प्रद्युम्नाभ्युदयम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संग्रामधीरः इति प्रथितेन रविवर्मकुलशेखरेण (१२६६-१३१५) विरचितं नाटकं भवति प्रद्युम्नाभ्युदयम् । अस्मिन् पञ्च अङ्काः सन्ति । श्रीपद्मनाभस्य यात्रोत्सवे अवतारयितुं नाटकम् इदं निर्मितम् । श्रीकृष्णस्य पुत्रः प्रद्युम्नः वज्रपुराधीश्वरं वज्रनाभनामकम् असुरं हत्वा तस्य पुत्रीं प्रभावतीं परिणीतवान् । एतदेव नाटकस्यास्य कथा । हरिवंशात् संगृहीतं भवति अस्य इतिवृत्तम् । अस्य नाटकस्य सम्पादनं महामहोपाध्यायेन श्री गणपतिशास्त्रिमहोदयेन १९१० तमे संवत्सरे अनन्तशयनसंस्कृतग्रन्थावल्यां (टि. एस्. एस्) कृतम् ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=प्रद्युम्नाभ्युदयम्&oldid=409437" इत्यस्माद् प्रतिप्राप्तम्