बौद्धायनधर्मसूत्रम्
बौद्धायनधर्मसूत्रं धर्मसूत्रे अन्यतमम्। एतत्तेषां कल्पसूत्रस्यैवांशमात्रमस्ति । बोका सत्रे चत्वारः प्रश्नाः खण्डानि वा सन्ति । तत्र प्रथमे प्रश्ने ब्रहाची विचारस्य. राजकीयविधेः, अष्टविधानां विवाहानाञ्च वैशद्येत वर्णनं विद्यते। द्वितीयः प्रश्नः प्रायश्चित्तस्य, उत्तराधिकारस्य, चतुर्णामाश्रमाणां, ग्रह विवरण प्रददाति । तृतीये प्रश्ने वैखानसस्य संन्यासिनश्च धर्माणां चान्द्रायणादिव्रतानाञ्च विधानमस्ति । चतुर्थे प्रश्ने च काम्यसिद्धीनां वर्णनमस्ति। एषु प्रश्नचतुष्टयेषु - अन्तिमस्य प्रश्नस्य भाषा शैली च प्रथमतः त्रिभ्यः प्रश्नेभ्यः पार्थक्यं समर्थयति।
एतन्मुख्यरूपेण श्लोकबद्धमस्ति । अपि च तद्वणिता विषयाः पूर्वप्रश्नेषु प्रतिपानि विषयाणामावृत्ति कुर्वन्ति । अत एव चतुर्थः प्रश्नः पश्चात्काले संलग्नः प्रती तृतीयप्रश्नस्य मौलिकतायामपि सन्देहः क्रियते । अस्य प्रश्नस्य दशमाध्यायो धर्मसूत्रस्यैकोनविंशतितमाध्यायेन सह पूर्णसमतां धारयति । अतः । प्रारमि" द्वावपि प्रश्नौ ग्रन्थस्य मौलिकांशी मन्येते । बौधायनगृह्यसूत्रस्य रचनां तद्धर्मस रचनातः प्राचीना स्वीकर्तव्या । यतस्तन्निर्देशो धर्मसूत्रे वारद्वयं कृतः ।
तैतिरीयशाखाया बौधायनकल्पसूत्रं समस्तस्य कल्पसाहित्यस्येतिहासे प्राचीन मस्ति इत्यस्यानेकानि पुष्टत्रमाणान्युपलभ्यन्ते । तैत्तिरीयसंहिताया: टीकाकर्ता भास्करमिश्रेण स्वटीकायाः प्रारम्भे प्राचीन ग्रन्थकारेषु बौधायनस्य नाम्ना उल्ले कृतः । भास्करमिश्रस्याथापि कथनमस्ति यत् तेन भवस्वामिनस्तथाऽन्यटीकाकाराण व्याख्यानामध्ययनानन्तरं संहितायां स्वटीका लिखिता। इमे 'भवस्वामिनः' बौधायन श्रौतसूत्रस्यातिप्राचीना भाष्यकाराः सन्ति । अस्मिन् विषये एकमन्यत्तथ्यं महन्महत्व धारयति तच्चेदमस्तीति यद् बौधायनशाखानुयायिनामुत्सर्जनविधेः वर्णनावसं बौधायनः 'प्रवचनकार' इति कथितः । यदा हि अन्यसूत्राणां रचयितारः सूत्रकाराः स्वीकृता: सन्ति । 'प्रवचनेन तात्पर्यमिदमस्तीति यद् बौधायनेन श्रौतविपयाणां सविध्युपदेशः प्राथम्येन कृतः । 'उपदेश आद्योच्चारणमिति पाणिनिः। फलतस्ते स्व विषयस्य मौलिका ग्रन्थकाराः सन्ति ।
एतद्भिन्नः आचार्यैः पूर्वोपलब्धायाः सामग्रयाः निवेशः सूत्रेषु कृतः । फलतस्तेषां कार्य मौलिकानुशीलनं न विद्यते, केवलं सङ्कलन मात्रमेवास्ति । एषां भाषा पाणिनीयसंस्कृतात् भिन्नतां धत्ते । अपि च प्राचीनान धर्माचार्याणां नाम्नां मतानाञ्चोल्लेखः ग्रन्थे प्राप्यते । आपस्तम्बस्य वशिष्ठस्य चाने कानि धार्मिकसूत्राणि बौधायनेनाक्षरशः प्राप्यन्ते । येन बौधायनस्योपर्युक्तयोयोर पेक्षया प्राचीनतर इत्यनुमानेन सिद्धयति । अत एवास्य समयो विक्रमपूर्वपञ्चमशतक नकटये स्वीकारः समुचितः । अपरञ्च गोबिन्दस्वामिनो भाष्येण सह काशी संस्कृत सीरीजे प्रकाशितमस्ति ।
