सामग्री पर जाएँ

"आण्ड्रियेस् वेसेलियस्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) clean up using AWB
No edit summary
पङ्क्तिः ३०: पङ्क्तिः ३०:


अयम् आण्ड्रियेस् वेसेलियस् बहूनि पुस्तकानि अलिखत् । तेषु '''“दि ह्युमानीस् कार्पोरिस् फ्याब्रिक्” (मानवस्य देहरचना)''' नामकं पुस्तकम् अत्यन्तं प्रसिद्धम् । सः निरन्तरं ६ वर्षाणि यावत् शवानां छेदनं कृत्वा अधीत्य तत् पुस्तकम् अलिखत् । तत्र ६६३ पुटानि सन्ति । वृक्षाक्षेन रचितानि २७८ सुन्दराणि चित्राणि अपि सन्ति । तस्मिन् पुस्तके मानवस्य [[शरीरम्|शरीरस्य]] विभिन्नानाम् अङ्गानां रचनायाः विवरणम् अपि व्यवस्थितरूपेण निरूपितम् अस्ति । तत् पुस्तकं मानवस्य अङ्गरचनायाः विषये प्रकटितेषु पुस्तकेषु अत्युत्तमम् इति प्रसिद्धम् अस्ति ।
अयम् आण्ड्रियेस् वेसेलियस् बहूनि पुस्तकानि अलिखत् । तेषु '''“दि ह्युमानीस् कार्पोरिस् फ्याब्रिक्” (मानवस्य देहरचना)''' नामकं पुस्तकम् अत्यन्तं प्रसिद्धम् । सः निरन्तरं ६ वर्षाणि यावत् शवानां छेदनं कृत्वा अधीत्य तत् पुस्तकम् अलिखत् । तत्र ६६३ पुटानि सन्ति । वृक्षाक्षेन रचितानि २७८ सुन्दराणि चित्राणि अपि सन्ति । तस्मिन् पुस्तके मानवस्य [[शरीरम्|शरीरस्य]] विभिन्नानाम् अङ्गानां रचनायाः विवरणम् अपि व्यवस्थितरूपेण निरूपितम् अस्ति । तत् पुस्तकं मानवस्य अङ्गरचनायाः विषये प्रकटितेषु पुस्तकेषु अत्युत्तमम् इति प्रसिद्धम् अस्ति ।

==बाह्यसम्पर्कतन्तुः==
* [http://link.library.utoronto.ca/anatomia/ Anatomia 1522-1867: Anatomical Plates from the Thomas Fisher Rare Book Library]
* [http://www.andreasvesalius.be Bibliography van Andreas Vesalius]
* [http://www.bium.univ-paris5.fr/histmed/medica/vesale.htm#vonseng Vesalius's « Anatomies » Introduction by Jacqueline Vons]
* [http://himetop.wikidot.com/andreas-vesalius Places and memories related to Andreas Vesalius]
* [http://www.archive.org/details/GalileoGalileivesaliusAndServetus Play on Vesalius]
* [http://vesalius.northwestern.edu/ Translating Vesalius]
*[http://archive.nlm.nih.gov/proj/ttp/flash/vesalius/vesalius.html ''Turning the Pages'']: a virtual copy of Vesalius's ''De Humanis Corporis Fabrica''. From the [[U.S. National Library of Medicine]].
texts digitized by the [[Bibliothèque interuniversitaire de santé]], see its digital library [http://www.bium.univ-paris5.fr/histmed/medica.htm Medic@].
* [http://hdl.handle.net/1808/6347 Vesalius four centuries later] by [[John Farquhar Fulton|John F. Fulton]]. Logan Clendening lecture on the history and philosophy of medicine, University of Kansas, 1950. Full-text PDF.
* Andreas Vesalius, [http://www.ospfe.it/per-la-formazione/biblioteca/progetto-vesalio/vesalius-project ''VESALIUS project'']. Information about the new DVD "De Humani Corporis Fabrica" produced by Health Science Library of the St. Anna Hospital in Ferrara - Italy.
* [http://www.vub.ac.be/VECO/bveco/ Vesalius College in Brussels]


[[वर्गः:वैज्ञानिकाः]]
[[वर्गः:वैज्ञानिकाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]

११:२९, १२ एप्रिल् २०१४ इत्यस्य संस्करणं

Andreas Vesalius
जननम् (१५१४-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-३१)३१ १५१४
Brussels, Habsburg Netherlands
मरणम् १५ १५६४(१५६४-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-१५) (आयुः ४९)
Zakynthos
कार्यक्षेत्राणि Anatomy
संशोधनमार्गदर्शी Johannes Winter von Andernach
Gemma Frisius
शोधच्छात्राः Matteo Realdo Colombo
विषयेषु प्रसिद्धः De humani corporis fabrica or "the structure of the human body"
प्रभावः Jacques Dubois
Jean Fernel


(कालः – ३१. १२. १५१४ तः १५. १०. १५६४)

