सामग्री पर जाएँ

सदस्यसम्भाषणम्:Sneha santhosh 1831156/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भरतः (नाट्यशास्त्रप्रणेता)

[सम्पादयतु]

भरत मुनिः ५०० ई पू काले जीवन् नाट्यशास्त्रम् लिखितवान् । नाट्यशास्त्रे त्रयोदशाध्यायः : समीक्षात्मकमालोचनम् । नाट्यशास्त्रस्य रचनाकारः भरतः अत्र अभिप्रेतः । एते भारतीयपण्डिताः स्वविषये कुत्रापि अधिकं न लिखन्ति, अतः तेषां विषये व्यक्तिगतं विवरणं न लभ्यते।न तस्य माता ज्ञाता, न पिता ज्ञातः,न गुरुर्ज्ञातः, न वा पत्नी ज्ञाता।तस्य पुत्रस्य नाम कोहलः आसीदिति एतावदेव ज्ञायते।अस्य कालविषये अपि मतभेदाः सन्ति।केचन पण्डिताः चतुर्थं शतकमिति तस्य कालं मन्यन्ते।केचन पञ्चमं शतकं तथा केचन षष्ठं शतकं तस्य कालं मन्यन्ते। मूलतः भरतस्य ग्रन्थसय विषयः नाट्यशास्त्रम्।तथाप्यत्र अन्तिमेषु षट्सु अध्यायेषु सङ्गीतसय विवेचनमस्ति।एतेन ज्ञायते यत् तदानीमपि सङ्गीतं तथा नाट्यमिति द्वयोः विद्ययोः सम्मेलः आसीत्।अनयोः द्वयोः विद्ययोः अद्यापि भरतस्य वचनानि प्रमाणभूतानि सन्ति। नाट्यक्षेत्रे भरतस्य रससिद्धान्तः अद्यावधि अतुलनीयः अपराजितः च विद्यते।सङ्गीतेऽपि भरतस्य विवेचनं मूलभूतं वर्तते।तेन ९स्वराणां सप्तकमङ्गीकृतम्।तत्र ७ शुद्धस्वराः सन्ति तथा द्वौ विकृतस्वरौ (अन्तरगन्धारः काकलीनिषादः च)स्तः।भरतस्य ग्रन्थः उत्तरभारतीयसङ्गीते तथा दक्षिणभारतीयसङ्गीतेऽपि आधारभूतः।

