अद्वैतवेदान्ते सत्तास्वरूपम्
अद्वैतवेदान्तदर्शनाधारेण सत्ताविज्ञानस्वरूपम्
लोके विद्यमान दार्शनिकपद्धतीनां मुख्यो विचिन्तनविषयः दृश्यप्रपंचस्य मूलस्वरूपं किमिति। तथा । कस्मिन् प्रतिष्ठितमिदं जगत्, कस्मात् उत्पन्नमित्यपि । उक्त दार्शनिकप्रश्नानां विचारो बहुधा दश्यते दार्शनिक क्षेत्रे । भौतिकवादः (Materialism) अध्यात्मवाद (Idealism) द्वैतवाद (Dualism) तथा तटस्थवादश्च
Neutralism) मूलभूतसत्यस्य निर्धारणरीत्या संजातसिद्धान्ताः । मूलभूतसत्यस्य संख्यामधिकृत्य एकत्वद्वैत-अनेकत्वादि विविधविचारपद्तयः आविर्भूताः ।
भौतिकवादः- जगतः मूलतत्वं जडद्रव्यमथवा भौतिकद्रव्यं (Matter) एवेति मन्यमानो सिद्धात्नः भौतिकवादः । तस्मात् जडद्रव्यादुत्पन्नो चेतनपदार्थः दृश्य प्रपंचसमस्तमपि इत्यास्ति अस्य वादस्याधार-सिद्धान्तः । अध्यात्मवादः- भौतिकवादीप्रपंचदर्शनस्य विरोधी सिद्धान्तः अध्यात्मवादः । भौतिकवादानुसार जडमेवमूलतत्वं चेनंतस्मिन्नन्तर्भूत स्वभावैव । अतैव तत्वमीमांसविचारे समस्येयं जायते जड़-चेतनयोर्मध्ये मौलिकमाधारभूतं तत्वं किमिति । तत्र चेतनमेव मौलिकंतत्वं, तस्य चेतनस्य केवलाभिव्यक्ति (Manifestation) अथवा प्रतिबिम्बमात्राविष्कारः (Reflection) दृश्यप्रपंचः । तस्मात् चेतनाधारितमिदं जगदित्यभिप्रेति अध्यात्मवादिनः । द्वैतवादः- मूलतत्वं तु प्रकृत्याद्वैतस्वभावयुक्तं जड़-चेतनविभगेनेत्यस्ति द्वैतवादस्य विशेषसिद्धान्तः । वादेस्मिन् जङ-चेतनयोः पृथक् सत्यत्वमगीक्रियते। २ तटस्थवादः- विलियम् जेम्स् (William James) बर्टन्ट रसल (Bertrand Russel) आदि नवीनदार्शनिकांनां विचारानुसारेण जगतः मूलतत्वं न केवलं जडं उत चेतनं किन्तु जडचेतनाभ्यां तटस्थ एव ।३ अस्मात् उत्पद्यते जड़चेतनादिस्वभावयुक्तो दृश्यप्रपंचः । अनेकत्ववाद:- मूलतत्वरूपेण जड़-चेतन-तटस्थ आदि स्वभाववैविध्ययुक्तं अनेकसत्यत्वाश्रयीभूतो तत्वमीमांसा सिद्धान्तोयम् । अनेकत्ववादानुसारं दृश्यप्रपंचस्य अनेकता तथा वैविध्यंच मौलिकमेव । एकत्ववाद- अनेकत्ववादी सिद्धान्तस्य विरोधात्मकोवादः एकत्ववादः । भौतिकमानसिकादि पदार्थसमस्तमपि मौलिकतया एकतत्वस्य प्रकटीभावः । वैविध्यात्मकतत्वेषु सर्वेषु एकस्य सर्वव्याप्ततत्वस्य विद्यमानत्वमंगीक्रियते एकत्ववादिनः। एवं जातीयकसिद्धान्तवैविध्येषु अध्यात्मैकत्ववादानुसारी चिन्ताप्रथायामेव अद्वैत-वेदान्तदर्शनस्यान्तभीवः । एषु दर्शनसम्प्रदायेषु अन्यतमाद्वैतवेदान्तदर्शने सत्तास्वरूपंकथं विचार्येतेति अत्र विशेषेण मीमांस्यते ।