अयम् आण्ड्रियेस् वेसेलियस् (Andreas Vesalius) पाश्चात्यजगतः आधुनिकस्य अङ्गरचनाशास्त्रस्य जनकः । अयं १५१४ वर्षे डिसेम्बर् मासस्य ३१ तमे दिनाङ्के बेल्जियं–देशस्य ब्रसल्स् इति प्रदेशे जन्म प्राप्नोत् । अस्य आण्ड्रियेस् वेसेलियसस्य माता आङ्ग्लप्रदेशीया आसीत्, पिता च जर्मन्प्रदेशीयः । तस्य आण्ड्रियेस् वेसेलियसस्य पिता जर्मन्–चक्रवर्तेः ५ चार्ल्स् इत्यस्य कृते औषधानाम् आपूर्तिं करोति स्म । अयम् आण्ड्रियेस् वेसेलियस् धनिककुले जातः । अस्य विद्याभ्यासः लूवेन् तथा प्यारिस् नगरेषु जातः । यद्यपि अयं गेलेनस्य पद्धत्या एव अधीतवान् तथापि बहिरङ्गरूपेण गेलेनस्य विरोधम् अकरोत् । स्वयमेव अङ्गच्छेदनं कृत्वा विषयान् ज्ञातुम् इच्छति स्म । तदर्थं योग्यम् अवसरम् इटलीदेशस्य पादुअ–विश्वविद्यालये प्राप्नोत् । तत्र अयम् आण्ड्रियेस् वेसेलियस् अङ्गरचनाविज्ञानस्य प्राध्यापकरूपेण प्राविशत् । अनन्तरं राजवंशस्य वैद्यकीय–सूचनाकाररूपेण नियुक्तः अभवत् । कालान्तरे १५५५ तम् वर्षे चक्रवर्ती यदा पदच्युतः जातः तदा अयम् आण्ड्रियेस् वेसेलियस् स्पेन्–देशम् अगच्छत् । तत्रापि सः राजवंशस्य वैद्यकीय–सूचनाकाररूपेण एव नियुक्तः ।

यद्यपि अयम् आण्ड्रियेस् वेसेलियस् अत्युत्कृष्टं साधितवान् तथापि मतान्धानां हिंसातः मुक्तिं प्राप्तुं न शक्तवान् एव । यथा यथा अस्य आण्ड्रियेस् वेसेलियसस्य प्रसिद्धिः अधिका जाता तथा तथा तस्य शत्रूणां संख्या अपि वर्धिता । ते मतान्धाः अयम् आण्ड्रियेस् वेसेलियस् शवचोरः, पाषण्डः च इति आक्षिप्तवन्तः ।

यूरोप्–देशस्य बहुषु स्थानेषु अस्य आण्ड्रियेस् वेसेलियसस्य विरुद्धं प्रतिभटनानि प्राचलन् । अनेन जुगुप्सां प्राप्य आण्ड्रियेस् वेसेलियस् बहूनां पुस्तकानां हस्तप्रतिं दग्धवान् । पादुअ-विश्वविद्यालयस्य प्राध्यापकस्थानाय अपि त्यागपत्रम् अददात् । अयम् आण्ड्रियेस् वेसेलियस् प्यालस्टैन्प्रदेशे विद्यमानां पवित्रभूमिं गत्वा आगच्छेत् इति दण्डनम् अपि विहितम् । तदनुगुणं सः तत्र अगच्छत् । तदनन्तरं तेन पूर्वतनम् उद्योगं प्रतिनिवर्तनीयम् इति आह्वानम् अपि प्राप्तम् । तदर्थं ततः प्यालस्टैन्तः प्रत्यागमनावसरे ग्रीस्–समीपे नौकायाः अपघातः सञ्जातः । तत्रैव १५६४ तम् वर्षे अक्टोबर्–मासस्य १५ दिनाङ्के मरणम् अवाप्नोत् अयम् आण्ड्रियेस् वेसेलियस् । समीपे विद्यमाने द्वीपे एव तस्य समाधिम् अपि अकुर्वन् ।

अयम् आण्ड्रियेस् वेसेलियस् बहूनि पुस्तकानि अलिखत् । तेषु “दि ह्युमानीस् कार्पोरिस् फ्याब्रिक्” (मानवस्य देहरचना) नामकं पुस्तकम् अत्यन्तं प्रसिद्धम् । सः निरन्तरं ६ वर्षाणि यावत् शवानां छेदनं कृत्वा अधीत्य तत् पुस्तकम् अलिखत् । तत्र ६६३ पुटानि सन्ति । वृक्षाक्षेन रचितानि २७८ सुन्दराणि चित्राणि अपि सन्ति । तस्मिन् पुस्तके मानवस्य शरीरस्य विभिन्नानाम् अङ्गानां रचनायाः विवरणम् अपि व्यवस्थितरूपेण निरूपितम् अस्ति । तत् पुस्तकं मानवस्य अङ्गरचनायाः विषये प्रकटितेषु पुस्तकेषु अत्युत्तमम् इति प्रसिद्धम् अस्ति ।

बाह्यसम्पर्कतन्तुः

texts digitized by the Bibliothèque interuniversitaire de santé, see its digital library Medic@.