बौधायनस्य जन्मस्थानम्
[सम्पादयतु]डॉ० ब्यूलरमहाशयेन बौधायनस्य जन्मस्थानं दक्षिण भारते स्वीकृतम् । अस्य विषयस्य तत्साधकं प्रमाणं नितान्तं दुर्बलं भ्रान्तञ्चास्ति साम्प्रतं बौधायनशाखाध्येतृणां सत्ता दक्षिणभारतस्यान्ध्रप्रदेशे एवास्ति, अन्यत्रे समुपलब्धा न भवन्ति । बौधायनसूत्रस्य हस्तलेखा अपि विशेषतो दक्षिणभारते ए प्राप्याः सन्ति नान्यत्र । ब्यूलरस्य एतद् द्वावपि तकौं महत्त्वहीनौ स्तः । साम्प्रति कालस्थित्या अतिप्राचीनकालस्य स्थितेः अनुमानं समुचितं नास्ति । अत्रात्यधि सम्भावना विद्यते यदिमे पूर्वयुगेषु स्वमूलस्थानात् दक्षिणे समागताः स्युः । सम्भाव्य यदत्तरभारते यवनानामाक्रमणेन हस्तलेखानां सुरक्षाया: सम्भावना नासीत् । अ यदि ते हस्तलेखा दक्षिणभारसे सुरक्षितास्तिष्ठन्ति । तदाऽत्र किमाश्चर्यम। उत्तरभा तस्य निश्चितनिवासिनो ग्रन्थकारस्य कौटिल्यस्यार्थशास्त्रस्योपलब्धिर्दक्षिणभारतादेव भदिति किमत्र चित्रम् ।
बौधायनेन समुद्रयात्रा पतनीयकर्मसु गणिता, यामुत्तरयासमाचरन्ति स्म तस्मिन् युगे । कथनेनानेन ते दक्षिणभारतीयाः स्वीकृताः । च व्यूलरस्यायमपि तर्कः प्रमाणसिद्धो नास्ति, प्रत्युत एतदस्य तथ्यस्य सूचक स्ति यत्तस्य कालस्योत्तरभारतीयाः समुद्रयात्राकर्तारः साहसिका जना आसन् । तथ्यन्त्विदमस्ति यत् बौधायनसूत्रेषु प्रयुक्तोदीच्यदाक्षिणात्ययोविभाजक रेखा नैव विन्ध्यपर्वतोऽपि तु आर्यावर्तस्य प्रदेश एवासीत् । बौधायन: आर्यावर्तस्याचारं प्रमाण भूतं स्वीकरोति स्म । स च प्रदेशस्तयोः केन्द्रविन्दुः, यस्मात् स्थानात् उदीच्य दाक्षिणात्ययोविभाजनस्य सीमा आरभ्यते । अन्यच्च आर्यावर्तस्याचारस्तु बौधायनस्य विचारे 'प्रकृति आचार' इत्यादर्शाचारः आसीत् । तद्विकृतानामाचाराणां-भवन्तु नाम ते आचाराः आर्यावर्तादुत्तरे भवेयुर्दक्षिणे वा–बौधायनेन स्पप्टोल्लेखः कृतः । तन्मते आर्यावतस्य सीमानिर्देशः इत्थं वर्तते ।
तद्यथा—'प्रागदर्शनात् प्रत्यक काल कवनात् दक्षिणेन हिमवन्तमुदक् पारियात्रमेतावत् आर्यावर्तम् । तस्मिन् य आचारः स प्रमाणम् । गङ्गायमुनयोरन्तरमित्येके ।' अत्रार्यावर्तस्य विषये मतद्वयस्योल्लेखो विद्यते । तदनुसारं वौधायनस्य जन्मस्थानमयमेवार्यावर्तप्रदेशः प्रतीयते । यत्रत्याचारस्य प्रामाण्यं मनुस्मृतौ महाभारते चाप्युल्लिखितमस्ति । ते आर्यावर्तस्य समीपस्थस्थाने भ्योऽपि परिचयं धारयन्ति । निष्कर्पश्चात्र विद्यते यद् बौधायनस्यात्यन्तं परिचितस्तथा चचितो भूभाग: उत्तरीयभारतस्यार्यावर्त एव तस्य निवासस्थानमासीत् । इयमेव स्थितिहिरण्यकेशीमहाशयस्यासीत् । हिरण्यकेशीगृह्यसूत्रे सीमन्तोन्नयनप्रसङ्गस्य गाथा गङ्गाया उल्लेखं कृत्वा तमस्यैव प्रदेशस्य निवासिनं स्वीकरोति । तद्यथा तत्प्रमाणम्
'सोम एव नो राजेत्याहुर्ब्राह्मणीः प्रजाः ।
विवृतचक्रा आसीनास्तीरे तुभ्यं गङ्गे' ।