सदस्यः:1910478 Saikiran TM/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सुरत् वज्र नगरः[सम्पादयतु]

सुरत् महानगरं गुजरातराज्यस्य दक्षिणे तापीनद्याः तीरे स्थितं महानगरमस्ति । भारतस्य, गुजरातराज्यस्य च अन्यनगरेभ्यः आप्रवासस्य (immigration) आधिक्यात् एतन्महानगरं शीघ्रविकासं कुर्वदस्ति । सद्यः सुरत् महानगरस्य ७०% जनसङ्ख्या नगरेतरवासिनामस्ति । अतः अत्र गुजराती, हिन्दी, आङ्ग्लभाषानां विद्यालयाः सन्ति । अत्र मराठी-बङ्गाली-तमिळ-तेलुगु-उडिया-मलयालमभाषानामपि विद्यालयाः दरिदृश्यन्ते । सुरतमण्डलस्य मुख्यकेन्द्रमस्ति एतन्महानगरम् । भारतस्य स्वच्छतमनगरेषु सुरतमहानगरं सर्वोच्चस्थानेऽस्ति । 'सिल्क सिटी', वज्रनगरम् (The Diamond City), हरितनगरम् (Green City) इति प्रख्यातमेतन्महानगरम् । अस्य सूर्यपुरम् इति नामान्तरम् अस्ति । महानगरस्यास्य वर्तमानं यथा उज्ज्वलमस्ति, तथैव भूतकालोपि आसीत् । आङ्ग्लानां प्रप्रथमशासनम् एतन्महानगरे आरब्धम्, आभारते विस्तृतञ्च । ‘डच्’-‘पुर्तगाली’-जनानाम् एतत् मुख्यव्यापारस्थानमासीत् ।

इतिहासः[सम्पादयतु]

क्रिस्ताब्दस्य ३०० वर्षपूर्वमपि सुरत् महानगरस्येतिहासः अतीव तेजस्वी आसीत् । मूलतः एतन्महानगरं हिन्दुपरम्पराम् अनुसरतां नगरमासीत् । १५०० तः १५२० पर्यन्तम् अस्य नाम सूर्यपुरम् इति आसीत् । अत्र भृगु-सौवीरा-नामकराजानौ क्रमेण शासनं चक्रतुः । १२ शताब्दे 'पारसी'जनाः अत्र स्थायिरूपेण निवसितवन्तः । १७५९ तमे वर्षे मुघलशासकेभ्यः एतन्महानगरम् आङ्ग्लाः बलेन नीतवन्तः । सुरतमहानगरं तापीनद्याः तीरे, अरबीसागरतटे च विकसितम् अस्ति । अस्य समुद्रतटविस्तारः ६ कि.मी. लम्बमानः अस्ति । अतः प्रचीनकालात् एतन्महानगरं व्यापारस्य मुख्यस्थानम् अस्ति । १६, १७, १८ शताब्देषु अस्य समुद्रतटः भारतस्य प्रमुखं व्यापारकेन्द्रमासीत् । एतन्महानगरं पोत(Ship)निर्माणस्यापि मुख्यं केन्द्रमासीत् । १६ तमे शताब्दे निर्मितस्य अत्रत्यस्य राजदुर्गस्य प्राचीनस्मारकेषु गणना भवति । पुरा एषः दुर्गः सुरतमहानगरम् आक्रमणकारैः रक्षति स्म । कर्णावतीमहानगरस्य राजा ‘महमूद्-III’ (१५३८-१५५४) आदिष्टवान् आसीत् "यथा दुर्गः दुर्जेयः भवेत् तथास्य निर्माणं भवतु" इति । आदेशानुसारं ‘साफि-आघा’नामकः तुर्कीसैनिकः दुर्गनिर्माणस्य दायित्वं स्व्यकरोत् । दुर्गनिर्माणस्य कार्यं १७४६ तमे वर्षे समाप्तं जातम् । राजा यथा इष्टवान् आसीत्, तथैव दुर्गस्य निर्माणं जातम् आसीत् । अतः राजा तं ‘खुदावन्द् खान्’ इति नामकरणं कृतवान् । ततः ‘अक्बर्’-राजा सुरतस्य अधिपतिः जातः । यदा सः दिल्लीमहानगरं गतवान्, तदा स्वस्य विश्वस्तं ‘सिधि’ इत्येनम् उपराजत्वेन नियुक्तवान् । परन्तु १८५९ तमे वर्षे ‘सिधि’ इत्यस्मात् आङ्ग्लाः एनं दुर्गं बलात् नीतवन्तः ।

वीक्षणीयस्थानानि[सम्पादयतु]

प्राचीनकालात् सुरत् महानगरं बाह्यप्रदेशात् आगतानां निवासस्थानम् अस्ति । अतः भिन्नसंस्कृतीनां, भिन्नसम्प्रदायपथां मुख्यस्थानमपि एतन्महानगरम् अभूत् । अत्र यानि वीक्षणीयस्थलानि सन्ति, तानि भिन्नसंस्कृतीनां स्मारकाणि सन्ति । यथा – सुरतमहानगरस्य कोटः(Fort), 'पारसी अगियारी', चिन्तामणिजैनमन्दिरं, सरदार् वल्लभभाई पटेलस्मारकं, दाण्डीसमुद्रतटः, तीथलसमुद्रतटः, गोपीतडागः, ‘नवसईद् मस्जिद्’, वीरनर्मदसरस्वतीमन्दिरम् इति ।