विश्वसंस्कृतदिनम्
आविश्वे श्रावणपौर्णिमायां विश्वसंस्कृतदिनम् आचर्यते। ऋषयः एव संस्कृतसाहित्यस्य स्रोतम् अतः श्रावणीपौर्णिमायां प्रतिवर्षं संस्कृतदिवसं ऋषिपर्वञ्च परिपाल्यते। राज्यमण्डलस्तरयोः संस्कृतदिवसमाचर्यते। एतस्मिनवसरे संस्कृतकविसम्मेलनान् लेखकगोष्ठीः छात्रभाषणान् श्लोकोच्चारणप्रतियोगिताः च आयोजन्ते येन माध्यमेन छात्रान् लेखकान् कवीन् च उचितं सम्मानं प्राप्यन्ते।
१९६९ तमे वर्षे भारतसर्वकारेण शिक्षामंत्रालयेन केन्द्रराज्यस्तरयोः संस्कृतदिवसम् आचारणाय निर्दिष्टम् ततः आविश्वे श्रावणपौर्णिमायां संस्कृतदिवसमाचर्यते यतः एतस्मिन् दिवसे एव प्राचीनभारते शिक्षणसत्रारंभं भवति स्म। एतस्मिन् दिवसे एव छात्राः वेदपठनं शास्त्राध्ययनञ्त आरभते स्म। प्राचीनकाले पौषपौर्णिमायाः श्रावणपौर्णिमापर्यन्तं पुनश्च श्रावणपौर्णिमायाः पौषपौर्णिमापर्यन्तम् अध्ययनं चलति स्म।
कतिपयैः वर्षैः यस्मिन् सप्ताहे संस्कृतदिवसं वर्तते तत् सप्ताहं संस्कृतसप्ताहरुपेण परिपाल्यन्ते। सर्वेषु विद्यालयेषु संस्कृतसप्ताहम् उल्लासेन आचर्यन्ते। संस्कृतछात्रैः ग्रामेषु नगरेषु च शोभायात्राः प्रदर्शयन्ति। संस्कृतदिवसस्य संस्कृतसप्ताहस्य च मुलोद्देश्यं संस्कृतस्य प्रसारमेव अस्ति।
सम्प्रति विदेशे अपि संस्कृतोत्सवः हर्षोल्लासेन मन्यते। एतत् विश्वसंस्कृतदिनम् अथवा विश्वसंस्कृतदिवसः भारतसर्वकारः यूनेस्कोसंस्था (UNESCO) च मिलित्वा आयोजयन्ति। प्रतिवर्षे श्रावणपौर्णिमायां रक्षाबन्धनपर्वम् अपि भवति।