वेदान्तो नाम उपनिषत्प्रमाणं शास्त्रं भवति । कठोपनिषदां प्रस्तावनाभाष्यप्रामाण्यात्, मुण्डकापनिषदां प्रस्तावनाभाष्यप्रामाण्यात्, के नोपनिषदि “उपनिषदमब्रूम” इति वाक्यस्य भाष्यप्रामाण्यात् ४, छान्दोग्योपनिषत्भाष्यप्रामाण्यात् बृहदारण्यकोपनिषत्प्रस्तावनाभाष्यप्रामाण्यात् च संसारबीजनाशिनी या विद्या सा उपनिषच्छब्देन मुख्यया वृत्या बोध्यत इति निश्चीयते । तादृश विद्याप्रतिपादकत्वात् लक्षणया ईशावास्यादयो
ग्रन्था अव्युपनिषच्छब्देन व्यवह्रियन्ते । अस्य उपनिषदर्शनस्य व्याख्यानार्थं प्रख्यानार्थं बादरायणेन मुनिना सूत्रितानि भाग
वदान्तसूत्राणि । इदमेव दर्शनमाविष्करोति महाभारतस्थ गीता तस्य साधनप्रदर्शनपूर्वकम् । दर्शनस्यास्य, उपनिषत्कृत गीता-सूत्ररूपाणि श्रुति-स्मृति-युक्तिनाम्ना व्यवह्रतानि प्रस्थानानि प्रस्थानत्रयमिति प्रसिद्धानि । प्रस्थानत्रयाधिकृते लटा स्काय भाष्ये श्री शंकरेण युक्ति-तर्क सहकारेण वेदान्तवाक्यानां अद्वैतव्याख्या प्रस्तुता । श्रीशंकरस्य सर्वेष्वपि लम ग्रन्थेषु भाष्येषु च ब्रह्मसूत्रशांकरभाष्यमेव प्रधानरूपेण अद्वैतसिद्धान्त प्रतिपादकतया प्रथितमस्ति । एतदेवाद्वैतवेदान्तदर्शनरूपण प्रकाश्यते । आचार्यशंकरेण प्रस्तुताद्वैततत्व-व्याख्यान्यवेदान्ताचार्य स्वकीयैरप्रतिहततकै विस्तृता।
अद्वैतवेदान्तदर्शने सच्चित्सुखात्मक-मद्वयमरूपमनाद्यनन्तं नित्यशुद्धबुद्धमुक्तस्वभावं ब्रह्म एवं लिकतत्वरूपेण स्वीक्रियते। ६ दर्शनेस्मिन नानायुक्तिभिः अद्वैतब्रह्मणः सिद्धिः साधितास्ति।
अद्वैतसिद्धयर्थमात्मानात्माध्यासः, अनिर्वचनीयाविद्या, ब्रह्मणोर्निर्गुणत्वं, जीवब्रह्मणोरैक्यं, मुक्तैः जीवब्रह्मणोरभेदः, इत्यादयोविषयाः प्रतिपादित एवं ब्रह्माद्वैतमतात्मा स्वतसिद्ध सद्रूपंच । स च देहेन्द्रियेभ्यो भिन्नो वस्तुतोनिर्लेपो व्यक्ति । आत्मैव च ब्रह्म अयमात्माब्रह्म इत्यादि ब्रह्मेत्युक्तम् ।७ अद्वैतमतानुसारेणैक्मद्वितीयं ब्रह्मैव प्रपंचसारभूतमस्ति । तथाधिष्ठानमपि तदेव । ८ ब्रहृमरूपाधिष्ठाने एव प्रपंचप्रतीति प्रतीतिरियं अज्ञानमूलिकास्ति, अज्ञानाश्रयं ब्रह्मैव विद्यते । अद्वैतमतानुसारेणास्ति ब्रह्म,प्रपंचस्य निमित्तकारणमुपादानकारणमपि । अस्याचमाभि उपादानज्ञानिन तद्रूपाणां सर्वेषामपि कार्याणां ज्ञानं भवति । यतो नास्ति कार्य कारणाभिन्नम । यथाहि घटो मृद रूपोस्ति तद्वत सर्वोपिया ब्रह्मरूपोस्ति । १० संपूर्ण जगत् कारणसत्तांविना सत् न भवति । अतःकारण-सत्तैवास्ति कार्यसत्ता। अद्वैतमतेन ब्रह्मैकमेव अद्वितीयमति अर्थात्-ब्रह्मणि सजातीय, विजातीय स्वगतभेदाः न सन्ति । नास्ति ब्रह्म सभं द्वितीयं ब्रह्म । नास्तिब्रह्मण्यवचवभेदः । विजातीयमपि नास्ति ब्रह्मणः । यदस्ति तत् ब्रह्मणोरनतिरिक्तम्, अतैव श्रुतिबूंते नेहनानास्ति किंचनेति ।