सामग्री पर जाएँ

सदस्यसम्भाषणम्:2010278nvsaipavan

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-- ॐNehalDaveND १७:२८, ६ सेप्टेम्बर् २०२० (UTC)[उत्तर दें]

विज्ञानपथः

वेदकालादेव भारते संस्कृतेः विकास पश्यामः । तस्या समान्तरतयैव विज्ञानमपि अभिवृद्धमभूत् । विज्ञानस्य नैकालु शाखासु अस्माकं पूर्वजाः चिन्तनशीलाः पण्डिताश्च आसन् । काले तस्मिन् अनेके ग्रन्था अपि व्यरचि । खगोलशास्त्रे, गणितशास्त्रे, जीवशावे, परिसरविज्ञाने तेषां महत्तमसाधनानि ज्ञातुं प्रयतामहे |

खगोलशास्त्रम् गणितशास्त्रम् च

खगोलशास्त्रे गणितशास्त्रे च वैचारिकमौन्नत्यं दृश्यते वेदेष्वेव सौरमण्डले स्थितानां दशग्रहाणाम् उल्लेखं पश्यामः गुरुग्रहस्य रक्तवर्णचिह्नोल्लेखनम् (Red Spot) अत्यन्तं विस्मयावह पश्चिह्नमाधुनिकालेख्ये (Modern Photograph) द्रष्टुं शक्यं यत् बृहद्दूरदर्शकयन्त्रात् (Telescope) स्वीकृतं भवति मङ्गलग्रहात् उपग्रहद्वयस्य भूमेश्च चन्द्रस्य वियोजनं, सूर्य परितः ग्रहाणां परिभ्रमणं, भूमेः गुरुत्वाकर्षणशक्तिः इत्यादयो विचाराः ऋग्वेदकाले यदुक्तं तवाधुनिक विज्ञानप्रतिपावितमिति भ्रान्त्या विज्ञानिभिः परिगण्यते। ग्रहाः भ्रमणशील भ्रमरकमिव (Like a Spinning Top) परिभ्रमन्ति इत्यस्माकं प्राचीनमहर्षयः सम्यग्ज्ञातवन्तः । ग्रहाः स्वाक्षे परिभ्रमन्तीति तैर्ज्ञातमासीत्। सूर्य एव पृथिव्याधारः इति तैर्विदितम् दिन-रात्रि-मास-ऋतु-अयन- संवत्सराणामुल्लेखोऽत्र द्रष्टुं शक्यते । चन्द्रस्य वृद्धिहासस्य च तत्प्रकाशस्य च मूलं सूर्य एवेति यथोपचितलब्धिरासीत्तेषाम् ।

अद्य आप्रपञ्चम् उपयुज्यमानाः सङ्ख्या (Numbers) दशमानपद्धतिश्च (Base ten system) भारतीययोगवानमिति अभिमानार्होऽयं विषयः। पदानां द्वारा सङ्ख्यानां व्यञ्जनमपि तेषामन्यं वैशिष्ट्यम् । विविधानां यज्ञानां (Sacrifices) कृते विविधयज्ञकुण्डानां (Sacrificial Altars) निर्मितिः आवश्यकी । तदर्थ तैः विविधरेखागणिताकृतयः (Geometrical Figures), तासां क्षेत्रफलम् (Area), रूपान्तरम् (Transformation) इत्यादय वेदितव्य एवासीत् । अतः क्षेत्रमिदं तत्काल एव प्रवृद्धम्। बीजगणिते (Algebra) समीकरणानाम् (Equations) विश्लेषणे, विशेषतया एककालिक समीकरणानि (Simultaneous Equations), अनेकाव्यक्तयुक्तानां समीकरणानां विश्लेषणे (Simultaneous Equations with many variables) भारतीयाः अग्रेसरा आसन् । बीजगणिते रेखागणितस्योपयोगः, रेखागणितस्य बीजगणितद्वारा अभिव्यञ्जनं तेषामुत्कृष्टज्ञानस्य स्पष्टं निदर्शनम्। आर्यभट-ब्रह्मगुप्त महावीर-श्रीधर-भास्कराचार्याविभिः क्षेत्रमिदं फलवत्ततां प्राप। एषु द्वितीयः भास्कराचार्यः विशिष्यते। तस्य वैशिष्ट्यमिदमस्ति यत् सः प्रकृतिरमणीयानि दृश्यानि वर्णयन् समस्यां प्रस्तौति । आधुनिक कालीन सुप्रसिद्धः गणितज्ञः श्रीनिवास रामानुजन पर्यन्तं क्षेत्रमिदं विस्तृतम्। सर्वेषां योगदानैः विस्तारतां गभीरतां चाप ।

जीवशासम् परिसरविज्ञानम् च

जीवशास्त्रेऽपि पूर्वजानां साधना अपूर्वा सस्यानां प्राणिनां च वर्गीकरणं तेषां गुणमवलम्ब्य कृतं तैः। 'अश्वशास्त्रम्', 'गजशास्त्रम्' चोद्दिश्य स्वतन्त्रतया ग्रन्था विरचिताः । सर्पाणामध्ययने बल्वनो विशेषज्ञ इति ज्ञायते । सः त्रयोदशविधसर्पाणाम् अध्येता इति उल्लेखो दृश्यते ।

परिसररक्षणम् आद्यं कर्तव्यं मन्यन्ते स्म ते सूर्यः देवः, वृक्षोऽपि देवः, जलमपि देवः, वायुर्देवः, भूमिः देवता, एवं सर्वत्र दैवमपश्यन् ते । एषां प्रदूषणं नाशो वा पापमिति ते पर्यगणयन् । सस्यानां रक्षणं, प्राणिनां रक्षणं, तेषामुपयुक्तता, एतत्सर्व सम्यग्ज्ञात्वैव व्यवहारमकुर्वन् । अत एव तैरुक्तं 'पञ्चाम्ररोपी नरकं न याति' इति वापीकूपतठाकानां निर्माण महत्त्वं दत्तवन्तस्ते केवलं निर्माण न तेषां रक्षणेऽपि बद्धादराः । एषु स्थलेषु ये मालिन्यं कुर्वन्ति तेषां कृते शिक्षा दण्डश्च विहितं तैः । तदर्थ शासनान्यपि व्यरचि । अन्तर्जलसमतलं रक्षितमेवम् ।

आर्यभटविरचितम् 'आर्यभटीयम्', वराहमिहिरस्य 'पञ्चसिद्धान्तिका', 'बृहत्संहिता', रसशाखसम्बद्धं नागार्जुनेन विरचितं 'कक्षापुटतन्त्रम्' आयुर्वेदग्रन्थाः चरकसुश्रुतानां संहिते भास्कराचार्यस्य 'सिद्धान्तशिरोमणिः' इत्यादयो ग्रन्थाः विज्ञानस्य नैकासु शाखासु प्राचीने काले भारतीयाः पण्डितप्रवरा विचक्षणाः च आसन्निति प्रतिपादयन्ति। एतेषां ग्रन्थानामध्ययते वयं सर्वे बद्धादरा भवेम।