पार्थपाथेयम्
पार्थपाथेयम् | |
---|---|
'राजा' रविवर्मणा निर्मितं सुभद्रार्जुनयोः चित्रम् | |
लेखकः | काशिराजः प्रभुनारायणसिंहः |
देशः | भारतम् |
भाषा | संस्कृतम् |
प्रकारः | उपरूपकम् |
पार्थपाथेयं नाम उपरूपकं काशिराजस्य प्रभुनारायणसिंहस्य सहृदयोल्लाप्यं वर्तते । तस्य शासन-समयः १८८६ ख्रीष्टाब्दतः १६३१ ख्रीष्टाब्दं यावत् वर्तते । वामाचरण-भट्टाचार्यानुसारं लेखकः शान्तमूर्तिः, सनातनधर्मस्य मूर्तरूपः, स्थविरोऽपि तरुण इवाध्यवसायशीलश्चासीत् । काव्य-प्रणयने शास्त्रार्थ-पारावारावगाहने च समानमेवासीदस्य पाटवम् ।
कथावस्तु
[सम्पादयतु]सुभद्रार्जुनं प्रति निबद्धानुरागा अभवदित्यर्जुनोऽपि न जानाति । सुभद्रार्जुनस्य चित्रं रचयन्ती सती मनो मोदयते स्म । चित्रस्याधस्ताल्लिखितं तया पद्यमिदं प्रसिद्धमस्ति -
अशक्नुवन्ती परिवोढुमात्मना भरं चलन्मानसगूढरागिणी।
प्रवर्धमानार्जुनमारुरुक्षते यदुन्मुखी तिष्ठति माधवीलता।।
तत्सहचरीविरचितमर्जुनस्य चित्रान्तरं नारद-प्रेरितेनानुचरेण केनचिद् अर्जुनाय समर्पितम् । तच्च द्रौपदीहस्तं गतम्।
नारदोऽचिन्तयद् यत्, कृष्णेन उलूपीप्राप्ति-प्रसङ्गे मदनुगृहीताप्सरसाम् उद्धारोऽपि कर्तव्यः । युधिष्ठिरसभामागत्य नारदो युधिष्ठिरं प्रत्याह - भावि-कलह-निवारणाय भवद्भिर्नियमो विधेयो यदस्माकं सर्वेषां पत्नी द्रौपदी केनचिदेकेन पत्या वर्षमेकं सहवासं कुर्यात् । ततोऽन्येन। एवं क्रमेणैकेन पत्या साकं निवसन्ती सा पत्यन्तरेण न द्रष्टव्या । विपरीताचरणेऽभियुक्तो द्वादशवर्षाणि यावद् ब्रह्मचारी भूत्वा भ्रमेद् वनाद् वनान्तरम्।
एकस्मिन् दिवसे चौरेण नीयमानां ब्राह्मणधेनुं रक्षितुकामोऽर्जुनो गाण्डीवार्थं युधिष्ठिरकक्षं प्राविशत्, व्यलोकयच्च द्रौपदीं युधिष्ठिरेण सह । समयानुसारमर्जुनो वनगमनाय समुद्यतो बभूव । तदा द्वारकातः पत्रमेकं प्राप्तं तेन । पत्राचारो ब्रह्मचारिणां कृते न शोभनीय इति पत्रम् अपठित्वैव वनं निर्जगाम।
गङ्गाद्वारं लब्ध्वासौ यावदेव अवगाहनार्थं नद्यामवतरति, तावदेव कयाचित् तरुण्या जलान्तर एव गृहीतः सन् क्रन्दितुमारेभे । पश्चाच्च रहस्यमिदं प्रकाशमागतम्।
समयान्तरे पार्थ उलूप्यां निहितानुरागो जातः । तयोस्तत्र गान्धर्वविवाहः संवृत्तः । उलूपी च प्रसवार्थं पितुर्गृहं गता।
