सदस्यः:Dharani Sarma/प्रयोगपृष्ठम्
कटरासत्रम्
भारतवर्षस्य असमप्रदेशस्य सुप्रसिद्धायाः नलबारीजनपदस्य उत्तर-पूर्वदिशि सप्तकिलोमिटारदूरे सुप्रसिद्धायाः “पागलदिया नद्याः” पूर्वतीरे “कटरासत्र” ग्रामः वर्तते । “कोटोरा ” एकस्याः क्रीडायाः नामोऽस्ति । तस्मादेव अस्य नामकरणं कटरा इति विद्वद्वतां मतम् । उल्लिखितं यत् कटरासत्रस्य एको ऐतिह्यम् एतदेव सत्यमिति प्रटीयते । यतो “दधिमन्थन” कटरासत्रस्य एको महान् धार्मिकानुष्ठानं तत्रस्थाः जनाः परिपालयन्ति ।अस्मिनेव उत्सवे “कोटोरा ” इति नामकीं क्रीडां सोत्साहेन क्रीडति ।
इतः पूर्वं ग्रामोऽयम् अतीव अनुन्नतः परिदृश्यमानाः आसीत् । यातायातव्यावस्था अतीव दुर्गमासीत् परन्तु अधुना तद् बह्वन्नयनशीलं जातम् । ग्रामस्यास्य भौगलिकस्थितिः यथाक्रमं पूर्वदिशि “क्षुद्रविष्टुपुर” , पश्चिमदिशि “धनतोला” ग्रामः , उत्तरदिशि जामतोला दक्षिणदिशि च “कटाहकुछि” ग्रामो वर्तते । ग्रामस्यास्य पत्रालयः चेङ्नैः, जिला नलबारी प्रदेशश्च असमः । अत्र ११० परिवारः अथ च जनसंख्याः प्रायशः ५०० जनाः निवसन्ति ।
अत्रैव “कटरासत्र” सत्रोऽयं प्रतिष्ठितः प्रभुनारायणदेवेन । असौ दामोदरदेवगुरोः प्रधानेषु द्वदशभक्तशिष्येषु अन्यतममासीत् । कविरत्नगोपालमिश्रविरचिते “घोषरत्नम्” इत्यस्मिन् ग्रन्थे “देवदामोदर झुमुरी” इत्यस्मिन् भागे गुरोः अस्य वैशिष्ट्यं वर्णितम् । तत्र उक्तमस्ति -
“ महा भक्त नारायण ।
पादुका याहार धन ।।
शिरत पादुका थन्त ।
दामोदर उच्चारन्त ।।”
अर्थात् आचार्य-महन्तजनाः दामोदरदेवस्य आज्ञां लब्ध्वा विभिन्नेषु स्थानेषु गत्वा दीक्षां प्रदाय्य सत्रं प्रतिष्ठापितवन्तः । तस्मादेव आज्ञाप्राप्तेन नारायणदेवेन सप्तदशशतिकायां “कटरासत्रः” प्रतिष्ठापितः । अयमेव आध्यात्मिकान्दोलनस्य स्थलो निर्मितः । तदनन्तरं समये जाते सत्र अयं श्रीकृष्णस्य भक्तजनानां “महामिलनपूण्यभूमि” इति जाता । श्रीकृष्णभक्तेः रसमयप्रकाशस्थलरूपेण कटरासत्सङ्गीसत्रस्य ऐतिह्यपूर्णमितिहासो वर्तते। अत्र दैनन्दिनभगवद्वन्दना, श्रीकृष्णनामकीर्तनादिकमनुष्ठीयते । आहोमस्वर्गदेवाः स्वराजधान्यामुपस्थितो भूत्वा एव तादृशीं वार्तां श्रुतवन्तः । अस्मिन् सत्रे स्वर्गदेउलक्ष्मीसिंहेन सप्तदशशतिकायां भूमिप्रदत्तमेकं “ताम्रपत्रम्” अद्यापि संरक्षितमस्तीति ।
धन्यवादाः 🙏