उपोद्घातः

नाटकं तावद्भद्वति परा विद्या। तत्र नाटके क्रियापक्षं (प्रयोगपक्षम्) यथा भवति तथैव ज्ञानपक्षमपि भवति। ज्ञानपक्षस्याधारेण नाटकं भवति वेदस्तथा क्रियापक्षस्याधारेण शास्त्रम्। नाट्यवेदस्य क्षेत्रं तावद्भवति अभिज्ञानशकुन्तलादीनि आलेखानि यानि भरतमुनिना नाट्यशास्त्रस्यादितः अन्त्यं यावत् ’काव्यम्’-इति परिभाषितानि। एतेष्वेव भवति संसारे कर्तव्याकर्तव्यविधिनिर्देशविधानम्। तस्मादेव वेदस्य स्थानं शीर्षे निर्धारितम्- “प्रत्यक्षेणानुमित्या वा यस्तूपायो न विद्यते। एनं विदन्ति वेदेन तस्माद्वेदस्य वेदता॥” इति। विधिनिषेधनिर्देशविधौ सहायपरकं भवति नाट्यशास्त्रम्। अयं जातो नट्यवेद-नाट्यशास्त्रयोर्भेदः। भरतस्य नाट्यशास्त्रे कदाचिदेवमेव संकेतः प्राप्यते यत् नाट्यप्रवृत्तिर्जगति सृष्टेरादिकालमेव सञ्जाता। अत एव नाट्यशास्त्रे स्थाने स्थाने नाट्यशास्त्रस्य प्रथमाचार्यः सृष्टिकर्ता स्वयम्भूः पितामह स्वीकृतः। नाट्यतत्त्वम् ननु किमिदं नाट्यं नाम? नाट्यशब्दे मूलं तावद्धातुः ’नट’ इति। “अवस्पन्दः” “किञ्चित्स्पन्द” इति वा तदर्थः। अवस्पन्दः किञ्चित्स्पन्दः वा तथा स्यात् यः अर्थद्योतको भवेत्। किमिदं प्रतिपाद्यं वस्तु? अस्योत्तरमेवमुक्तं – रसाः भावाः कर्तव्यतावोधश्च। तत्र ष्यञ्प्रत्ययेन, ण्यत्प्रत्ययेन, ञ्यप्रत्ययेन च सिद्ध्यति नाट्यशब्दनिष्पत्तिः। ष्यञ्प्रत्ययेन निष्पन्नस्य नाट्यशब्दस्यार्थो भवति नटस्य गुणाः तथा कर्म (क्रिया), ण्यत्प्रत्ययनिष्पन्नस्य नाट्यशब्दस्यार्थस्तावद् नाट्यव्यापारः, किन्तु ञ्यप्रत्यययोगेन नटानामाम्नायमिति। अतो त्रीनर्थानेकत्रीकृत्य नाट्यशब्दस्यार्थो भवति नाटानां स्वाम्नायानुसारं विहिता अभिनयव्यापारः। अर्थोऽयं भरतमुनिनापि समर्थितः।  नाट्यशास्त्रे त्रयोदशाध्यायः नाट्यशास्त्रस्य द्वितीये तावदध्याये अष्टमे तावच्छ्लोके नाट्यमण्डपस्य त्रैविध्यं वर्णितं भरतेन - “इह प्रेक्षगृहाणां तु धीमता विश्वकर्मणा। त्रिविधः सन्निवेशश्च शास्त्रतः परिकीर्तितः॥” अत्र नाट्यमण्डपस्य आकारत्रयं भवति १. विकृष्टं नाम प्रेक्षागृहम्, २.चतुरस्रं नाम प्रेक्षागृहम्, ३. त्र्यस्रं नाम प्रेक्षागृहम्। एतेषां च प्रमाणमपि भवति त्रिविधं ज्येष्ठमध्यमाधमभेदेन। अत्र त्रयोदशे तावदध्याये प्रथममुच्यते यत् प्रेक्षागृहस्य भेदत्रयान् सम्यगवबुद्ध्य तत्पश्चात् कक्ष्यानिश्चयो विधेयः इति। द्वितीयाध्याये नाट्यमञ्चस्य द्वारसंस्थपनविषये उक्तं भरतेन- “रङ्गशिर्षं तु कर्तव्यं षड्दारुकसमन्वितम्। कार्यद्वारद्वयं चाऽत्र नेपथ्यगृहकस्य तु॥” नेपथ्यगृहम् रङ्गशीर्षम् दारुस्थम्भाः ऊपरि दारु निचला दरुरङ्गशीर्षं तु भवेत् अतिसज्जितं षड्दारुसमन्वितम्। तेन एव नेपथ्यगृहं प्रति गमनार्थं द्वारद्वयस्य निर्माणमावश्यकम्। इदानीमत्र त्रयोदशेऽध्याये उच्यते भरतेन मुनिना यदत्र तयोः द्वारयोर्मध्ये एव भाण्डस्य वाद्ययन्त्राणां विन्यासः करणीयः इति। कक्ष्याविभागो भवति रङ्गपीठस्य चतुसॄषु दिक्षु एव। किन्तु मत्तवारिणीरङ्गशीर्षयोर्मेलनेन या परिक्रमाभूमिः शिष्यते सा तु द्वितीया कक्षा बोद्धव्या। अर्थात् प्रथमा तावत् कक्षा एव रङ्गपीठम्। नाट्याभिनयसमये प्रस्तूयमानायाः घटनायाः सम्बन्धिनः नगर-वन-देश-पर्वतान् कक्षाद्वारेण एव प्रयोजयेत्। कक्ष्याविभागे ते एव आभ्यन्तरा उच्यन्ते ये हि पूर्वमेव मञ्चं प्रविष्टाः। एवमेव बाह्यास्ते ये अनन्तरं प्रविष्टाः। यस्यां दिशि भाण्डस्य मुखं भवेत् तस्यामेव दिशि नेपथ्यगृहस्यापि मुखं स्यात्। सा च पूर्वस्यां दिशि एव भवेत् इति नाट्यशास्त्रस्य नियमः। तेन द्वारेण यः नेपथ्यात् रङ्गपीठं प्रति गमिष्यति, स तु तेनैव मार्गेण प्रत्यागच्छेत्। तथैव विधानं प्रदत्तं नाट्यशास्त्रे भरतेन मुनिना- “निष्क्रमेद् यश्च य्स्माद् वै स तेनैव तथा व्रजेत्। यतस्तस्य कृतं तेन पुरुषेण निवेदनम्॥” इति। नाटके दिव्यपुरुषाणां यातायातं नगरे वा वने वा भवतु, उत, पर्वते सागरे वा, सदा तु आकाशयानेन एव उपस्थापितव्यम्। तदिदं गमनं एकवर्षाभ्यन्तरे भवतु, अन्यस्मिन् वा वर्षे; तथैव एकस्मिन्नेव द्वीपे भवतु द्वीपान्तरे वा भवतु तद्गमनम्।

नाट्यधर्मी प्रवृत्तिः

नाट्यधर्मिप्रवृत्त्यौ पात्राणि स्वाद्बहिरेव कल्प्यन्ते। अत्र गतिक्रिया वाद्यादिक्रियापि भवन्ति। अस्याङ्गहारे लीला भवन्ति, नट्यं ताललयादीनामपि तत्र विद्यमानत्वम्। त्रयोदशाध्यायस्यान्ततः अभिनयविषये कथयति भरतमुनिः यत् जनानां सहजो भाव एवाभिनयः इति। तस्मिन्नेव सहजे भावे अङ्गादीनामलंकाराणां समावेश एव नाट्यधर्मी प्रवृत्तिः। एवमत्र नाट्यशास्त्रीये त्रयोदशेऽध्याये प्रयुक्तानां कक्ष्याविभागविषयान् सम्यगवधार्य नाटकं प्रयोजयेत् धीमान् इति नाट्यशास्त्रकारनिर्देशः। एवं नाट्यशास्त्रे त्रयोदशे तावदध्याये ग्रन्थकृता भरतेन कक्ष्याविभागविषये सविस्तारं स्वमतमुपस्थाप्य प्रवृत्तिभेदान् तत्स्वरूपञ्च सम्यगुपस्थापितमिति शिवम्।