कस्मिंश्चिद् दिने चित्राङ्गदा नाम नायिका तत्र आजगाम । अर्जुनस्तस्याः दर्शनेनासक्तोऽभूत् । तस्याः पितुश्चित्रवाहनस्य अनुज्ञया तयोर्विवाहः समपद्यत ।
चित्राङ्गदां पुनः संयोगेनाश्वास्यार्जुनो भ्रमन् पुनरपि द्वारकान्तिकं ययौ । तत्र स्नानार्थं मुनिजलाशयावतीर्णोऽसौ वर्गां नाम काञ्चिद् रमणीं व्यलोकयत् । ग्राहरूपिणी सार्जुनचरण-स्पर्शमात्रेणैव स्त्रीपदं प्रापिता । वर्गा कुबेरस्य दास्यासीत् । तया स्वस्य स्वसहचरीणां चाप्सरसां ग्राहरूप-प्राप्ति-कथा निवेदिता।
अचिरमेवार्जुनस्ताः सर्वाः उद्धृतवान् । ततोऽसौ प्रभासतीर्थं प्रतस्थे । पुनः कृष्णेन सह स द्वारकां जगाम । पाण्डवं विलोक्य माधवस्य भगिन्या सुभद्राया मनसि स्नेहाङ्कुर आविर्बभूव । अर्जुनं पतिरूपेण प्राप्तुं सा दुर्गां पूजयति स्म । दुर्गयाभीष्टं तस्या अपूरयत् । कृष्णेन एकस्मिन् दिने सुभद्रार्जुनयोः रहसि परस्परावलोकनाय संयोग उपस्थापितः । तत्रैवार्जुनेन द्रौपदीप्रेषितं प्रेमपत्रम् आसादितम्। सन्ध्यासमये गृहं प्रति प्रस्थितायाः सुभद्रायाः करं धृत्वार्जुनेनेदं निगदितम् -
विलप्य शून्या विदिशा विचिन्वती यदर्थमेवं करभोरु कम्पसे।
नितान्तहार्देन गतो विधेयतां ददाति तुभ्यं स करावलम्बनम्।।
बलरामः सुभद्रायां पार्थस्य अनुरागम् अशोभनं मेने । स मुसलमुद्यम्य तं प्रहर्तुम् इयेष किन्तु कृष्णेन स निवारितः।
प्रारूपम्
[सम्पादयतु]उपरूपकेऽस्मिन् त्रयोऽङ्काः। विदूषकस्य हास्यप्रवृत्तिर्विलक्षणैव वर्त्तते । रङ्गमञ्चे नायकभूतस्य पात्रस्य प्रत्येकमङ्के उपस्थितिर्नास्ति । नैतद् भारतीयम्।
प्रथमेऽङ्के सुदूरं यावत् केवलं विदूषकस्य स्थितिः नाट्यनियमल्लङ्घनं व्यनक्ति । दौवारिकोऽपि तत्रैवागत्य ब्रवीति -
'दैवात्त्यक्तपुनः प्रसक्तविभवाः पार्थाः सुखं शेरते'।
अर्थोपक्षेपकस्य कार्यं तस्मिन्नेवाङ्के पत्रेण निर्व्यूढम् । उपरूपकमिदं मनोरञ्जननिर्भरमेव । तत्र गीतानां सम्भारोऽतीव रोचकोऽस्ति । नायिकोलूपी गायति -
‘रुचिरशुचिनखे, पाटलापत्रपुष्पं पवित्राङ्गुलीभिश्च खर्जुरगुच्छम्। इत्यादि ।
तृतीयेऽङ्के दूरस्थानां स्थलानां घटनाः समाविष्टाः । यद्यपि दृश्यानां विभाजननिर्देशो नास्ति तथापि तत्र बहूनि दृश्यानि स्पष्टं प्रतीयन्ते । क्वचित् भावानुकारि-शब्दानां सुष्ठु प्रयोगोऽपि रमणीयतामादधाति । यथा -
१– अले भाइओ धड़फडेदि मह जीओ।
२- ही ही इदो झणझणन्द वणसहो।
३–दुन्दुभी ठठणाअदि।
अनेकत्र वाराणसेया शब्दावली शोभते ।