सदस्यः:Monika.R1810483
मान्या सुधामूर्तिवर्या सारस्वतप्रपञ्चे सुविख्याता । विविधभाषाभिः रचिताः तस्याः अनेकाः कृतयः जनादरपात्रतां गताः सन्ति।"कथाच्छलेन बालानां नितिस्तदिह कथ्यते" इति हि हितोपदेशोक्तिः। कथानां द्वारा विषयस्य ग्नापनं श्रोतृषु पठितृषु च विशेषपरिणामम् जनयति। अतः एव आ प्राचीनकालात् अस्मत्पूर्वजैः कथा अवलम्बिता विषयग्नापनाय। शास्त्रेषु लौकिकन्यायान् उदाहत्य विषयाः निरूप्यन्ते। ते न्यायाः अपि कथाः अवलम्ब्य एव रचिताः प्रायाः। तामेताम् एव परम्पराम् अनुसरति सुधामूर्तिवर्या अपि एतस्मिन् पुस्तके।
अनुभवस्य पृष्ठभूमिका,कथामाध्यमेन विषयस्य ग्नापनं,सरला शैली च सुधामूर्तेः कृतेः वैशिष्ट्यानि। सामान्येषु जनेषु निहिताम् असामान्यम् वैशिष्ट्यम् अभिग्नातुम् विरलाः एव जनाः शक्नुवन्ति। तादृशेषु विरलेषु अन्यतमा अस्ति सुधामुर्तिवर्या। विशिष्टाः घटनाः चित्वा व्यक्तित्वविकासाय सज्जीकृताः एते लेखाः पठितृषु कमपि विशेषपरिणामम् जनयन्ति। एतस्यां स्थिताः लेखाः न परस्परावलम्बिनः।
अतः कार्यकर्तृणां समूहिकप्रयत्नेन सज्जीकृतम् अस्ति एतत् पुस्तकम्। यद्यपि विविधैः जनैः एतासाम् अनुवादः कृतः,तथापि शैलिभेदः महान् यथा न भवेत् तथा अत्र प्रयासः कृतः। अनुवादावसरे सरला शैली अहता विशेषतः। एतस्मात् वाचकाः एतासां सरूचिपठने कामपि बाधां न अनुभवेयुः इति भावयामः वयम्। पुस्तकस्यास्य संस्कृतानुवादाय अनुमतिं दत्तवत्यै सुधामूर्तिवर्यायै विशेषतः कृतग्नताः समर्प्यन्ते। अनुवादे सहकृतवद्भ्यः सर्वेभ्यः कार्यकतृभ्यः मुद्रकादिभ्यः चापि कृतग्नतां समर्पयामः वयम्।