बसन्ती बिस्ट्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बसन्ती बिस्ट्
बसन्ती बिस्ट्
जन्म १९५३
उत्तराखण्डराज्यम् Edit this on Wikidata
देशीयता भारतीया
वृत्तिः गायक&Nbsp;edit this on wikidata
सक्रियतायाः वर्षाणि १९९८ तः
कृते प्रसिद्धः उत्तराखण्डस्य जानपदगायिका
गृहनगरम् लुवानी, चमोलीमण्डलम् उत्तराखण्डम्
पुरस्काराः
  • पद्मश्रीः (2017)
  • राष्ट्रीयमातोश्री-अहल्यादेवीसम्मानम् (मध्यप्रदेशसर्वकारस्य)(2016)
  • टीलु रौटली नारी शक्तिसम्मानम् (उत्तराखण्डसर्वकारस्य)

बसन्ती उत्तराखण्डस्य कस्मिश्चित् ग्रामे १९५३ तमे वर्षे जन्म प्राप्तवती । सा काचित् उत्तराखण्डस्य जानपद गायिका । जागर् जानपदगानेन सा उत्तराखण्डे प्रसिद्धा वर्तते । सा शास्त्रीयशैल्या गायति । सा उत्तराखण्डीया जानपदगायिका इति प्रसिद्धा वर्तते । आकाशवाण्याः दूरदर्शनस्य च ग्रेड् ए गायिका वर्तते ।  सा पद्मश्रीपुरस्कृता अपि । [१][२]

उत्तराखण्डराज्यं पूर्वस्मिन् काले उत्तराञ्चलम् इति नाम्ना प्रसिद्धम् आसीत् । इदं राज्यं भारतस्य उत्तरे भागे विद्यते । स्वाभाविकवलातावरणकारणतः इदं राज्यं प्रसिद्धं वर्तते ।

आरम्भिकजीवनम्[सम्पादयतु]

बसन्तीबिस्ट् उत्तराखण्डस्य चमोलीजिल्लायाः लुवानीग्रामे १९५३ तमे वर्षे जाता । सा पञ्चदशे वयसि कञ्चन सैनिकम् ऊढवती । पञ्जाबराज्ये सा सङ्गीतं पठितवती । परन्तु सा बाल्यादारभ्य गायन्ती आसीत् ।


सा पञ्चमकक्ष्यापर्यन्तं ग्रामीणशालायां पठितवती परन्तु अग्रे शिक्षणं प्राप्तुं न शक्तवती । यतो हि शाला दूरे वर्तमाना पादाभ्यां प्राप्तुम् अशक्या आसीत् । .[३]

सङ्गीतजीवनम्[सम्पादयतु]

बसन्त्याः सङ्गीतजीवनं तस्याः चत्वारिंशे वयसि आरब्धम् । तदा सा तस्याः परिवारपोषणे व्यस्ता आसीत् । यदा सा जलन्धरं गतवती तदा सङ्गीतपठनं तत्र आरब्धवती । जलन्धरस्य प्राचीनकलाकेन्द्रं तस्याः प्रथमा पाठशाला आसीत् । सा तत्र अधिकवयस्का आसीत् इति कारणतः लज्जाम् अनुभूतवती । तत्रत्याः अन्ये छात्राः युवानः आसन् । यदा तस्याः पुत्र्याः शिक्षिका तां हार्मोनियंवादनं पाठितवती तदानीं प्रथमं वृत्तिपरं प्रदर्शनं दत्तवती । [३] तदनन्तरं सार्वजनिककार्यक्रमेषु भागमूढ्वा गायनम् आरब्धवती । तत्र भजनानि चलचित्रगीतानि च गायति स्म । पत्युः निवृत्त्यनन्तरं डेहराडून् नगरे वासमारभ्य आकाशवाण्यां कार्यम् आरब्धवति । १९९६ तमे वर्षे नैनिताल् आकाशवाण्यां ए ग्रेड् कलावित् रूपेण कार्यम् आरब्धवती । सङ्गीतविषये कदाचित् सा इत्थं स्वाभिप्रायं प्रकटितवती ।

“I always sang along with my mother, who sang as she went about her chores. The many fairs and festivals in the village only made my love for this form of music grow deep.”

—Basanti Bisht, Basanti Bisht gets candid on her musical journey, The Hindu Newspaper

किञ्चित् कालानन्तरं ग्रामे गीयमानं जागर् गानं विशिष्टं वर्तते इति ज्ञातवती । जागर् गानं समग्रायां रात्रौ देवस्तुतिपरकं क्रियते । उत्तराखण्डस्य पर्वतीयप्रदेशेषु इदं गायनं क्रियते । बसन्ती बिस्ट् एतत् गायनमधिकृत्य परिश्रम्य प्राचीनशैल्या गानं कृत्वा जनादरं प्राप्तवती । बसन्त्याः उत्तराखण्डस्य पहाडीशैल्याः गायनं प्रसिद्धं वर्तते ।

वैयक्तिकं जीवनम्[सम्पादयतु]

बसन्त्याः पतिः निवृत्तः सैनिकः । तस्याः पुत्रः अपि सैनिकरूपेण वायुसेनायां कार्यं कृतवान् । तस्याः पुत्री अपि सैनिकमेव परिणीतवती ।

पुरस्काराः[सम्पादयतु]

  • राष्ट्रीयमातोश्री-अहल्यादेवीसम्मानम् (मध्यप्रदेशसर्वकारस्य)
  • पद्मश्रीः परस्कारः(2017)
  • टीलु रौटली नारी शक्तिसम्मानम् (उत्तराखण्डसर्वकारस्य)

उल्लेखाः[सम्पादयतु]

  1. https://timesofindia.indiatimes.com/city/dehradun/only-woman-jaagar-singer-basanti-bisht-picked-for-padma-shri/articleshow/56784859.cms
  2. http://www.thehindu.com/entertainment/music/voice-from-the-hills/article23979140.ece
  3. ३.० ३.१ Khanna, Shailaja (2018-05-25). "Basanti Bisht gets candid on her musical journey". The Hindu (in en-IN). ISSN 0971-751X.  Unknown parameter |access-date= ignored (help)
"https://sa.wikipedia.org/w/index.php?title=बसन्ती_बिस्ट्&oldid=459076" इत्यस्माद् प्रतिप्राप्तम्