वैतालमन्दिरम्
वैतालमन्दिरम् ओडिशाराज्यस्य भुवनेश्वरे स्थितः ९ शताब्द्याः कलिङ्गस्थापत्यकलायां खाखराशैल्यां चामुण्डादेव्याः मन्दिरम् अस्ति । यतो हि मन्दिरस्यसिखरे त्रीणि शिराणि सन्ति, तस्मात् कारणतःजनाः त्रिशिरामन्दिरम् इति कथ्यन्ते । जनश्रुत्यानुसारं एतानि त्रीणिमुण्डानि देवी चामुण्डायाः त्रिशक्तयः इति कथ्यन्ते ।यथा - महासरस्वती, महालक्ष्मी, महाकालेः उद्देशेन समर्पिताः सन्ति ।
स्थापत्यकला
[सम्पादयतु]वैतालमन्दिरस्य मुख्यमन्दिरं अर्धनलाकारः यस्य उपरिभागः दक्षिणभारतस्य गोपुरमन्दिरसदृशः खाखराशैल्यां निर्मितम् अस्ति । अस्य शिखरस्य दक्षिणभारतस्य मन्दिरैः सह साम्यं दृश्यते । एषा भित्तिः लम्बवत्,एवं च विस्तारः चतुष्कोणः अस्ति ।
वैतालमन्दिरमस्य बाह्यभित्तिषु शिवस्य, शक्तिरूपेण पार्वत्याः, नानदीमृगयायात्राः , वन्यगजाः, रतिक्रीडायुक्तः दम्पत्यानां मूर्तेः चित्रम् द्रष्टुम् लभ्यते ।
जगमोहनस्य उपरि तीर्थस्य अग्रभागे द्वौ चैत्यानां गवाक्षौ स्तः - अधः ( सूर्यस्य प्रतिमा अस्ति, या सन्ध्यासायं आलोकवितरणं करोति इति प्रतितं भवति पुनः अग्रे च सप्त अश्वानां आरोहणं कुर्वन्तः अरुणस्य मूर्तिः वर्तते ।
चैत्यस्य उपरि स्तितं पिण्डे दाशभुजनाटराजस्य अथवा नाट्यमुद्रायां शिवस्य प्रतिमा अस्ति । समतलछत्रयुक्तस्य जगमोहनस्य पार्श्वभागे धम्मचकपवतन( धम्म -चक्र-प्रवर्तनम्) मुद्रां पृथिवीस्पर्शमुद्रां च धारयन्तौ बुद्धप्रतिमाद्वयं भवति
अधीष्ठात्रीदेवी
[सम्पादयतु]अत्र अधीष्ठात्रीदेवी चामुण्डा वा चर्चिका शृगालस्य उलूकस्य च मध्ये शवस्य उपरि शिरः-माला-हारं च धारयन् उपविष्टाः मूर्तिः चित्रितः अस्ति । सा क्रमेण सर्पं ,धनुषं, कवचं,खड्गं ,त्रीशूलम् च असुरस्य कण्ठं भेदनशक्तिं च धारयति। अस्य मन्दिरस्य बाह्यभागे चैत्यस्य शिल्पं, शिवपार्वयोः वास्तुकलां च अस्ति । देवी चामुण्डा मन्दिरस्य उभयपार्श्वे अनेकाः भैरवाः, योगिन्यः च वेष्टितः । एतत् मन्दिरस्य निम्नभगे वर्तते ।
पूर्वभागे देव्यासह मिथुनभैरवस्य विग्रहः अस्ति ।
उत्तरभित्तिषु उपशमरूपेण एकेन हस्ते असुरस्य विच्छिन्नशिरः अपरस्मिन् हस्ते च रक्तपूर्णं ललाटं धारयन्त्याः करालिन्याः मूर्तिः अस्ति । अन्यस्य त्रिपादशिखरस्य कटोरे द्वौ शिरौ स्तः । यत् देवीं निवेद्यते ।दक्षिणपार्श्वे स्थितः शृगालः उपरि पश्यति , वामे च योगिनी ध्यानमुद्रया देवीम् आराधयति ।
अस्य तीर्थस्य तांत्रिकपूजायाः प्रमाणं तस्य जगमोहनस्थ वलिपीठं ,हरिकाष्ठं वा युपस्थम्भात् ज्ञायते । प्रभातस्य सूर्यप्रकाशः तस्य गर्भगृहे पतति चेत् अपि अन्ते गमनसमये कृत्रिमप्रकाशस्य आवश्यकता भवति ।
-
मन्दिरे उत्कीर्णनम्
-
आलस्यवती बालिका
-
गणेशः
-
अस्मिन् शिलायां यज्ञाः क्रियन्ते इति विश्वासः
-
बाह्यदक्षिणभित्तिषु शिलालेखः। 'श्रिकासीप्ति श्रां' इति उत्कीर्ण। आधुनिकभाषायां 'श्रिकाशीपतिसारण' इत्यस्य अर्थः 'काशीपतिः [शिवस्य] आश्रयः [पशुः]' इति ।
-
पार्वती
-
अर्धनारीश्वरः
-
अलसकन्या