रामचन्द्रः (वैय्याकरणः)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


रामचन्द्रः एकः संस्कृतस्य वैय्याकरः वर्तते । एतेन प्रक्रियाकौमुदी इति ग्रन्थः लिखितः । अत्र च पाणिनीयसूत्राणां व्याख्यानं विद्यते । एवमेव धर्मकीर्तिः अपि रूपावतारः इति व्याख्यां लिखितवान् । परन्तु रामचन्द्रस्य व्याख्या विस्तृता, सरला च वर्तते । शब्दानां प्रक्रियाबोधनमेव एतस्य ग्रन्थस्य महत् उद्देश्यम् वर्तते । रामचन्द्रः शेषवंशीयः इति प्रसिद्धं वर्तते । शेषवंशः वैय्याकरणवंशमित्येव प्रसिद्धं वर्तते । अस्मिन् वंशे २५ वैय्याकरणाः आसन् इति ज्ञातं वर्तते । रामचन्द्रस्य पौत्रः विठळः प्रक्रियाकौमुद्याः उपरि प्रसादः इति व्याख्यां लिखितवान् ।

सम्बद्धाः लेखाः[सम्पादयतु]