कटक चण्डी मन्दिर
दिखावट
इतिहास:
[सम्पादयतु]मरहट्टाशासनकाले बारबाटीदुर्गपरिसरे कटकचण्डी इत्यस्य मूर्तिः पूज्यते स्म । १५६८ तमे वर्षे कृष्णपर्वताक्रमणकाले ततः देवीं निष्कास्य दुर्गस्य दक्षिणदिशि किञ्चित् दूरं पूजितम्। अयं प्रदेशः पश्चात् कनिकारा़जशासनाधिन: आसीत् । अधुना चण्डीमन्दिरविषये एकस्याः आख्यायिकानुसारं शेखबजारक्षेत्रस्य निवासी गोपालचन्द्रबेहेरा बारबाटीदुर्गस्य शिलानाम् उपरि उपविष्टः आसीत्, तदा ता: शिला: कम्पितुं आरब्धा:। तस्याम् रात्रौ सः स्वप्नं दृष्टवान् यत् चण्डी तत्र अस्ति इति, अतः परदिने सः शिलाराशिं खनित्वा देवीम् उद्धारितवान् । देवीं शिरसि वहन् वर्तमानस्य पीठस्य समीपे गुरुत्वं जातम्, अतः सः तां तत्रैव स्थापितवान् ।
पौराणिक:
[सम्पादयतु]सहस्रवर्षपुरातनं कटकनगरम्। ओडिशाया: पुरातनराजधानी। ऐतिहासिकस्य कटकनगरस्य कलासंस्कृते:प्राण्केन्द्रं च अध्यक्षदेवता इति प्रसिद्धा 'कटकचण्डी' इति। 'चण्डीच्छक' इति नाम्ना प्रसिद्धस्य स्थानस्य अनतिदुरे प्रायः त्रिंशत् पादपरिमितम् ऊर्ध्वं संगमरवरेण आच्छादितं मन्दिरं 'कटकचण्डी' इति नाम्ना स्थितमस्ति ।
पर्वपर्वाणि
[सम्पादयतु]दशहरायां कालिपूजायां च षोडशोपचारेण च कटकचण्डे: नीति: पालनं क्रियते। पणासंक्रान्त्यां मातुः सुनाबेशः आचर्यते ।