अद्वैतवेदान्तरीत्या ब्रह्मअप्रमेयोस्ति, सर्वंप्रमाणागम्यत्वात । ब्रह्मणः केनापि संसर्गो नास्ति यतोयमसंग, अतः श्रुतौ नैषा तर्केण मतिरापनेया इत्युक्तम् ।११ मनो बुद्धिवाचां तत्र गतिर्नास्ति । ब्रह्मवाड्मनसोरगोचरः । तथापि ब्रह्मणि कानि चित्साधनानि भविंतु युज्यनते चेत् तानि केवलानि शास्त्राण्येव । अतोस्ति ब्रह्म प्रमाणवेद्यम् । १२ शास्त्रं च प्रमाणलक्षणाभ्यामेव ब्रह्म साधयति । अतोहि ब्रह्मनिषेधमुखेनाधिकं श्रुति प्रतिपाद्यं यायते । समस्यप्रपंच निषेधमुखत्वअर्थादेव श्रुतिरात्मानं ब्रह्मप्रतिपादयति। ब्रह्म दृश्यप्रपंचस्य विवर्तकारणमस्ति, जगंच ब्रह्मविर्ति इति ।
__ अद्वैतमतेन ब्रह्म निर्गुणं निष्क्रियमस्ति । अस्ति ब्रह्म निर्गुणेब्रह्मणि वेदान्तवाक्यानि तात्पर्यमुखेन पर्यवस्यान्ति । अद्वैतमते माया शबलितस्य ब्रह्मण ईश्वरभावः प्रातीतिको भवति । वस्तुतो विद्यास्तमिते एकमात्र ब्रह्माद्वैतमर्यादयावशिष्यते।
अद्वैतवेदान्तदर्शनमण्यध्यात्मदर्शनमुच्यते दर्शनमिदं कतिपयाध्यात्ममूल्यान्युपजीव्य पल्लवते । एषु खलु अध्यात्ममूल्येषु धर्मार्थकाममोक्षाणां नाम स्मर्यते । अमीषु मोक्षः परमपुरुषार्थः । अद्वैतवेदान्ते आत्यन्तिकदुःखनिवृत्तिः परमानन्द-प्राप्तिंच परमपुरुषार्थः, स एव मोक्षो भवति । सा खलु ब्रह्मणः स्वरूपभूता स्थितिरस्ति । नास्त्यभि नवाप्राप्तिर्मोक्षः । इदमात्मनोनिजस्वरूपम् । ब्रह्मस्वरूपावबोध एव मोक्षः । १५
अद्वैत मतानुसारेण निर्गुणे ब्रह्मणि तादृश ब्रह्मवादे सर्वेपि विरोधाःशान्ताःभवन्ति। निर्गुणोहि ब्रह्मास्ति सत्यस्यसत्यम् । सत्यस्य रूपान्तरं न भवति । अद्वैतमते न यस्य रूपान्तरं तत् सत्यं, तन्मिथ्या । उपनिषत्सु अन्नं ब्रह्मेत्युक्तम् । कुत्रचित् प्राणाब्रह्मेति, कुत्र त्मिनेति, विज्ञानमात्मेत्युक्तम् । अद्वैतमते निर्गुण ब्रह्मप्रतिपादन धिया तु क्रमशः एवं वर्णितम् । षड्विध तात्पर्यलिंगेस्तु सर्वेषां वेदान्तवाक्यानामद्वितीय ब्रह्मणि तात्पर्य पर्यवसीयते । एवमेव सद्वस्तु नानरूपेणविर्भवति । नामरूपप्रपंचो वाग्विकारातिरिक्तो न सिद्धयति ।
पाद टिप्पणी
1. Runes D.D., Dictionary of philosophy, p.136 2. Frank Thilly, A History of Philosophy, p.45 3. Bertrand Russel, An Outline of Philosophy, P.307 4. केनोपनिषत् ४-३२ 5. छान्दोग्योपनिषत् ८-८-४ 6. छान्दोग्योपनिषत् ७-२४-१३, ब्रह्मसूत्रशांकरभाष्यम् १-१-४ 7. माण्डूक्योपनिषत् २ 8. तैत्तिरीयोपनिषत् ३-१ 9. ब्रह्मसूत्रशांकरभाष्यम् १-४-२३ 10. इदम २-१-१४ 11. कठोपनिषत् १-२-९ 12. ब्रह्मसूत्रशांकरभाष्यम् १-१-१ 13. ब्रह्मसूत्रशांकरभाष्यम् १-१-११ 14. इदम, १-१-४ 15. बृहदारण्यकोपनिषत् २-१-२०