्टं वा) सेवताम्’ इति । जले गुलिकानां मिश्रणत: औषधस्य शक्ति: क्षीयते खलु इति वयं चिन्तयाम: । किन्तु ते वदन्ति - ‘तत: एव औषधस्य शक्ति: वर्धते’ इति । कथम् एतत् इति पृष्टे निरुत्तरा: ते । तथापि औषधं जले सम्मिश्र्य सेवनं तु आ बहो: कालत: प्रचलति तत्र ।
विषवस्तु अत्यल्पप्रमाणेन औषधगुलिकासु भवति । तस्य सेवनात् रोगनिरोधकशक्ति: रोगिणि भवति इति तु होमियोपतिसिद्धान्त: । तदेव विषवस्तु द्रवमिश्रणात् द्रवरूपतां यदा प्राप्नोति तत् प्रतिविषायते । यथा यथा द्रवं दुर्बलतां याति तथा तथा औषधस्य सामर्थ्यं वर्धते’ इति प्रतिपादयन्ति होमियोपतिवैद्या: । ‘‘एष: कश्चन वञ्चनाव्यवहार: । वैद्ये रोगिण: य: विश्वास: भवति तम् अवलम्ब्य एव रोग: अपगच्छति, उपशाम्यति वा । अत: होमियोपति-चिकित्सा नाम मानसिकचिकित्साक्रम: कश्चन’’ इति अलोपतिवैद्या: अभिप्रयन्ति । अत: एव कोऽपि वैज्ञानिक: अपि होमियोपतिचिकित्सा-क्रमस्य वैज्ञानिकत्वम् अङ्गीकर्तुं न सिद्ध: । होमियोपतिवैद्यपद्धतौ अवैज्ञानिकबुद्धि: तेषाम् एतावती अस्ति यत् केभ्यश्चित् वर्षेभ्य: पूर्वं ते तां पद्धतिं महता उत्साहेन प्रतिपादयते कस्मैचित् वैद्याय कुप्रतिष्ठाद्योतिकाम् ‘इग्नोबेल् प्रशस्तिम्’ अपि प्रदत्तवन्त: !! किन्तु एषु दिनेषु तादृशानां मतिं परिष्कर्तुम् इव किञ्चन संशोधनम् आकस्मिकतया जातम् अस्ति । दक्षिणकोरियादेशस्य वैज्ञानिका: कस्मिंश्चित् शोधकार्ये निरता: आसन् । तदवसरे आकस्मिकतया रसायनविज्ञानसम्बन्धी कश्चन चमत्कार: तै: ज्ञात: । स च रासायनिक-प्रक्रियाया: मूलसिद्धान्तान् एव निराधारी-करोति । तेनैव सह होमियोपतिसिद्धान्तस्य वैज्ञानिकतां प्रतिपादयति च । चमसमितं लवणं जले मिश्रीकरणात् लवणद्रव: प्राप्यते । तत्र जलयोजनं यथा यथा वर्धयाम तथा तथा तस्मिन् द्रवे स्थितानां सोडियं क्लोरैड्-अणूनां मध्ये अन्तरं वर्धते । एतत् तु सर्वै: ज्ञात: विषय: ।
दक्षिणकोरियादेशे कटर् गेक्लर्, शरिधर समाल् च क्वाङ्गुयुविज्ञानतन्त्रज्ञानसंस्थायां वैज्ञानिकौ । कदाचित् तौ सैक्लोडेक्स्ट्रिन्-नामकेन रासायनिकवस्तुना युक्ते पात्रे जलयोजनं वर्धितवन्तौ । ताभ्यां यथा यथा जलं योजितं तथा तथा सैक्लोडेक्स्ट्रिन्-अणव: न दूरं गता:, अपि तु राशिरूपेण स्थिता: । प्रयोगार्थं स्वीकृते सैक्लोडेक्स्ट्रिन्वस्तुनि एव कोऽपि दोष: स्यात् इति चिन्तयन्तौ तौ सोडियं गुवानोसैन् मोनोफास्फेट्नामकं वस्तु स्वीकृत्य पूर्वतनं कृत्यम् एव पुन: कृतवन्तौ । अत्रापि पूर्वोक्त: एव परिणाम: । तत: तौ लवणं स्वीकृत्य प्रयोगस्य आवर्तनं कृतवन्तौ । आश्चर्यं नाम लवणाणव: दूरं न गता:, प्रत्युत राशीभूय स्थिता: ! आत्मना प्राप्ते फलितांशे विश्वासम् अकुर्वन्तौ तौ लेसर्परीक्षा, स्क्यानिङ्ग्, इलेक्ट्रन् मैक्रास्कोपि इत्यादिभि: अत्याधुनिकतन्त्रै: राशीभूतानाम् अणूनां परीक्षणं कृतवन्त: । यथा यथा द्रव: दुर्बल: भवति तथा तथा अणूनाम् आकार: पञ्चगुणिततया दशगुणिततया वा प्रवृद्ध: दृष्ट: ताभ्याम् । एतदवसरे ताभ्याम् अन्योऽपि अंश: लक्षित: । द्रवस्य अतिदुर्बलताकाले एव अणुराशे: सामर्थ्यं वर्धनं दृश्यते स्म । द्रव: यदा अल्पजलांशयुक्त: तन्नाम द्रवे यदा अणूनां बाहुल्यं भवति तदा एष: परिणाम: न दृश्यते स्म प्राधान्येन ।
जलादय: द्रवा: ध्रुवद्रवा: इति उच्यन्ते विज्ञानशास्त्रे । एतेषाम् अणूनाम् एकस्यां कोटौ ऋणध्रुव:, अपरस्यां धनध्रव: च भवति । एतादृशेषु ध्रुवद्रवेषु एव पूर्वोक्त: विपरिणाम: जायते, न तु अन्यद्रवेषु । होमियोपत्यौषध-निर्माणावसरे ध्रुवद्रवाणाम् एव उपयोग: क्रियते । कोरियन्वैज्ञानिकौ स्वस्य अनुभवं निरूप्य अन्यान् अपि उक्तवन्त: - ‘भवन्त: अपि एतस्य परीक्षणं कुर्वन्तु’ इति । नेदर्ल्याण्डीये ग्रोनिङ्गेन्-विश्वविद्यालये अपि परीक्षणं प्रवृत्तम् । तत: तत्रत्य: वैज्ञानिक: रसशास्त्रतज्ञ: जान् एन्बटर्स् अवदत् - ‘आश्चर्यकरम् एतत्, अस्माकम् आघातकरं चापि’ इति । ‘जलाणूनां स्मरणशक्ति: अपि अस्ति’ इति इत्येतत् तत्त्वं पतिपाद्य वैज्ञानिकानाम् उपहास-पात्रीभूत: ‘कुप्रतिष्ठाप्रशस्ति’भाक् फे्रञ्च् प्रतिरक्षावैज्ञानिक: (इम्यूनालजिस्ट्) जाक्स् बेन्वेनिस्त् वदति - ‘द्रवीभूतौषधयुक्ते जले आधिक्येन जलं योज्यते चेदपि औषधस्य स्मरण-मुद्रा तु अक्षततया तिष्ठति एव’ इति । एतेन प्रयोगेण होमियोपतिचिकित्साक्रमस्य वैज्ञानिकाधार: कल्पित: अस्ति यत् तत् तु महते सन्तोषाय ।