मिल्खा सिंह

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Milkha Singh
Milkha Singh at Chandigarh Golf Club in 2012
व्यक्तिगतविवरणम्
उपनाम The Flying Sikh
राष्ट्रियता Indian
जन्म around 1930s
Govindpura, Punjab, British India
मरणम् 19/06/2021
वासस्थानम् Chandigarh, India
उद्योगदाता Retired; formerly of the Indian Army and Government of Punjab, India
क्रीडा
क्रीडा Track and field

मिल्खा सिंह फ्लाईंग सिख नाम्ना देशेविदेशेषु विख्यातः, राष्ट्रकुलक्रीडास्पर्धायां सुवर्णपदकप्राप्तः स्वतन्त्रभारतस्य आद्यभारतीयः, पद्मश्रीपुरस्कारेण सम्मानितः महान् धावनपटुः कालकवलीभूतः।

जीवनम्[सम्पादयतु]

मिल्खासिंहः 20 नवम्बर 1929 तमे वर्षे पंजाबप्रदेशे जनिं लब्धवान्। सः भारतस्य विश्वप्रसिद्धः धावकः आसीत्, परन्तु तस्य आरंभिकजीवनं संघर्षमयम् आसीत्। भारत-पाकविभाजनसमये तस्य पितरौ, भ्राता, भगिनी च मुस्लिमजनैः मारिताः। तस्य पैतृकस्थानं गोविन्दपुरा,पाकिस्तान। भारतस्य विभाजनसमये तस्य सुखी परिवारः विच्छिन्नः जातः। तदा प्रचलिते हिंसाचारे आततायिनः तस्य पैतृकभवनं ज्वालितवन्तः। तस्मिन् तस्य मातापिता-भ्राता-भगिनीद्वयं अग्नौ समाहिताः। तस्याः दुर्घटनायाः स्मृतिराजीवनं दुःस्वप्न इव महोदयं ज्वालिता। सः तदा देहलीम् आगतवान्। यथा कथञ्चित भ्रात्रा सह स देहलीं प्राप्य तत्र शरणार्थीशिबिरे आश्रित्य उपहारगृहे पात्रप्रक्षालनं कृत्वा उदरपूर्तिः कृतवान्। भ्रातुः परामर्शेण अथकपरिश्रमेण १९५१ तमे वर्षे भारतीय सेनादले वृत्तिं प्राप्तवान्। एवं सः स्वपरिश्रमेण भारतीयसेनायां प्रविष्टः जातः। अनन्तरं तस्य अद्भूत-शारिरिक-प्रतिभां दृष्ट्वा तस्य चयनं 'एथेलेटिक' इत्यस्य कृते अभवत्। तदा आरभ्य सः कदापि पृष्टतः न दृष्टवान्। क्रासकण्ट्रीधावनस्पर्धायां षष्ठं स्थानं प्राप्तवान्। सेनापक्षतः विशेषप्रशिक्षणहेतु महोदयस्य चयनं जातम्।

लब्धयः[सम्पादयतु]

सः भारताय बहूनि स्वर्ण-पदकानि दापितवान्। 400 मीटर एवञ्च 200 मीटर प्रतियोगितायां सः भारतस्य पक्षतः एकः एव आसीत्, यः स्वर्णपदकं प्राप्तवान्।

८० अन्तराष्ट्रियधावनस्पर्धायां भागं गृहीत्वा ७७ स्पर्धाः स विजितवान्। परं १९५६ तमे वर्षे रोम आलम्पिकक्रीडायां स क्षणभेदेन कांस्यपदकात् वञ्चितः। आजीवनं तस्य दुःखं स अनुभूतवान्। अनन्तरं सः पाकदेशे, आस्ट्रेलियादेशे, जापानदेशे अपि स्वप्रतिभायाः परिचयं दत्तवान्।

ततः सः क्रीडाक्षेत्रात् सन्यासं स्वीकृतवान्। सः प्रशिक्षकरूपेण कार्यम् आरब्धवान्। किन्तु बहु-समयानन्तरं तस्य नाम जनाः विस्मृतवन्तः। अत्रान्तरे मिल्खासिंहस्य जीवनस्य उपरि एकस्य चलचित्रस्य निर्माणम् अभवत्। तदा आरभ्य एकवारं पुनः मिल्खासिंहः सम्पूर्णभारते प्रसिद्धः अभवत्। क्रीडागाथायां तस्य नाम सुवर्णाक्षरेण अङ्कितं न इत्यत्र संशयः। महोदयस्य महती स्पृहा आसीत् यत् तस्य जीवने कोऽपि भारतीयः आलम्पिकक्रीडायां धावनस्पर्धायां पदकं प्राप्येत्। न सा परिपूर्णा। अधुना कोऽपि धावकः तत् लक्ष्यं प्राप्नोत्।

सः पद्म-श्रीः इतिसम्मानेन अपि सम्मानितः।

परिवारः[सम्पादयतु]

तस्य पत्नी अपि १३ दिनाङ्के दिवङ्गता। सा अपि देशस्य वालिबालगणस्य पूर्वनायिका आसीत्। महोदयस्य पुत्रः जीव मिल्खा प्रसिद्धः गोल्फक्रीडापटुः अस्ति। स्वतन्त्रभारते क्रिकेटं विहाय अन्यक्रीडाप्रकराणां चयनं कृत्वा युवकाः कीर्तिं गौरवं च प्राप्तुं शक्नुवन्ति एतस्य साक्षादुदाहरणं अस्ति मिल्खासिंहः।

मृत्युः[सम्पादयतु]

18 जुन 2021 तमे वर्षे सः दिवंगतः जातः। भारतस्य प्रधानमन्त्री, अनेके नेतारः, अभिनेतारः तस्मै श्रद्धाञ्जलीं दत्तवन्तः।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मिल्खा_सिंह&oldid=480801" इत्यस्माद् प्रतिप्राप्तम्